SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः - १, अध्ययन-२, उद्देशकः - ३ ८५ तमात्मीयमाग्रहं परित्यज्य सर्वज्ञोक्ते मार्गे श्रद्धानं कुर्विति तात्पर्यार्थः, किमिति सर्वज्ञोकते मार्गे श्रद्धानमसुमान्न करोति? येनैवमुपदिश्यते, तन्निमित्तमाह-'हंदी'त्येवंगृहाण, हुशब्दोवाक्यालङ्कारे सुष्टु-अतिशयेन निरुद्धम्-आवृतदर्शनं-सम्यग्अवबोधरूपं यस्यसतथा, केनेत्याह-मोहयतीति मोहनीयं-मिथ्यादर्शनादि ज्ञानावरणीयादिकंवातेन स्वकृते कर्मणा निरुद्धदर्शनःप्राणी सर्वज्ञोक्तं मार्गं न श्रद्धत्ते अतस्तन्मार्गश्रद्धानं प्रति चोद्यते इति । मू. (१५४) दुक्खी मोहे पुणो पुणो, निविंदेज्ज सिलोगपूयणं । एवं सहितेऽहिपासए, आयतुलं पाणेहिं संजए। वृ.पुनरप्युपदेशान्तरमाह-दुःखम्-असातवेदनीयमुदयप्राप्तंतत्कारणंवा दुःखयतीति दुःखं तदस्यास्तीति दुःखी सन् प्राणी पौनःपुन्येन मोहं याति-सदसद्विवेकविकलो भवति, इदमुक्तं भवति-असातोदयात् दुःखमनुभवन्नार्तो मूढस्तत्तत्करोति येन पुनः पुनः दुःखी संसारसागरमनन्तमभ्येति, तदेवम्भूतं मोहं परित्यज्य सम्यगुत्थानेनोत्थाय 'निर्विद्येत' जुगुप्सयेत् परिहरेदात्मश्लाधां स्तुतिरूपां तथा 'पूजनं' वस्त्रादिलाभरूपं परिहरेत् । _ “एवम्' अनन्तरोक्तया नीत्या प्रवर्त्तमानः सह हितेन वर्तत इति सहितो ज्ञानादियुक्तो वा संयतः प्रव्रजितोऽपरप्राणिभिः सुखार्थिभिः ‘आत्मतुलां' आत्मतुल्यतां दुःखाप्रियत्वसुखप्रियत्वरूपामधिकं पश्येत्, आत्मतुल्यान् सर्वानपि प्राणिनः पालयेदिति । किञ्चमू. (१५५) गारंपिअआवसे नरे, अनुपुव्वं पाणेहिं संजए। समता सव्वत्थ सुव्वते, देवाणं गच्छे सलोगयं। वृ. 'अगारमपि' गृहमप्यावसन्-गृहवासमपि कुर्वन् 'नरो' मनुष्यः ‘आनुपूर्व'मिति आनुपूर्व्या-श्रवणधर्मप्रतिपत्त्यादिलक्षणया प्राणिषु यथाशक्त्या सम्यक् यतः संयतः तदुपमनिवृत्तः, किमिति? यतः 'समता' समभावः आत्मपरतुल्यता ‘सर्वत्र' यतौ गृहस्थे च यदिवैकेन्द्रियादौ श्रूयते' अभिधीयतेआर्हते प्रवचने, तां च कुर्वन्स गृहस्थोऽपि सुव्रतः सन् ‘देवानां' पुरन्दरादीनां 'लोकं स्थानं गच्छेत्, किं पुनर्यो महासत्त्वतया पञ्चमहाव्रतधारी यतिरिति ।। मू. (१५६) सोचा भगवानुसासणं, सच्चे तत्थ करेज्जुवक्कमं। सव्वत्थ विनीयमच्छरे, उञ्छं भिक्खु विसुद्धमाहरे ॥ वृ. अपिच-ज्ञानेश्वर्यादिगुणसमन्वितस्य भगवतः-सर्वज्ञस्य शासनम्-आज्ञामागमं वा 'श्रुत्वा' अधिगम्य 'तत्र' तस्मिन्नागमे तदुक्ते वा संयमे सद्यो हिते सत्ये लघुकर्मा तदुपक्रमतत्प्राप्युपायं कुर्यात्, किम्भूतः?-सर्वानापनीतो मत्सरोयेनस तथासोऽरक्तद्विष्टः क्षेत्रवस्तूपधिशरीरनिष्पिपासः, तथा उँछ'तिभैक्ष्यं विशुद्धं-द्विचत्वारिंशद्दोषरहितमाहारं गृह्णीयादभ्यवहरेद्वेति मू. (१५७) सव्वं नच्चा अहिट्ठए, धम्मट्ठी उवहाणवीरिए। गुत्ते जुत्ते सदाजए, आयपरे परमायतहिते ॥ वृ. 'सर्वम् एतद्धेयमुपादेयंचज्ञात्वा सर्वज्ञोक्तंमार्ग सर्वसंवररूपम् अधितिष्ठेत् आश्रयेत्, धर्मेणार्थो धर्म एव वाऽर्थ परमार्थेनान्यस्थानर्थरूपत्वात् धर्मार्थः स विद्यते यस्यासौ धर्मार्थीधर्मप्रयोजनवान्, उपधान-तपस्तत्र वीर्ययस्यसतथा अनिगूहितबलवीर्यइत्यर्थ, तथामनोवाक्कायगुप्तः, सुप्रणिहितयोग इत्यर्थः, तथा युक्तोज्ञानादिभि ‘सदा सर्वकालं यतेताऽऽत्मनिपरस्मिंश्चा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy