________________
८४
सूत्रकृताङ्ग सूत्रम् १/२/३/१५१
जन्तूनां लूषका-हिंसकाः सदनुष्ठानस्य वा ध्वंसकाः, ते एवम्भूता 'गन्तारो' यास्यन्ति 'पापं लोकं ' पापकर्मकारिणां यो लोको नरकादि 'चिररात्रम्' इति प्रभूतं कालं तन्निवासिनो भवन्ति, तथा बालतपश्चरणादिना यद्यपि तथाविधदेवत्वापत्तिस्तथाऽप्यसुराणामियमासुरी तां दिशं यान्ति, अपरप्रेष्याः किल्बषिका देवाधमा भवन्तीत्यर्थः ।
मू. (१५२) न य संखयमाहु जीवितं, तहवि य बालजणो पगब्भई । पप्पन्त्रेण कारियं, को दट्टु परलोयमागते ? ॥
वृ. किञ्च न च ' नैव त्रुटितं जीवितमायुः 'संस्कर्त्तु' संधातुं शक्यते, एवमाहुः सर्वज्ञाः, ॥१॥ (तथाहि ) दंडकलियं करिन्ता वच्चंति हु राइओ य दिसा य । आउं संवेल्लंता गया य न पुणो नियत्तंति ॥
'तथाऽपि' एवमपि व्यवस्थिते जीवानामायुषि 'बालजनः' अज्ञो लोको निर्विवेकतया असदनुष्ठाने प्रवृत्तिं कुर्वन् 'प्रगल्भते ' धृष्टतां याति, असदनुष्ठानेनापि न लज्जत इत्यर्थः, स चाज्ञो जनः पापानि कर्माणि कुर्वन् परेण चोदितो धृष्टतया अलीकपाण्डित्याभिमानेनेदमुत्तरमाह'प्रत्युत्पन्नेन' वर्तमानकालभाविना परमार्थसता अतीतानागतयोर्विनष्टानुत्पन्नत्वेनाविद्यमानत्वात् 'कार्यं' प्रयोजनं, प्रेक्षापूर्वकारिभिस्तदेव प्रयोजनसाधकत्वादादीयते, एवं च सतीहलोक एव विद्यते न परलोक इति दर्शयति-कः परलोकं दृष्ट्वेहायातः, तथा चोचुः
119 11
"पिब खाद च साधु शोभने !, यदतीतं वरगात्रि ! तन्न ते । नहि भीरु ! गतं निवर्तते, समुदयमात्रमिदं कलेवरम् ॥ (तथा) "एतावानेन पुरुषो, यावानिन्द्रियगोचरः ।
-
॥२॥
भद्रे ! वृकपदं पश्य, यद्वदन्त्यबहुश्रुताः ॥
इति एवमैहिकसुखाभिलाषिणा परलोकं निहुवानेन नास्तिकेन अभिहिते सत्युत्तर
प्रदानायाह
मू. (१५३) अदक्खुव दक्खुवाहियं, (तं) सद्दहसु अदक्खुदंसणा ! । हंदि हु सुनिरुद्धदंसणे, मोहणिज्जण कडेण कम्मुणा ॥
बृ. पश्यतीते पश्यो न पश्योऽपश्यः - अन्धस्तेन तुल्यः कार्याकार्याविवेचित्वादन्धवत्तस्याऽऽमन्त्रणं हेऽपश्यवद्-अन्धसध्श ! प्रत्यक्षस्यैवैकस्याभ्युपगमेन कार्याकार्यानभिज्ञ पश्येनसर्वज्ञेन व्याहृतम् उक्तं सर्वज्ञागमं 'श्रद्धस्व' प्रमाणीकुरु, प्रत्यक्षस्यैवैकस्याभ्युपगमेन समस्तव्यवहारविलोपेन हन्त हतोऽसि, पितृनिबन्धनस्यापि व्यवहारस्यासिद्धेरिति, तथा अपश्यकस्यअसर्वज्ञस्याभ्युपगतं दर्शनं येनासावपश्यकदर्शनस्तस्याऽऽमन्त्रणं हेऽपश्यकदर्शन ! स्वतोऽर्वागदर्शी भवांस्तथाविधदर्शनप्रमाणश्च सन् कार्याकार्याविवेचितयाऽन्धवदभविष्यत् यदि सर्वज्ञाभ्युपगमं नाकरिष्यत्, यदिवा अदक्षो वा अनिपुणो वा दक्षो वा निपुणो वा या शस्ता शो वाऽचक्षुर्दर्शनमस्यासावचक्षुर्दर्शनः - केवलदर्शनः सर्वज्ञस्तस्माद्यदवाप्यते हितं तत् श्रद्धस्व, इदमुक्तं भवति । अनिपुणेन निपुणेन वा सर्वज्ञदर्शनोक्तं हितं श्रद्धातव्यं, यदिवा
हे 'अद्दष्ट' हे अर्वागदर्शन ! द्रष्ट्रा अतीतानागतव्यवहितसूक्ष्मपदार्थदर्शिना यद्व्याहृतम्अभिहितमागमे तत श्रद्धस्व. हे अदृष्टदर्शन अदक्षदर्शन ! इति वा असर्वज्ञोक्तशासनानयायिन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org