________________
श्रुतस्कन्धः - १, अध्ययनं-२, उद्देशकः - ३
क्षतः-प्रचोदितोऽप्बलो-विषमपथादौ गन्तुमसमर्थो भवति, ‘स चान्तशः' मरणान्मपि यावदल्पसामर्थ्यो नातीव वोढुं शक्नोति, एवम्भूतश्च 'अबलो' भारंवोहुमसमर्थतत्रैव पङ्कादौ विषीदतीति मू. (१४८) एवं कामेसणं विऊ, अज्ज सुए पयहेज संथवं।
कामी कामे न कामए, लद्धे वावि अलद्ध कण्हुई। वृ. दार्शन्तिकमाह-'एवम्' अनन्तरोक्तया नीत्या कामानां-शब्दादीनां विषयाणां या गवेषणा-प्रार्थना तस्यां कर्तव्यायां 'विद्वान्' निपुणः कामप्रार्थनासक्तः शब्दादिपङ्के मग्नः स चैवम्भूतोऽद्य श्वो वा 'संस्तवं' परिचयं कामसम्बन्धं प्रजह्यात् किलेति, एवमध्यवसाय्येव सर्वदाऽवतिष्ठते, नच तान् कामान् अबलो बलीवर्दवत् विषमंमार्गं त्यक्तुमलं, किञ्च -
न चैहिकामुष्मिकापायदर्शितया कामी भूत्वोपनतानपि ‘कामान्' शब्दादिविषयान् वैरस्वामिजम्बूनामादिवद्वा 'कामयेत' अभिलषेदिति, तथा क्षुल्लककुमारवत् कुतश्चिन्निमित्तात् 'सुझुगाइय' मित्यादिना प्रतिबुद्धो ‘लब्धानपि' प्राप्तानपि कामान् अलब्धसमान् मन्यमानो महासत्त्वतया तन्निस्पृहो भवेदिति किमिति कामपरित्यागो विधेय इत्याशङ्कयाहमू. (१४९) मा पच्छ असाधुता भवे, अचेही अनुसास अप्पगं ।
अहियं च असाहु सोयती, सेथणती परिदेवती बहुं । वृ.मा पश्चात्-मरणकाले भवान्तरे वा कामानुषगाद् ‘असाधुता' कुगतिगमनादिकरूपा 'भवेत्' प्राप्नुयादिति, अतो विषयासङ्गादात्मानम् ‘अत्येहि' त्याजय, तथा आत्मानंच 'अनुशाधि' आत्म-नोऽनुशास्तिं कुरु, यथा हे जीव! यो हि 'असाधुः' असाधुकर्मकारी हिंसानृतस्तेयादौ प्रवृतःसन्दुर्गतौ पतितः अधिकम्-अत्यर्थमेवं शोचति, सच परमाधार्मिकैः कदीमानस्तिर्यक्षु वा क्षुधादिवेदनाग्रस्तो ऽत्यर्थं स्तनति' सशब्दं निश्वसिति, तथा परिदेवते' विलपत्याक्रन्दति सुबह्निति हामातभ्रंयत इतित्राता नैवास्तिसाम्प्रतं कश्चित् । किं शरणंमेस्यादिह दुष्कृतचरितस्य पापस्य ? । इत्येवमादीनि दुःखान्यसाधुकारिणः प्राप्नुवन्तीत्यतो विषयानुषङ्गो न विधेय इत्येवमात्मनोऽनुशासनं कुर्विति सम्बन्धनीयं । मू. (१५०) इह जीवियमेव पासहा, तरुण एवा ससयस्स तुट्टती।
इत्तरवासे य बुज्झह, गिद्धनरा कामेसु मुच्छिया। वृ.किञ्च-'इह' अस्मिन् संसारेआस्तांतावदन्यज्जीवितमेव सकलसुखास्पदमनित्यताऽऽघ्रातं आवीचिमरणेन प्रतिक्षणं विशरारुस्वभावं, तथा-सर्वायुःक्षय एव वा 'तरुण एव' युवैव वर्षशतायुरप्युपक्रमोतऽध्यवसाननिमित्तादिरूपादायुषः 'त्रुट्यति' प्रच्यवते, यदिवा --
साम्प्रतं सुबह्वप्यायुर्वर्षशतं तच्च तस्य तदन्ते त्रुट्यति, तच्च सागरोपमापेक्षया कतिपयनिमेषप्रायत्वात् इत्वरवासकल्पं वर्तते-स्तोकनिवासकल्पमित्येवं बुध्यध्वं यूयं, तथैवम्भूतेऽप्यायुषि नराः' पुरुषालघुप्रकृतयः ‘कामेषु' शब्दादिषु विषयेषु गृद्धा' अध्युपपन्ना मूर्छिताः तत्रैवाऽऽसक्तचेतसो नरकादियातनास्थानमाप्नुवन्तीति शेषः अपिचमू. (१५१) जे इह आरंभनिस्सिया, आतदंडा एगंतलूसगा।
गंता ते पावलोगयं, चिररायं आसुरियं दिसं॥ वृ.ये केचन महामहोकुलितचेतसः ‘इह' अस्मिन्मनुष्यलोके आरम्भे' हिंसादिकेसावद्यानुष्ठानरूपेनिश्चयेन श्रिताः-संबद्धा अध्युपपन्नास्तेआत्मानंदण्डयन्तीत्यात्मदण्डकाः, तथैकान्तेनैव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org