________________
सूत्रकृताङ्ग सूत्रम् १/२/३/१४४ मू. (१४४) जे विनवणाहिऽजोसिया, संतिन्नेहिं समं वियाहिया।
तम्हा उड्ढति पासहो, अदक्खु कामाइ रोगवं ।।। वृ. येऽपिच तेनैव भवेन न मोक्षमाप्नुवन्ति तानधिकृत्याह-'ये' महासत्त्वाः कामार्थिभिर्विज्ञाप्यन्तेयास्तदर्थिन्यो वा कामिनं विज्ञापयन्ति ता विज्ञापनाः-यिस्ताभि 'अजुष्टा' असेविताः क्षयं वा-अवसायलक्षणमतीतास्ते 'सन्तीर्णैः' मुक्तैः समं व्याख्याताः, अतीर्णा अपि सन्तोयतस्तेनिष्किञ्च-नतया शब्दादिषुविषयेष्वप्रतिबद्धाः संसारोदन्वतस्तटोपान्तवर्तिनो भवन्ति, तस्माद् ‘ऊर्ध्वमिति' मोक्षं योषित्परित्यागाद्वोर्ध्वं यद्भवति तत्पश्यत यूयं येच कामान् ‘रोगवदू' व्याधिकल्पान् ‘अद्राक्षु दृष्टवन्तस्ते संतीर्णसभा व्याख्याताः, तथा चोक्तम् - ॥१॥ “पुष्फफलाणंच रसं सुराइ मस्स महिलियाणं च ।
जाणंताजे विरया ते दुक्करकारएवंदे। तृतीयपादस्य पाठान्तरंवा 'उड्डे तिरियंअहेतहा' ऊर्ध्वमिति-सौधर्मादिषु, तिरियमितितिर्यक्लोके, अध इति भवनपत्यादौ, ये कामास्तान् रोगवदद्राक्षुर्ये ते तीर्णकल्पा व्याख्याता इति ।। पुनरप्युपदेशान्तरमधिकृत्याहमू. (१४५) अग्गं वणिएहिं आहियं, धारंती राईणिया इहं।
एवं परमा महव्वया, अक्खाया उ अराइभोयणा ॥ . वृ. 'अग्रं' वर्यं प्रधानं रत्नवस्त्राभरणादिकं तद्यथा वणिग्भिर्देशान्तराद् ‘आहितं' दौकितं राजानस्तत्कल्पाईश्वरादयः 'इह' अस्मिन्मनुष्यलोके धारयन्ति' बिभ्रति, एवमेतान्यपिमहाव्रतानि रत्नकल्पानि आचार्यै 'आख्यातानि' प्रतिपादितानी नियोजितानि ‘सरात्रिभोजनानि' रात्रिभोजनविरमणषष्ठानि साधवो बिभ्रति, तुशब्दः पूर्वरलेभ्यो महाव्रतरलानां विशेषापादक इति, इदमुक्तं भवति-यथा प्रधानरत्नानां राजान एव भाजनमेवं महाव्रतरत्लानामपि महासत्त्वा एव साधवो भाजनं नान्ये इति॥ मू. (१४६) जे इह सायाणुगा नरा, अन्झोववन्नाकामोमेहिं मुच्छिया।
किवणेण समं पगब्भिया, न वि जाणंति समाहिमाहितं ।। वृ. किञ्च-ये नरा लघुप्रकृतयः 'इह' अस्मिन् मनुष्यलोके सातं-सुखमनुगच्छन्तीति सातानुगाः-सुखशीला एहिकामुष्मिकापायभीरवः समृद्धिरससातागौरवेषु अध्युपपन्ना' गृद्धाः तथा 'कामेषु' इच्छामदनरूपेषु 'मूर्छिता' कामोत्कटतृष्णाः कृपणो-दीनो वराकक इन्द्रियैः पराजितस्तेन समाः तद्वत्कामासेवने 'प्रगल्मिता' धृष्टतां गताः, यदिवा-किमनेन स्तोकेन दोषेणासम्यकप्रत्युपेक्षणादिरूपेणास्मत्संयमस्य विराघनं भविष्यत्येवं प्रमादवन्तः कर्तव्येष्ववसीदन्तः समस्तमपि संयम षटवन्मणिकुट्टिमवद्वा मलिनीकुर्वन्ति, एवम्भूताश्च ते 'समाधि' ., धर्मध्यानादिकम् 'आख्यातं' कथितमपि नजानन्तीति पुनरप्युपदेशान्तरमधिकृत्याहमू. (१४७) वाहेण जहा व विच्छए, अबले होइ गवं पचोइए।
से अंतसो अप्पथामए, नाइवहइ अबले विसीयति॥ वृ. 'व्याधेन' लुब्धकेन ‘जहा वत्ति यथा ‘गवन्ति मृगादिपशुर्विविधम्-अनेकप्रकारेण कूटपाशादिना क्षतः-परवशीकृतः श्रमं वा ग्राहितः प्रणोदितोऽप्यबलो भवति, जातश्रमत्वात् गन्तुमसमर्थः, यदिवा-वाहयतीति वाहः-शाकटिकस्तेन यथावदवहन् गौर्विविधं प्रतोदादिना
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org