________________
श्रुतस्कन्धः - १, अध्ययनं - २, उद्देशक :- २
मू. (१४१)
न हि नून पुरा अनुस्सुतं, अदुवा तं तह नो समुट्ठियं । मुनिना सामाइआहितं, नाएणं जगसव्वदंसिणा ।।
वृ. यदेतत् 'मुनिना' जगतः सर्वभावदर्शिना ज्ञातपुत्रीयेण सामायिकादि 'आहितम्' आख्यातं, तत् 'नूनं' निश्चितं 'न हि' नैव 'पुरा' पूर्व जन्तुभि 'अनुश्रुतं' श्रवणपथमायातं अथवा श्रुतमपि तत्सामायिकादि यथा अवस्थितं तथा नानुष्ठितं, पाठान्तरं वा 'अवितह 'न्ति अवितथं यथा- वन्नानुष्ठितमतः कारणादसुमतामात्महितं सुदुर्लभमिति ।।
मू. (१४२)
एवं मत्ता महंतरं, धम्ममिणं सहिया बहू जणा ।
गुरुणो छंदाणुवत्तगा, विरया तिन्न महोघमाहितं ॥ तिबेमि ॥
वृ. पुनरप्युपदेशान्तरमधिकृत्याह 'एवम् ' उक्तरीत्याऽऽत्महितं सुदुर्लभं 'मत्वा' ज्ञात्वा धर्माणां च महदन्तरं धर्मविशेषं कर्मणो वा विवरं ज्ञात्वा, यदिवा 'महंतरं' ति मनुष्यार्यक्षेत्रादिकमवसरं सदनुष्ठानस्य ज्ञात्वा ‘एनं' जैनं 'धर्मं ' श्रुतचारित्रात्मकं । सह हितेन वर्तन्त इति सहिता-ज्ञानादियुक्ता बहवो जना लघुकर्माणः समाश्रिताः सन्तो 'गुरोः ' आचार्यादेस्तीर्थङ्करस्य वा 'छन्दानुवर्त्तकाः' तदुक्तमार्गानुष्ठायिनो 'विरताः' पापेभ्यः कर्मभ्यः सन्तस्तीर्णा 'महौघम्' अपारं संसारसागरमेवमाख्यातं मया भवतामपरैश्च तीर्थकृद्विमन्येषाम्, इतिशब्दः परिसमाप्त्यर्थे, ब्रवीमीति पूर्ववत् अध्ययनं-२ उद्देशकः-२ समाप्तः
26
८१
-: अध्ययनं-२ उद्देशकः-३ :
उक्तो द्वितीयोद्देशकः, साम्प्रतं तृतीयः समारभ्यते अस्य चायमभिसम्बन्धः - इहानन्तरोद्देशकान्ते विरता इत्युक्तं, तेषां च कदाचित्परीषहा समुदीर्येरन्नतस्तत्सहनं विधेयमिति, उद्देशार्थाधिकारोऽपि निर्युक्तिकारेणाभिहितः यथाऽज्ञानोपचितस्य कर्मणोऽपचयो भवतीति, स च परीषहसहनादेवेत्यतः परीषहाः सोढव्या इत्यनेन संबन्धेनाऽऽयातस्यास्योद्देशकस्याऽऽदि सूत्रमू. (१४३) संवुडकम्मस्स भिक्खुणो, जं दुक्खं पुढं अबोहिए।
तं संजमओऽ वचिज्जई, मरणं हेच्च वयंति पंडिया ॥
वृ. संवृतानि - निरुद्धानि कर्माणि अनुष्ठानानि सम्यगुपयोगरूपाणि वा मिथ्यादर्शनाविरतिप्रमादकषाययोगरूपाणि वा यस्य भिक्षोः' साधोः स तथा तस्य यत् 'दुःखम्' असद्वेद्यं तदुपादानभूतं वाऽष्टप्रकारं कर्म 'स्पृष्ट' मिति बद्धस्पृष्टनिकाचितमित्यर्थः तच्चात्र 'अबोधिना' अज्ञानेनोपचितं सत् ‘संयमतो' मौनीन्द्रोत्क्तात् सप्तदशरूपादनुष्ठानाद् 'अपचीयते' प्रतिक्षणं क्षयमुपयाति, एतदुक्तं भवति -
यथा तटाकोदरसंस्थितमुदकं निरुद्धापरप्रवेशद्वारं सदादित्यकरसम्पर्कात् प्रत्यहमपचयते, एवं संवृता श्रवद्वारस्य भिक्षोरिन्द्रिययोगकषायं प्रति संलीनतया संवृतात्मनः सतः संयमानुष्ठानेन चानेकभवाज्ञानोपचितं कर्म क्षीयते, ये च संवृतात्मानः सदनुष्ठायिनःश्च ते 'हित्वा' त्यक्त्वा 'मरणं' मरणस्वभावमुपलक्षणत्वात् जातिजरामरणशोकादिकं त्यक्त्वा मोक्षं व्रजन्ति 'पण्डिताः ' सदसद्विवेकिनः, यदिवा- 'पण्डिताः' सर्वज्ञा एवं वदन्ति यत् प्रागुक्तमिति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org