________________
सूत्रकृताङ्ग सूत्रम् १/२/२/१३९ वृ."छन्नंति माया तस्याः स्वाभिप्रायप्रच्छादनरूपत्वात्तांन कुर्यात्, चशब्द उत्तरापेक्षया समुच्चयार्थः, तथा प्रशस्यते-सर्वैरप्यविगानेनाद्रियत इति प्रशस्यो-लोभस्तं च न कुर्यात्, तथाजात्यादिभिर्मदस्थानलघुप्रकृतिं पुरुषमुत्कर्षयतीत्युकर्षको-मानस्तमपि न कुर्यादिति सम्बन्धः, तथाऽन्तर्व्यवस्थितोऽपि मुखष्टिभूभङ्गविकारैः प्रकाशीभवतीति प्रकाशः-क्रोधस्तं च 'माहणे' त्ति साधुन कुर्यात्।
'तेषां' कषायाणां यैर्महात्मभिः 'विवेकः परित्यागः 'आहितो' जनितस्त एव धर्मं प्रति प्रणता इति, यदिवा-तेषामेव सत्पुरुषाणां सुष्टु विवेकः परिज्ञानरूप आहितः प्रथितः प्रसिद्धिं गतः त एव च धर्मं प्रति प्रणताः 'यैः' महासत्त्वैः सुष्ठु जुष्टं' सेवितं धूयतेऽष्टप्रकारं कर्म तद्भूतंसंयमानुष्ठानं, यदिवा-यैः सदनुष्ठायिभिः 'सुजोसिअंतिसुष्टुक्षिप्तं धूननार्हत्वात् 'धूतं' कर्मेति॥ मू. (१४०) अनिहे सहिए सुसंवुडे, धम्मट्ठी उवहाणवीरिए।
विहरेज्ज समाहिइंदिए, अत्तहिअंखु दुहेण लब्भइ॥ वृ.अपि च-स्निह्यत इति स्निहः न स्निहः अस्निहः-सर्वत्र ममत्वरहित इत्यर्थः, यदिवापरीषहोपसगैर्निहन्यथते इति निहः ननिहोऽनिहः-उपसर्गरपराजितइत्यर्थ, पाठान्तरंवा अणहे ति नास्याघमस्तीत्यनघो,निरवद्यानुष्ठायीत्यर्थः, सह हितेन वर्तत इति सहितः सहितो-युक्तो वा ज्ञानादिभिः, स्वहितः-आत्महितो वा सदनुष्ठानप्रवृत्तेः, तामेव दर्शयति-सुष्ठु ‘संवृत' इन्द्रियनोइन्द्रियैविस्रोतसिकारहित इत्यर्थः, तथा धर्मः-श्रुतचारित्राख्यः तेनार्थः-प्रयोजनं स एव वाऽर्थ तस्यैव सद्भिरर्यमाणत्वात् धर्मार्थः स यस्यास्तीति सधर्मार्थी तथा उपधान-तपस्तत्र वीर्यवान्स एवम्भूतो 'विहरेत् संयमानुष्ठानं कुर्यात् ‘समाहितेन्द्रियः' संयतेन्द्रियः, कुत एवं?-यतआत्महितं दुःखेनासुमता संसारे पर्यटता अकृतधर्मानुष्ठानेन ‘लभ्यते' अवाप्यत इति, तथाहि - ॥१॥ “न पुनरिदमतिदुर्लभमगाधसंसारजलधिविभ्रष्टम्।
मानुष्यं खद्योतकतडिल्लताविलसितप्रतिमम् ।। तथाहि-युगसमिलादिदृष्टान्तनीत्या मनुष्यभव एव तावत् दुर्लभः, तत्राप्यार्यक्षेत्रादिकं दुरापमिति, अत आत्महितं दुःखेनावाप्यत इति मन्तव्यम्, अपिच॥१॥ भूतेषु जङ्गमत्वं तस्मिन् पञ्चेन्द्रियत्वमुत्कृष्टम् ।
__ तस्मादपि मानुष्यं मानुष्येऽप्यार्यदेशश्च । ॥२॥ देशे कुलं प्रधानं कुले प्रधाने च जातिरुत्कृष्टा ।
जातौ रूपसमृद्धी रूपे च बलं विशिष्टतमम् ।। ॥३॥ भवति बले चायुष्कं प्रकृष्टमायुष्कतोऽपि विज्ञानम् ।
विज्ञाने सम्यकत्वं सम्यकत्वेशीलसंप्राप्ति ॥ एतत्पूर्वश्चायं समासतो मोक्षसाधनोपायः। तत्र च बहु सम्प्राप्तं भवद्भिरल्पंच संप्राप्यम् ।। तत्कुरुतोद्यममधुना मदुक्तमार्गे समाधिमाधाय । त्यक्त्वा सङ्गमनार्यं कार्यं सद्भिः सदा श्रेयः॥इति॥ एतच्च प्राणिभिर्न कदाचिदवाप्तपूर्वमित्येतदर्शयितुमाह
॥४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org