________________
७४
सूत्रकृताङ्ग सूत्रम् १/२/२/११७
धर्मं प्रकाशयेत्, छान्दसत्वात् वर्तमाने भूतनिर्देश इति ॥ मू. (११८) बहवे पाणा पुढो सिया, पत्तेयं समयं समीहिया ।
जो मोनपदं उवहितै, विरतिं तत्थ अकासि पंडिए॥ वृ. स बहुजननमने धर्मे व्यवस्थितो याक् धर्म प्रकाशयति तद्दर्शयितुमाह-यदिवोपदेशान्तरमेवाधिकृत्याह- ‘बहवे'इत्यादि, 'बहवः' अनन्ताः 'प्राणाः दशविधप्राणभाकत्वात्तदभेदोपचारात् प्राणिनः ‘पृथग्' इति पृथिव्यादिभेदेन सूक्ष्मबादरपर्याप्तकापर्याप्तनरकगत्यादिभेदेन वासंसारमाश्रिताः तेषांचपृथगाश्रितानामपि प्रत्येकंसमतां-दुःखद्वेषित्वं सुखप्रियत्वं च 'समीक्ष्य' दृष्ट्वा ,। यदिवा-'समतां' माध्यस्थ्यमुपेक्ष्ययो ‘मौनीन्द्रपदमुपस्थितः' संयममाश्रितः स साधुः 'तत्र' अनेकभेदभिन्नप्राणिगणे दुःखद्विषि सुखाभिलाषिणि सति तदुपधाते कर्तव्ये विरतिम् अकार्षीत् कुर्याद्वेति, पापाङ्गीनः- पापानुष्ठानात् दवीयान् पण्डित इति ।। अपिचमू. (११९) धम्मस्स य पारए मुनी, आरंभस्स य अंतए ठिए। .
सोयंति य णं ममाइणो, नो लब्भंति नियं परिग्गहं ।। वृ.धर्मस्य-श्रुतचारित्रभेदभिन्नस्य पारं गच्छतीति पारगः-सिद्धान्तपारगामी सम्यक्चा - रित्रानुष्ठायी वेति, चारित्रमधिकृत्याह 'आरम्भस्य' सावद्यानुष्ठानरूपस्य अन्ते' पर्यन्ते तदभावरूपे स्थितो मुनिर्भवति, ये पुनर्नैवं भवन्तितेअकृतधर्माःमररणे दुःखेवा समुत्थितेआत्मानंशोचन्ति, णमिति वाक्यालङ्कारे, यदिवेष्टमरणादौ अर्थनाशे वा 'ममाइणो'त्ति ममेदमहमस्य स्वामीत्येवमध्यसायिनः शोचन्ति, शोचमाना अप्येते 'निजम्' आत्मीयं ।
परि-समन्तान् गृह्यते-आत्मसाक्रियत इति परिग्रहः-हिरण्यादिरिष्टस्वजनादिर्वा तं नष्टं मृतं वा नलभन्ते' न प्राप्नुवन्तीति, यदिवाधर्मस्य पारगंमुनिमारम्भस्यान्ते व्यवस्थितमेनमागत्य 'स्वजनाः' मातापित्रादयः शोचन्ति 'ममत्वयुक्ताः' स्नेहालवः, न च ते लभन्ते निजमप्यात्मीयपरिग्रहबुद्धया गृहीतमिति, ॥ मू. (१२०) इहलोगदुहावहं विऊ, परलोगे य दुहं दुहावहं ।
विद्धंसणधम्ममेव तं, इति विजं कोऽगारमावसे ।। वृ.अत्रान्तरे 'नागार्जुनीयास्तु' पठन्ति॥१॥ “सोऊण तयं उवट्ठियं, केइ गिही विग्घेण उट्ठिया।
धम्ममि अनुत्तरे मुनी, तंपि जिणिज्ज इमेण पंडिए॥ एतदेवाह-'इह' अस्मिन्नेव लोके हिरण्यस्वजनादिकं दुःखमावहति विउ'त्ति विद्याःजानीहि, तथाहि - ॥१॥ अर्थानामर्जने दुःखमर्जितानां च रक्षणे।
आये दुःखं व्यये दुःखं, धिगर्थ दुःखभाजनम् ।। (तथाहि) ॥१॥ 'रेवापयः किसलयानि च सल्लकीनां, विन्ध्योपकण्ठविपिनं स्वकुलं च हित्वा ।
किं ताम्यसि द्विप ! गतोऽसि वशं करिण्याः, स्नेहो निबन्धनमर्थपरम्परायाः ।। परलोके च हिरण्यस्वजनादिममत्वापादितकर्मजंदुःखं भवति, तदप्यपरंदुःखमावहति, तदुपादानकर्मोपादानादिति भावः, तथैतदुपार्जितमपि विध्वंसनधर्म' विशरारुस्वभावं, गत्वर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org