________________
श्रुतस्कन्धः - १, अध्ययनं-२, उद्देशकः - २
७५
मित्यर्थ, इत्येवं विद्वान्' जानन् कः सकर्ण ‘अगारवासं' गृहवासमावसेत् ?, गृहपाश वाऽनुबध्नीयादिति, उक्तंच॥१॥ “दाराः परिभवकारा बन्धुजनो बन्धनं विषं विषयाः । कोऽयं जनस्य मोहो? ये रिपवस्तेषु सुहृदाशा॥
-पुनरप्युपदेशमधिकृत्याहमू. (१२१) महयं पलिगोव जाणिया, जावि य वंदणपूयणा इहं।
सुहुमे सल्ले दुरुद्धरे, विउमंता पयहिज्ज संथवं । वृ. 'महान्तं' संसारिणांदुस्त्यजत्वान्महता वा संरम्भेण परिगोपणंपरिगोपः द्रव्यतः पङ्कादिः भावतोऽभिष्वङ्गः तं ‘ज्ञात्वा' स्वरूपतः तद्विपाकतो वा परिच्छिद्य याऽपि च प्रव्रजितस्य सतो राजादिभिः कायादिभिर्वन्दना वस्त्रपात्रादिभिश्च पूजना तां च ‘इह' अस्मिन् लोके मौनीन्द्रे वा शासने व्यवस्थितेन कर्मोपशमजं फलमित्येवं परिज्ञायोत्सेको न विधेयः, किमिति ?, यतो गर्वात्मकमेवत्सूक्ष्म शल्यं वर्तते, सूक्ष्मत्वाच्च 'दुरुद्धरं' दुःखेनोद्धर्तुं शक्यते, अतः 'विद्वान्' सदसद्विवेकज्ञस्तत्तावत् संस्तवं परिचयमभिष्वङ्गं परिजह्यात् परित्यजेदिति। नागार्जुनीयास्तुपठन्ति॥१॥ “पलिमंथ महं वियाणिया, जाऽविय वंदनपूयणा इहं ।
__ सुहुमं सल्लं दुरुद्धरं, तंपि जिने एएण पंडिए॥ अस्य चायमर्थ-साधोः स्वाध्यायध्यानपरस्यैकान्तनि स्पृहस्य योऽपि चायं परैः वन्दनापूजनादिकः सत्कारः क्रियते असावपि सदनुष्ठानस्य सद्गतेर्वा महान् पलिमन्थो-विघ्नः, आस्तांतावच्छब्दादिष्वभिष्वङ्गः, तमित्येवंपरिज्ञाय तथा सूक्ष्मशल्यंदुरुद्धरंचअतस्तमपि 'जयेद्' अपनयेत् पण्डितः ‘एतेन' वक्ष्यमाणेनेति ।। मू. (१२२) एगे चरे ठाणमासणे, सयणे एगे समाहिए सिया।
भिक्खू उवहाणवीरिए, वइगुत्ते अज्झत्तसंवुडो । वृ. 'एकः' असहायोद्रव्यतएकल्लविहारीभावतोरागद्वेषरहितश्चरेत्, तथा स्थानं कायोत्सर्गादिकम् एक एव कुर्यात्, तथा आसनेऽपि व्यवस्थितोऽपि रागद्वेषरहित एव तिष्ठेत्, एवं शयनेऽप्येकाक्येव ‘समाहितः' धर्मादिध्यानयुक्तः ‘स्यात्' भवेत्, एतदुक्तं भवति।
सर्वास्वप्यवस्थासुचरणस्थानासनशयनरूपासु रागद्वेषविरहात् समाहितएव स्यादिति, तथा भिक्षणशीलो भिक्षुः उपधान-तपस्तत्र वीर्यं यस्य स उपधानवीर्य-तपस्यनिगूहितबलवीर्य इत्यर्थः, तथा 'वाग्गुप्तः' सुपर्यालोचिताभिधायी 'अध्यात्म' मनः तेन संवृतो भिक्षुर्भवेदिति। मू. (१२३) पीहे न यावपंगुणे, दारं सुन्नघरस्स संजए।
पुढे न उदाहरे वयं, न समुच्छे नो संथरे तणं॥ वृ. केनचिच्छयनादिनिमित्तेन शून्यगृहमाश्रितो भिक्षुः तस्य गृहस्य द्वारं कपाटादिना न स्थगयेनापितच्चालयेत्, यावत् ‘न यावपंगुणे'त्ति नोद्घाटयेत्, तत्रस्थोऽन्यत्र वा केनचिद्धर्मादिकं मार्ग वा पृष्टः सन् सावद्यां वाचं 'नोदाहरेत्' न ब्रूयात्, आभिग्रहिको जिनकल्पिकादिर्निरवद्यामपि न ब्रूयात्, तथा 'न समुच्छिन्द्यात्' तृणानि कचवरं च प्रमार्जनेन नापनयेत, नापि शयनार्थी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org