________________
श्रुतस्कन्धः - १, अध्ययनं-२, उद्देशकः - २ मू. (११७) बहुजणणमणमि संवुडो, सबढेहिंनरे अनिस्सिए।
हरए व सया अनाविले, धम्मं पादुरकासि कासवं ।। वृ. बहून् जनान् आत्मानं प्रति नामयति-प्रह्लीकरोति तैर्वा नम्यते-स्तूयते बहुजननमनोधर्म, स एव बहुभिर्जनैरात्मीयात्मीयाशयेन यथाऽभ्युपगमप्रशंसयास्तूयते-प्रशस्यते, कथम्?, अत्र कथानकं राजगृहे नगरे श्रेणिको महाराजः, कदाचिदसौ चतुर्विधबुध्ध्युपेतेन पुत्रेण अभयकुमारेण सार्धमास्थानस्थितस्ताभिस्ताभिःकथाभिरासाञ्चक्रे, तत्रकदाचिदेवम्भूता कथाऽभूत्, तद्यथा इह लोके धार्मिकाः बहवः उताधार्मिका इति?, तत्र समस्तपर्षदाऽभिहितम्यथाऽत्राधार्मिका बहवोलोकाधर्मंतुशतानामपि मध्ये कश्चिदेवैको विधत्ते, तदाकण्यार्भयकुमारेणोक्तं
यथा प्रायशो लोकाः सर्व एव धार्मिकाः, यदि न निश्चयो भवतां परीक्षा क्रियतां, पर्षदाऽप्यभिहितम्-एवमस्तु, ततोऽभयकुमारेणधवलेतरप्रासादद्वयंकारितं,घोषितं च डिण्डिमेन नगरे, यथा-यः कश्चिदिहधार्मिकः स सर्वोऽपि धवलप्रासादंगृहीतबलि प्रविशतु, इतरस्त्वितरमिति, ततोऽसौ लोकः सर्वोऽपि धवलप्रासादमेव प्रविष्टो निर्गच्छंश्च कथं त्वं धार्मिकः? इत्येवं पृष्टः कश्चिदाचष्टे-यथाऽहं कर्षकः अनेकशकुनिगणः मद्धान्यकणैरात्मानं प्रीणयति खलकसमागतधान्यकणभिक्षादानेन च मम धर्म इति, अपरस्त्वाह -
यथाऽहं ब्राह्मणः षट्कर्माभिरतः तथा बहुशौचस्नानादिभिर्वेदविहितानुष्ठानेन पितृदेवांस्तर्पयामि, अन्यः कथयति-यथाऽहं वणिक्कुलोपजीवी भिक्षादानादिप्रवृत्तः, अपरस्त्विदमाह-यथाऽहं कुलपुत्रकः न्यायागतं निर्गतिकं कुटुम्बकंपालयाम्भेव, तावत्श्वपाकोऽपीदमाहयथाऽहं कुलक्रमागतं धर्ममनुपालयामीति मन्निश्रयाचबहवः पिशितभुजः प्राणान् संधारयन्ति, इत्येवं सर्वोऽप्यात्मीयात्मीयं व्यापारमुद्दिश्य धर्मे नियोजयति, तत्रापरमसितप्रासादं श्रावकद्वयं प्रविष्टं, तच्च किमधर्माचरणंभवम्यामकारीत्येवं पृष्टंसत् सकृन्मद्यनिवृत्तिभङ्गव्यलीकमकथयत्, तथा साधव एवात्र परमार्थतो धार्मिका यथागृहीतप्रतिज्ञानिर्वाहणसमर्था, अस्माभिस्तु॥१॥ 'अवाप्य मानुषं जन्म, लब्ध्वा जैनं च शासनम् ।
कृत्वा निवृत्तिं मद्यस्य, सम्यक् साऽपि न पालिता ॥ ॥२॥ अनेनव्रतभङ्गेन, मन्यमाना अधार्मिकम् ।
अधमाधममात्मानं, कृष्णप्रासादमाश्रिताः ॥ (तथहि) ॥३॥ 'लज्जां गुणौघजननी जननीमिवामित्यन्तशुद्धहृदयामनुवर्तमानाः ।
तेजस्विनः सुखमसूनपि संत्यजन्ति, सत्यस्थितिव्यसनिनो न पुनः प्रतिज्ञाम्॥ ॥४॥ वरं प्रवेष्टुं ज्वलितं हुताशनं, नचापि मग्नं चिरसंचितव्रतम् ।
वरं हि मृत्यु सुविशुद्धचेतसो, नचापि शीलस्खलितस्य जीवितम् ॥ इति, तदेवं प्रायशः सर्वोऽप्यात्मानं धार्मिकं मन्यत इतिकृत्वा बहुजननमनो धर्म इति स्थितं, तस्मिंश्च ‘संवृतः' समाहितः सन्नरः' पुमान्सर्थिवाह्याभ्यन्तरैर्धनधान्यकलत्रममत्वादिभि 'अनिश्रितः' अप्रतिबद्धः सन् धर्मं प्रकाशितवानित्युत्तरेण सह सम्बन्धः, निदर्शनमाह-हृद इव स्वच्छाम्भसा भृतः सदा ‘अनाविलः' अनेकमत्स्यादिजलचरसंक्रमेणाप्यनाकुलोऽकलुषोवाक्षान्त्यादिलक्षणं धर्मं प्रादुरकार्षीत्' प्रकटं कृतवान्, यदिवा एवंविशिष्ट एव काश्यपं-तीर्थङ्करसंबन्धिनं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org