________________
सूत्रकृताङ्ग सूत्रम् १/२/२/११३
मू. (११३) जे याविअनायगे सिया, जेविय पेसगपेसए सिया।
से मोनपयं उवट्ठिए, नो लज्ने समयं सया यरे ।। वृ.यश्चापिकश्चिदास्तांतावत् अन्योन विद्यतेनायकोऽस्येत्यनायकः-स्वयंप्रभुश्चक्रवर्त्यादि 'स्यात्' भवेत्, यश्चापि प्रेष्यस्यापि प्रेष्यः-तस्यैव राज्ञः कर्मकरस्यापि कर्मकरः, य एवम्भूतो मौनीन्द्रं पद्यते-गम्यते मोक्षो येने तत्पदं-संयमस्तम् उप-सामीप्येन स्थितः उपस्थितः-समाश्रितः सोऽप्यलज्जमान उत्कर्षमकुर्वन् वा सर्वा क्रियाः-परस्परतो वन्दनप्रतिवन्दनादिका विधत्ते
इदमुक्तं भवति-चक्रवर्तिनाऽपि मौनीन्द्रपदमुपस्थितेन पूर्वमात्मप्रेष्यप्रेष्यमपि वन्दमानेन लज्जा न विधेया इतरेण चोत्कर्ष इत्येवं 'समतां' समभावं सदा भिक्षुश्चरेत्-संयमोधुक्तो भवेदिति मू. (११४) सम अन्नयरम्मि संजमे, संसुद्धे समणे परिव्वए।
जे आवकहा समाहिए, दविए कालमकासि पंडिए। वृ. क्व पुनर्व्यवस्थितेन लज्जामदौ न विधेयाविति दर्शयितुमाह- ‘समे'ति समभावोपेतः सामायिकादौ संयमे संयमस्थाने वा षट्स्थानपतितत्वात्संयमस्थानानामन्यतरस्मिन्संयमस्थाने छेदोपस्थापनीयादौ वा, तदेव विशिनष्टि-सम्यकशुद्धे सम्यकशुद्धो वा 'श्रमणः' तपस्व लज्जामदपरित्यागेन समानमना वा 'परिव्रजेत्' संयमोद्युक्तो भवेत्, स्यात्-कियन्तं कालम् ? यावत् कथा-देवदत्तो यज्ञदत्तइति कथां यावत्, सम्यगाहित आत्मा ज्ञानादौ येन स समाहितःसमाधिना वा-शोभनाध्यवसायेन युक्तः, द्रव्यभूतो-रागद्वेषादिरहितः मुक्तिगमनयोग्यतया वा भव्यः,स एवम्भूतः कालमकार्षीत् ‘पण्डितः' सदसद्विवेककलितः, एतदुक्तं भवति-देवदत्त इति कथा मृतस्यापि भवति अतोयावन्मृत्युकालं तावल्लज्जामदपरित्यागोपेतेन संयमानुष्ठाने प्रवर्तितव्यमिति स्यात् किमालम्ब्यैतद्विधेयमिति, उच्यते- . मू. (११५) दूरं अनुपस्सिया मुनी, तीतं धम्ममनागयंतहा।
पुढे परुसेहि माहणे, अवि हण्णू समयंमिरीयइ । __ वृ. दूरवर्त्तित्वात्दूरो-मोक्षस्तमनु-पश्चात्तं दृष्ट्वा यदिवा-दूरमितिदीर्घकालम् ‘अनुद्दश्य' पर्यालोच्य ‘मुनिः' कालत्रयवेत्ता दूरमेव दर्शयति-अतीतं 'धर्म' स्वभावं-जीवानामुच्चावचस्थानगतिलक्षणं तथा अनागतं च धर्म-स्वभावं पर्यालोच्य लज्जामदौ न विधेयौ, तथा ‘स्पृष्टः' छुप्तः ‘परुषैः' दण्डकशादिभिर्वाग्भिर्वा माहणे'त्ति मुनि ‘अवि हण्णू'त्ति अपि मार्यमाणः स्कन्दकशिष्यगणवत् ‘समये' संयमे ‘रीयते' तदुक्तमार्गेण गच्छतीत्यर्थः, पाठान्तरं वा ‘समयाऽहियासए'त्ति समतया सहत इति । मू. (११६) पन्नसमत्ते सया जए, समता धम्ममुदाहरे मुनी।
सुहुमे उ सया अलूसए, नो कुज्झे नो माणि माहणे ॥ वृ.पुनप्युपदेशान्तरमाह-प्रज्ञायां समाप्तःप्रज्ञासमाप्तः-पटुप्रज्ञः, पाठान्तरंवा ‘पण्हसमत्थे' प्रश्नविषये प्रत्युत्तरदानसमर्थ सदा सर्वकालं जयेत्, जेयं कषायादिकमिति शेषः।
तथा समया-समता तया धर्मम्-अहिंसादिलक्षणम् ‘उदाहरेत्' कथयेत् ‘मुनि' यति सूक्ष्मे तु-संयमे यत्कर्तव्यं तस्य ‘अलूषकः' अविराधकः, तथा न हन्यमानो वा पूज्यमानो वा क्रुध्येन्नापि 'मानी' गर्वितः स्यात् ‘माहणो' यतिरिति । अपिच
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org