SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः - १, अध्ययनं -२, उद्देशकः - २ ७१ -:अध्ययनं-२ उद्देशकः-२:प्रथमानन्तरं द्वितीयः समारभ्यते-अस्य चायमभिसंबन्धः, इहानन्तरोद्देशके भगवता स्वपुत्राणां धर्मदेशनाऽभिहिता, तदिहापिसैवाध्ययनार्थाधिकारत्वात् अभिधीयते, सूत्रस्य सूत्रेण सह साबन्धोऽयम्-अनन्तरोक्तसूत्रे बाह्यद्रव्यस्वजनारम्भपरित्यागोऽभिहितः, तदिहाप्यान्तरमानपरित्याग उद्देशार्थाधिकारसूचितोऽभिधीयते, तदनेन संबन्धेनायातस्यास्योद्देशकस्यादिसूत्रंमू. (१११) तयसं व जहाइ से रयं, इति संखाय मुनी न मज्जई। गोयन्नतरेण माहण, अहसेयकरी अनेसी इंखिणी॥ वृ. यथा उरगः स्वां त्वचं अवश्यं परित्यागार्हत्वात् ‘जहाति' परित्यजति, एवमसावपि साधुः रजइवरजः-अष्टप्रकारं कर्मतदकषायित्वेन परित्यजतीति, एवंकषायाभावो हि कर्माभावस्य कारणमिति ‘संख्याय' ज्ञात्वा 'मुनि' कालत्रयवेदी ‘नमाद्यति' मदं न याति, मदकारणं दर्शयति _ 'गोत्रेण' काश्यपादिना, अन्यतरग्रहणात् शेषाणि मदस्थानानि गृह्यन्त इति, 'माहण'त्ति साधुः, पाठान्तरं वा 'जे विउ'त्ति यो विद्वान्-विवेकी सजातिकुललाभादिभिः न माद्यतीति, न केवलं स्वतो मदो न विधेयः, जुगुप्साऽप्यन्येषां न विधेयेति दर्शयति-'अथ' अनन्तरं असौ 'अश्रेयस्करी' पापकारिणी 'इंखिणि'त्ति निन्दा अन्येषामतोन कार्येति, ‘मुनीन मज्जइ' इत्यादिकस्य सूत्रावयवस्य सूत्रस्पर्श गाथाद्वयेन नियुक्तिकृदाहनि. [४३] तवसंजमणाणेसुवि जइ माणो वजिओ महेसीहि । अत्तसमुक्करिसत्थं किं पुण हीला उ अन्नेसिं॥ नि. [४४] जइ ताव निज्जरमओ, पडिसिद्धो अट्ठमाणमहणेहिं। ___अविसेसमयट्ठाणा परिहरियव्वा पयत्तेणं॥ . ____'वेयालियस्स निजुत्ती सम्मत्ता' तपः संयमज्ञानेष्वपि आत्मसमुत्कर्षणार्थम्-उत्सेकार्थं यः प्रवृत्तो मानः यद्यसावपि तावद्द्वर्जितः त्यस्तो ‘महर्षिभिः' महामुनिभिः, किंपुनर्निन्दाऽन्येषां न त्याज्येति । यदि तावन्निर्जरामदोऽपि मोक्षकगमनहेतुः प्रतिषिद्ध: ‘अष्टमामथनैः' अर्हद्मिरवशेषाणितु ‘मदस्थानानि जात्यादीनि 'प्रयलेन' सुतरां परिहर्तव्यानीति गाथाद्वयार्थः मू. (११२) जो परिभवइ परंजणं, संसारे परिवत्तई महं। ___अदु इंखिणिया उ पाविया, इति संखाय मुनी न भजई॥ वृ. साम्प्रतंपरनिन्दादोषमधिकृत्याह-'जोपरिभवई' इत्यादि, यः कश्चिदविवेकी परिभवति' अवज्ञयति, परंजनं' अन्यं लोकम् आत्मव्यतिरिक्तंस तत्कृतेन कर्मणा ‘संसारे' चतुर्गतिलक्षणे भवोदधावरघट्टघटीन्यायेन परिवर्तते' भ्रमति 'महद्' अत्यर्थं महान्तं वा कालं, क्वचित् 'चिरम्' इति पाठः, 'अदु'त्ति अथशब्दो निपातः निपातानामनेकार्थत्वात् अत इत्यस्यार्थे वर्तते, यतः परपरिभवादात्यन्तिकः संसारः अतः 'इंखिणिया' परनिन्दा तुशब्दस्यैवकारार्थत्वात्। _ 'पापिकैव' दोषवत्येव, अथवा स्वस्थानादधमस्थानेपातिका, तत्रेह जन्मनिसुघरो दृष्टान्तः, परलोकेऽपि पुरोहितस्यापि श्वादिषूत्पत्तिरिति, इत्येवं ‘संख्याय' परनिन्दां दोषवतीं ज्ञात्वा मुनिर्जात्यादिभिः यथाऽहं विशिष्टकुलोद्भवः श्रुतवान् तपस्वी भवांस्तु मत्तो हीन इति न माद्यति मदाभावेच यद्विधेयं तद्दर्शयितुमाह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy