________________
७०
सूत्रकृताङ्ग सूत्रम् १/२/१/१०६
ततस्ते निजास्तं साधुं 'णो लब्धंति 'त्ति न भन्ते न प्राप्नुवन्ति आत्मसात्कर्तुं 'णनसंठवित्तए 'त्ति नापि गृहस्थभावेन संस्थापयितुमलमिति । किञ्च
मू. (१०७)
सेहंति य णं ममाइणो, माय पिया य सुया य भारिया । पोसाहि न पासओ तुमं, लोग परंपि जहासि पोसणो ॥
वृ. ते कदाचिन्मातापित्रादयस्तमभिनवप्रव्रजितं 'सेहंति' त्ति शिक्षयन्ति 'णम्' इति वाक्यालङ्कारे-'ममाइणो' त्ति ममायमित्येवं स्नेहालवः, कथं शिक्षयन्तीत्यत आह-पश्य 'नः' अस्मानत्यन्तदुःखितांस्त्वदर्थ पोषकाभावाद्वा, त्वं च यथावस्थितार्थपश्यकः
सूक्ष्मदर्शी, सश्रुतिक इत्यर्थ अतः 'नः 'अस्मान् 'पोषय' प्रतिजागरणं कुरु अन्यथा प्रव्रज्याऽभ्युपगमेनेहलोकस्त्यक्तो भवता अस्मत्प्रतिपालनपरित्यागेन च परलोकमपि त्वं त्यजसि इति दुःखितानिजप्रतिपालनेन च पुण्यावाप्तिरेवेति, तथाहि –
119 11
'या गति क्लेशदग्धानां गृहेषु गृहमेधिनाम् । बिभ्रतां पुत्रदारांस्तु, तां गतिं व्रज पुत्रक ! ॥ अन्ने अन्नेहिं मुच्छिया, मोहं जंति नरा असंवुडा । विसमं विसमेहिं गाहिया, ते पावेहिं पुणो पगब्भिया ॥
मू. (१०८)
बृ. एवं तैरुपसर्गिताः केचन कातराः कदाचिदेतत्कुर्युरित्याह- 'अन्ने' इत्यादि, 'अन्ये’ केचनाल्पसत्त्वाः 'अन्यैः' मातापित्रादिभिः 'मूर्च्छिता' अध्युपपन्नाः सम्यग्दर्शनादिव्यतिरेकेण सकलमपि शरीरादिकमन्यदित्यन्यग्रहणं, ते एवम्भूताः असंवृता नराः ।
'मोहं यान्ति' सदनुष्ठाने मुह्यन्ति, तथा संसारगमनैकहेतुभूतत्वात् 'विषमः' असंयमस्तं ‘विषमैः’ असंयतैरुन्मार्गप्रवृत्तत्वेनापायभीरुभिः रागद्वैषैर्वा अनादिभवाभ्यस्ततया दुशच्छेद्यत्वेन विषमैः ग्राहिता - असंयमं प्रति वर्तिताः, ते चैवम्भूताः 'पापैः कर्मभि पुनरपि प्रवृत्ताः 'प्रगल्भिताः' धुष्टतां गताः पापकं कर्म कुर्वन्तोऽपि न लज्जन्त इति यत एवं ततः किं कर्तव्यमित्याहमू. (१०९) तम्हा दवि इक्ख पंडिए, पावाओ विरतेऽभिनिव्वुडे । पणए वीरं महाविहिं, सिद्धिपहं ने आउयं धुवं ।।
वृ. यत्तो मातापित्रादिमूर्च्छिताः पापेषु कर्मसु प्रगल्भा भवन्ति तस्माद् द्रव्यभूतो भव्यःमुक्तिगमनयोग्यः रागद्वेषरहितो वा सन् 'ईक्षस्व' तद्विपाकं पर्यालोचय 'पण्डितः' सद्विवेकयुक्तः 'पापात्’ कर्मणोऽसदनुष्ठानरूपात् 'विरतः' निवृत्तः क्रोधादिपरित्यागाच्छान्तीभूत इत्यर्थ तथा 'प्रणताः' प्रहीभूताः 'वीराः' कर्मविदारणसमर्था 'महावीथिं' महामार्ग, तमेव विशिनष्टि‘सिद्धिपथं’ ज्ञानादिमोक्षमार्ग तथा मोक्षं प्रति 'नेतारं' प्रापकं 'ध्रुवम्' अव्यभिचारिणमित्येतदवगम्य स एव मार्गोऽनुष्ठेयः, नासदनुष्ठानप्रगल्भैर्भाव्यमिति ।
मू. (११०) वेयालियमग्गमागओ, मणवयसाकायेण संवुडो ।
चिच्चा वित्तं च नायओ, आरंभं च सुसंवुडे चरे ।। तिबेमि
वृ. पुनरप्युपदेशदानपूर्वकमुपसंहरन्नाह- 'वेयालियमग्ग' इत्यादि, कर्मणां विदारणमार्ग मागतो भूत्वा तं तथाभूतं मनोवाक्कायसंवृतः पुनः ‘त्यक्त्वा' परित्यज्य 'वित्तं' द्रव्यं तथा 'ज्ञातींश्च' स्वजनांश्च तथा सावद्यारम्भं च सुष्ठु संवृत इन्द्रियैः संयमानुष्ठानं चरेदिति ब्रवीमीति पूर्ववत् । अध्ययनं-२ उद्देशकः-१ समाप्तः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org