________________
श्रुतस्कन्धः-१, अध्ययनं-१, उद्देशकः - ४ 'विपर्यासभूतं' बालकौमारयौवनादिकमुदारं योगंपरि-समन्तादयन्तेगच्छन्ति पर्ययन्ते, एतदुक्तं भवति-औदारिकशरीरिणो हि मनुष्यादेर्बालकौमारादिकः कालादिकृतोऽवस्थाविशेषोऽन्यथा चान्यथा च भवन् प्रत्यक्षेणैव लक्ष्यते, न पुनर्याध्क् प्राक् तागेव सर्वदेति, एवं सर्वेषां स्थावरजङ्गमानामन्यथाऽन्यथा च भवनं द्रष्टव्यमिति । अपिच
“सर्वे' जन्तव आक्रान्ता-अभिभूता दुःखेन-शारीरमानसेनासातोदयेन दुःखाक्रान्ताः सन्तोऽन्यथाऽवस्थाभाजो लभ्यन्ते, अतः सर्वेऽपि ते यथाऽहिंसिता भवन्ति तथा विधेयं । यदिवा-सर्वेऽपिजन्तवः ‘अकान्तम्' अनभिमतंदुःखं येषां तेऽकान्त दुःखाःचशब्दात् प्रियसुखाश्च, अतस्तान् सर्वान् न हिंस्यादित्यनेन चान्यथात्वदृष्टान्तो दर्शितो भवत्युपदेशश्च दत्त इति ॥ मू. (८५) एयंखु नाणिणो सारं, जन्न हिंसइ किंचण।
अहिंसासमयं चेव, एतावन्तं वियाणिया ॥ वृ. किमर्थं सत्त्वान् न हिंस्यादित्याह-खुरवधारणे, एतदेव ‘ज्ञानिनो' विशिष्टविवेकवतः 'सारं' न्याय्यं यत् कञ्चन प्राणिजातं स्थावरं जङ्गमं वा 'न हिनस्ति' न परितापयति, उपलक्षणं चैतत्, तेन न मृषा ब्रूयान्नादत्तं गृह्णीयान्नाब्रह्माऽऽसेवेत न परिग्रहं परिगृह्णीयान्न नक्तं भुञ्जीतेत्येज्ज्ञानिनः सारं यन्न कर्माश्रवेषु वर्तत इति ।
अपि च-अहिंसया समता अहिंसासमता तां चैतावद्विजानीयात्, यथा मम मरणं दुःखं चाप्रियमेवमन्यस्यापि प्राणिलोकस्येति, एवकारोऽवधारणे, इत्येवं साधुना ज्ञानवता प्राणिनां परितापनाऽपद्रावणादिन विधेयमेवेति एवं मूलगुणानभिधायेदानीमुत्तरगुणानभिधातुकामआहमू. (८६) वुसिए य विगयगेही, आयाणं सरक्खए।
चरिआसणसेज्जासु, भत्तपाणे अअंतसों। वृ. विविधम्-अनेकप्रकारमुषितः-स्थितो दशविधचक्रवालसामाचार्यां व्युषितः, तथा विगता-अपगता आहारादौ गृद्धिर्यस्यासौ विगतगृद्धि साधुः, एवंभूतश्चादीयते स्वीक्रियतेप्राप्यते वा मोक्षो येन तदादानीयं-ज्ञानदर्शनचारित्रत्रयं तत्सम्यग् रक्षयेद्-अनुपालयेत्, यथा यथा तस्य वृद्धिर्भवति तथा तथा कुर्यादित्यर्थः।
कथंपुनश्चारित्रादिपालितंभवतीतिदर्शयति-'चर्यासनशय्यासु'चरणंचर्या-गमनं, साधुना हि सति प्रयोजने युगमात्रदृष्टिना गन्तव्यं, तथा सुप्रत्युपेक्षिते सुप्रमार्जितेचासने उपवेष्टव्यं, तथा शय्यायां-वसतौ संस्तारके वा सुप्रत्युपेक्षितप्रमार्जिते स्थानादि विधेयं, तथा भक्ते पाने चान्तशः सम्यगुपयोगवता भाव्यम्, इदमुक्तं भवति-ईर्याभाषैषणाऽऽदाननिक्षेपप्रतिष्ठापनासमितिषूपयुक्तेनान्तशो भक्तपानं यावदुद्गमादिदोषरहितमन्वेषणीयमिति ॥ मू. (८७) एतेहिं तिहिं ठाणेहिं, संजए सततं मुनी।
___ उक्कसंजलणं नूमं, मज्झत्थं च विगिंचए॥ वृ. पुनरपि चारित्रशुध्ध्र्थं गुणानधिकृत्याह-एतानि-अनन्तरोक्तानि त्रीणि स्थानानि, तद्यथा-ईर्यासमितिरित्येकंस्थानम्, आसनं शय्येत्यनेनादानभाण्डमात्रनिक्षेपणासमितिरित्येतच्च द्वितीयं स्थानं, भक्तपानमित्यनेनैषणासमितिरुपात्ता, भक्तपानांर्थ च प्रविष्टस्य भाषणसंभवाद्भाषासमिति- राक्षिप्ता, सति चाहारे उच्चारप्रश्रवणादीनां सद्भावाप्रतिष्ठापना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org