________________
सूत्रकृताङ्ग सूत्रम् १/१/४/८७ समितिरप्यायातेत्येतच्च तृतीयं स्थानमिति, अत एतेषु त्रिषुस्थानेषु सम्यग्यतः संयत आमोक्षाय परिव्रजेदित्युत्तरश्लोकान्ते क्रियेति । तथा ‘सततम्' अनवरतम् ‘मुनि' सम्यक् यथावस्थितजगत्रयवेत्ता उत्कृष्यते आत्मा दध्मिातो विधीयतेऽनेनेत्युत्कर्षो-मानः ।,
तथाऽऽत्मानं चारित्रं वा ज्वलयति-दहतीति ज्वलनः-क्रोधः, तथा 'नूम' मिति गहनं मायेत्यर्थः, तस्या अलब्धमध्यत्वादेवमभिधीयते, तथा आसंसारमसुमतां मध्ये-अन्तर्भवतीति मध्यस्थो-लोभः, चशब्दः समुच्चये, एतान् मानादींश्चतुरोऽपिकषास्तिद्विपाकाभिज्ञो मुनि सदा 'विगिंचए'त्ति विवेचयेद्-आत्मनः पृथक्कुर्यादित्यर्थ । ननु चान्यत्रागमे क्रोध आदावुपन्यस्यते, तथा क्षपकश्रेण्यामारूढो भगवान् क्रोधादीनेव संज्वलनान क्षपयति, तत् किमर्थमागमप्रसिद्धं क्रममुलङ्घयादौ मानस्योपन्यास इति?, अत्रोच्यते, माने सत्यवश्यंभावी क्रोधः, क्रोधे तु मानः स्याद्वा न वेत्यस्यार्थस्य प्रदर्शनायान्यथाक्रमकरणमिति ।। मू. (८८) समिए उसया साहु, पंचसंवरसंवुडे ।
सिएहि असिए भिक्खू, आमोक्खाय परिव्वएजासि । त्तिबेमि । वृ. तदेवं मूलगुणानुत्तरगुणांश्चोपदाधुना सर्वोपसंहारार्थमाह-तुरवधारणे, पश्चिभिः समितिभि समित एव साधुः, तथा प्राणातिपातादिपञ्चमहाव्रतोपेतत्वात्पञ्चप्रकारसंवरसंवृतः, तथा मनोवाक्कायगुप्तिगुप्तः । तथा गृहपाशादिषु सिता-बद्धाः अवसक्ता गृहस्थास्तेष्वसितःअनवबद्धस्तेषुमूर्छामकुर्वाणः पङ्काधारपङ्कजवत्तत्कर्मणाऽदिह्यमानोभिक्षुः-भिक्षणशीलोभावभिक्षु : आमोक्षाय' अशेषकर्मापगलक्षणमोक्षार्थ परि-समन्तात् व्रजेः-संयमानुष्ठानरतो भवेस्त्वमिति विनेयस्योपदेशः इति अध्ययनसमाप्तौ, ब्रवीमीति गणधर एवमाह, यथा तीर्थकृतोक्तं तथैवाहं ब्रवीमि, न स्वमनीषिकयेति।
अध्ययनं-१ उद्देशकः-४ समाप्तः
-गतोऽनुगमः, साम्प्रतं नयास्तेषामयमुपसंहारः । ॥१॥
“सव्वेसिपि नयाणं बहुविधवत्तव्वयं निसामित्ता। तं सव्वनयविसुद्धं जं चरगुणट्ठिओ साहु ॥
अध्ययनं-१ समाप्तम् मुनि दीपरत्न सागरेण संशोधिता सम्पादिता शीलाशचार्य विरचिता प्रथम श्रुतस्कन्धस्य प्रथम अध्ययन टीका परिसमाप्ता।
(अध्ययन-२ वैतालिय) वृ.उक्तं समयाख्यं प्रथममध्ययनं, साम्प्रतं वैतालीयाख्यं द्वितीयमारभ्यते, अस्य चायमभिसंबन्धः-इहानन्तराध्ययने स्वसमयगुणाः परसमयदोषाश्च प्रतिपादिताः, तांश्च ज्ञात्वा यथा कर्म विदार्यते तथा बोधो विधेय सम्बन्धेनाऽऽयातस्यास्याध्ययनस्योपक्रमादीनि चत्वार्यनुयोगद्वाराणिभणनीयानि । तत्राप्युपक्रमान्तर्गतोऽर्थाधिकारो द्वेधा-अध्ययनार्थाधिकार उद्देशार्थाधिकारश्च, तत्राध्ययनार्थाधिकारः प्रागेव नियुक्तिकारेणाभाणि-'नांऊण बुझणा चेवे'त्यनेन गाथाद्वितीयपादेनेति, उद्देशार्थाधिकारं तु स्वत एव नियुक्तिकार उत्तरत्र वक्ष्यति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org