SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ ६० नादिकाः क्रियाः सर्वा अप्यनर्थिका आपद्येरन् । लोकेनापि चान्यथात्वमुक्तं, तद्यथा न “स वै एषशृगालो जायते यः सपुरीषो दह्यते" तस्मात् स्थावरजङ्गमानां स्वकृतकर्मवशात् परस्परसंक्रमणाद्यनिवारितमिति । तथा 'अनन्तो नितयश्च लोकः' इति यदभिहितं, तत्रेदमभिधीयतेयदि स्वजात्यनुच्छेदेनास्य नित्यताऽभिधीयते ततः परिणामानित्यत्वमस्मदभीष्टमेवाभ्युपगतं काचित्क्षति, अथाप्रच्युतानुत्पन्नस्थिरैकस्वभावत्वेन नित्यत्वमभ्युपगम्यते तन्न घटते, तस्याध्यक्षबाधितत्वात् न हि क्षणभाविपर्यायानालिङ्गितं किञ्चिद्वस्तु प्रत्यक्षेणावसीयते, निष्पर्यायस्य च खपुष्पस्येवासद्रूपतैव स्यादिति । तथा शश्वद्वनं कार्यद्रव्यस्याऽऽकाशात्मादेश्वाविनाशित्वं यदुच्यते द्रव्यविशेषापेक्षया तदप्यसदेव, यतः सर्वमेव वस्तूत्पादव्ययघ्रौव्ययुक्तत्वेन निर्विभागमेव प्रवर्तते, अन्यथा वियदरविन्दस्येव वस्तुत्वमेव हीयेतेति । सूत्रकृताङ्ग सूत्रम् १/१/४/८३ तथा यदुक्तम्- 'अन्तवाँल्लोकः सप्तद्वीपावच्छिन्नत्वा'दित्येतन्निरन्तराः सुहृदः प्रत्येष्यन्ति, न प्रेक्षापूर्वकारिणः, तदग्राहकप्रमाणाभावादिति । तथा यदप्युक्तम्- 'अपुत्रस्य न सन्ति लोका' इत्यादीत्येतदपि बालभाषितं, तथाहि किं पुत्रसत्तामात्रेणैव विशिष्टलोकावाप्तिरुत तत्कृतविशिष्टानुष्ठानात् ?, तद्यदि सत्तामात्रेण तत इन्द्रमहकामुकगर्त्तावराहादिभिव्यार्पता लोका भवेयुः तेषां पुत्रबहुत्वसंभवात्, अथानुष्ठानमा श्रीयते, तत्र पुत्रद्वये सत्येकेन शोभनमनुष्ठितमपरेणाशोभनमिति तत्र का वार्ता ? स्वकृतानुष्ठानं च निष्फलमापद्येतेत्येवं यत्किञ्चिदेतदिति । तथा 'श्वानो यक्षा' इत्यादि युक्तिविरोधित्वादनाकर्णनीयमिति । यदपि चोक्तम्- 'अपरिमाणं विजानातीति, तदपि न घटामियर्ति, यतः सत्यप्यपरिमितज्ञत्वे यद्यसौ सर्वज्ञो न भवेत् ततो हेयोपादेयोपदेशदानविकलत्वान्नैवासी प्रेक्षापूर्वकारिभिराद्रियेत, तथाहि तस्य कीटसंख्यापरिज्ञानमप्युपयोग्येव यतो यथैतद्विषयेऽस्यापरिज्ञानमेवमन्यत्राप्या (पीत्या) शङ्कया हेयोपादेये प्रेक्षापूर्वकारिणः प्रवृत्तिर्न स्यात्, तस्मात्सर्वज्ञत्वमेष्टव्यं । तथा यदुक्तं- 'स्वापबोधविभागेन परिमितं जानातीत्येतदपि सर्वजनसमानत्वे यत्किञ्चिदिति यदपि च कैश्चिदुच्यते यथा 'ब्रह्मणः स्वप्नावबोधयोर्लोकस्य प्रलयोदयौ भवत' इति, तदप्ययुक्तिसंगतमेव, प्रतिपादितं चैतत् प्रागेवेति न प्रतन्यते । न चात्यन्तं सर्वजगत उत्पादविनाशौ विद्येते 'न कदाचिदनीद्दशं जगदिति वचनात् । तदेवमनन्तादिकं लोकवादं परिहृत्यथावस्थितवस्तुस्वभावाविर्भावनं पश्चार्द्धेन दर्शयतिये केचन त्रसाः स्थावरा वा तिष्ठन्त्यस्मिन् संसारे तेषां स्वकर्मपरिणत्याऽस्त्यसौ पर्यायः 'अंजू' इति प्रगुणोऽव्यभिचारी तेन पर्यायेण स्वकर्मपरिणतिजनितेन ते त्रसाः सन्तः स्थावराः संपद्यन्ते स्थावरा अपि च त्रसत्वमश्नुवते तथा त्रसास्त्रसत्वमेव तेन पर्यायेण स्वकर्मपरिणतिजनितेन ते त्रसाः सन्तः स्थावराः संपद्यन्ते स्थावरा अपि च त्रसत्वमश्नुवते तथा त्रसास्त्रसत्वमेव स्थावराः स्थावरत्वमेवाऽऽनुवन्ति, न पुनर्यो या गिह सताध्गेवामुत्रापि भवतीत्ययं नियम इति अस्मिन्नेवार्थे दृष्टान्ताभिधित्सयाऽऽह मू. (८४) उरालं जगतो जोगं, विवज्जासं पलिंति य । सव्वे अक्कं तदुक्खा य, अओ सव्वे अहिंसिता । बृ. 'उराल' मिति स्थूलमुदारं 'जगत' औदारिकजन्तुग्रामस्य 'योगं' व्यापारं चेष्टामवस्थाविशेषमित्यर्थ, औदारिकशरीरिणो हि जन्तवः प्राक्तनादवस्थाविशेषाद्गर्भकललार्बुदरूपाद् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy