SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः - १, अध्ययनं - १, उद्देशक: - ४ केषाञ्चिदिदम् 'आख्यातम्' अभ्युपगमः । तदेव विशिनष्टि विपरीता - परमार्थादन्यथाभूता या प्रज्ञा तया संभूतं समुत्पन्नं, तत्त्वविपर्यस्तबुद्धिग्रथितमितियावत्, पुनरपि विशेषयति-अन्यैः - अविवेकिभिर्यदुक्तं तदनुगं, यथावस्थितार्थविपरीतानुसारिभिर्यदुक्तं विपरीतार्थाभिधायितया तदनुगच्छतीत्यर्थः । अनंते निइए लोए, सासए न विणस्सती । अंतवं निइए लोए, इति धीरोऽतिपासइ ॥ मू. (८१) वृ. तमेव विपर्यस्तबुद्धिरचितं लोकवादं दर्शयितुमाह- नास्यान्तोऽस्तीत्यनन्तः, न निरन्वयनाशेन नश्यतीत्युक्तं भवतीति, तथाहिं- यो यादृगिह भवे स तागेव परभवेऽप्युत्पद्यते, पुरुषः पुरुष एवाङ्गना अङ्गनैवेत्यादि, यदिवा 'अनन्तः' अपरिमितो निरवधिक इतियावत्, तथा 'नित्य' इति अप्रच्युतानुत्पन्नस्थिरैकस्वभावो लोक इति । तथा शश्वद्भवतीति शाश्वतो द्यणुकादिकार्यद्रव्या-पेक्षयाऽश्वद्भवन्नपि न कारणद्रव्यं परमाणुत्वं परित्यजतीति तथा न विनश्यतीति दिगात्माका-शाद्यपेक्षया । तथाऽन्तोऽस्यास्तीत्यन्तवान् लोकः, 'सप्तद्वीपा वसुन्धरे' ति परिमाणोक्तेः, स च तादृकपरिमाणो नित्य इत्येवं 'धीरः' कश्चित्साहसिकोऽन्यथाभूतार्थप्रतिपादनात् व्यासादिरिवाति पश्यतीत्यतिपश्यति । तदेवंभूतमनेकभेदभिन्नं लोकवादं निशामयेदिति प्रकृतेन सम्बन्धः । तथा ‘अपुत्रस्य न सन्ति लोका, ब्राह्मणा देवाः, श्वानो यक्षा, गोभिर्हतस्य गोघ्नस्य वा न सन्ति लोका' इत्येवमादिकं नियुक्तिकं लोकवादं निशामयेदिति किंचअपरिमाणं वियाणाई, इहमेगेसिमाहियं । सव्वत्थ सपरिमाणं, इति धीरोऽतिपासई ॥ मू. (८२) ५९ वृ. न विद्यते 'परिमाणम्' इयत्ता क्षेत्रतः कालतो वा यस्य तदपरिमाणं, तदेवंभूतं विजानाति कश्चित्तीर्थिकतीर्थकृत्, एतदुक्तं भवति - अपरिमितज्ञोऽसावतीन्द्रियद्रष्टा, न पुनः सर्वज्ञ इति, यदिवा - अपरिमितज्ञ इत्यभिप्रेतार्थातीन्द्रियदर्शीति, तथा चोक्तम् 119 11 "सर्वं पश्यतु वा मा वा, इष्टमर्थं तु पश्यतु । कीटसंख्यापरिज्ञानं तस्य नः क्वोपयुज्यते ॥ इति, ‘इह' अस्मिंल्लोके ‘एकेषां' सर्वज्ञापह्नववादिनाम् 'ददमाख्यातम्' अयमभ्युपगमः, तथा सर्वक्षेत्रमाश्रित्य कालं वा परिच्छेद्यं कर्मतापन्नमाश्रित्य सह परिमाणेन सपरिमाणं-सपरिच्छेदं धीः- बुद्धिस्तया राजत इति धीर इत्येवमसौ अतीव पश्यतीत्यतिपश्यति, तथाहि ते ब्रुवते- दिव्यं वर्षसहस्रमसौ ब्रह्मा स्वपिति, तस्यामवस्थायां न पश्यत्यसौ, तावन्मात्रं च कालं जागर्ति, तत्र च पश्यत्यसाविति, तदेवम्भूतो बहुधा लोकवादः प्रवृत्तः । मू. (८३) जे केइ तसापाणा, चिट्ठति अदु थावरा । परियाए अत्थि से अंजू, जेण ते तसथावरा ॥ वृ. अस्य चोत्तरदानायाह-ये केचन त्रस्यन्तीति त्रसा- द्वीन्द्रियादयः ‘प्राणाः’प्राणिनः सत्त्वाः 'तिष्ठन्ति' त्रसत्वमनुभवन्ति, अथवा 'स्थावराः' स्थावरनामकर्मोदयात् (याः) पृथिव्यादयस्ते, यद्ययं लोकवादः सत्यो भवेत् यथा यो याध्गस्मिन् जन्मनि मनुष्यादि सोऽन्यस्मिन्नपि जन्मनि तागेव भवतीति, ततः स्थावराणां त्रसानां च तादृशत्वे सति दानाध्ययनजपनियमतपोऽनुष्ठा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy