________________
सूत्रकृताङ्ग सूत्रम् १/१/४/७७ तमेनाप्युत्सेकमकुर्वन्तथा अप्रलीनः' असंबद्धस्तीर्थिकेषुगृहस्थेषुपार्श्वस्थादिषुवासंश्लेषमकुर्वन् 'मध्येन' रागद्वेषयोरन्तरालेन संचरन् ‘मुनि' जगत्रयवेदी 'यापयेद्' आत्मानं वर्तयेत्, इदमुक्तं भवति-तीर्थकादिभि सह सत्यपि कथञ्चित्संबन्धे त्यक्ताहङ्कारेण तथा भावतस्तेष्वप्रलीयमानेनारक्तद्विष्टेन तेषु निन्दामात्मनश्च प्रशंसां परिहरत मुनिनाऽऽत्मा यापयितव्य इति ।
किमिति ते तीर्थकास्त्राणाय न भवन्तीति दर्शयितुमाहमू. (७८) सपरिग्गहा य सारंभा, इहमेगेसिमाहियं ।
अपरिग्गहा अनारंभा, भिखू ताणं परिव्वए॥ वृ. सह परिग्रहेण धनधान्यद्विपदचतुष्पदादिना वर्तन्ते तदभावेऽपि शरीरोपकरणादौ मूविन्तः सपरिग्रहाः, तथा सहारम्भेणजीवोपमर्दादिकारिणा व्यापारेण वर्तन्त इति तदभावेऽप्यौद्देशिकादिभोजित्वात्सारम्भाः-तीर्थिकादयः, सपरिग्रहारम्भकत्वेनैव च मोक्षमार्ग प्रसाधयन्तीति दर्शयति-'इह' परलोकचिन्तायाम् एकेषां केषाञ्चिद् ‘आख्यातं' भाषितं, यथा किमनया शिरस्तुण्डमुण्डनादिकया क्रियया?, परं गुरोरनुग्राहत्परमाक्षरावाप्तिस्तद्दीक्षावाप्तिर्वा यदि भवति ततो मोक्षो भवतीत्येवं भाषमाणास्तेन त्राणाय भवन्तीति।
ये तु त्रातुं समर्थास्तान्पश्चार्द्धन दर्शयति-'अपरिग्रहाः' न विद्यते धर्मोपकरणाहते शरीरोपभोगाय स्वल्पोऽपि परिग्रहो येषां ते अपरिग्रहाः, तथा न विद्यते सावद्य आरम्भो येषां तेऽनारम्भाः, तेचैवंभूताः कर्मलधवः स्वयंयानपात्रकल्पाः संसारमहोदधेर्जन्तूत्तारणसमस्तान् 'भिक्षु'भिक्षणशील उद्देशिकाद्यपरिभोजी 'त्राणं' शरणं परि-समन्ताद्ब्रजेद-गच्छेदिति। मू. (७९) कडेसु घासमेसेजा, विऊ दत्तेसणं चरे।
अगिद्धो विप्पमुक्को अ, ओमाणं परिवजए॥ वृ.कथंपुनस्तेनापरिग्रहेणानारम्भेणचवर्तनीयमित्येतद्दर्शयितुमाह-गृहस्थैः परिग्रहारम्भद्वारेणाऽऽत्मार्थ ये निष्पादिता ओदनादयस्ते कृताउच्यन्ते तेषुकृतेषु-परकृतेषुपरनिष्ठितेष्वित्यर्थ, अनेन च षोडशोद्गमदोषपरिहारः सूचितः, तदेवमुद्गमदोषरहितं ग्रस्यत इति ग्रासः-आहारस्तमेवभूतम् 'अन्वेषयेत्' मृगयेत्याचेयेदित्यर्थ, तथा विद्वान्' संयमकरणैकनिपुणः परैराशंसादोषरहितैर्यनिःश्रेयसबुद्धया दत्तमिति, अनेनषोडशोत्पादनदोषाः परिगृहीता द्रष्टव्याः, तदेवम्भूते दौत्यधात्रीनिमित्तादिदोषहिते आहारे स भिक्षु एषणां' ग्रहणैषणां चरेद्' अनुतिष्ठेदिति, अनेनापि दशैषणादोषाः परिगृहीता इति मन्तव्यं ।
तथा ‘अगृद्धः' अनध्युपपन्नोऽमूर्च्छितस्तस्मिन्नाहारे रागद्वेषविप्रमुक्तः, अनेनापि च ग्रासैषणादोषाः पञ्च निरस्ता अवसेयाः,सएवम्भूतोभिक्षुपरेषामपमान-परावमदर्शित्वं परिवर्जयेत्' परित्यजेत्, नतपोमदंज्ञानमदंच कुर्यादितिभावः॥ एवं नियुक्तिकारेणोद्देशकार्थाधिकाराभिहितं 'किञ्चुवमा य चउत्थे' इत्येतत्यदर्थेदानीं परवादिमतमेवोद्देशार्थाधिकाराभिहितं दर्शयितुमाहमू. (८०) लोगवायं निसामिज्जा, इहमेगेसिमाहियं ।
विपरीयपन्नसंभूयं, अन्नउत्तं तयाणुयं॥ वृ. लोकानां-पाखण्डिनां पौराणिकानां वा वादो लोकवादः-यथास्वमभिप्रायेणान्यथा वाऽभ्युपगमस्तं 'निशामयेत्' श्रृणुयात् जानीयादित्यर्थ, तदेव दर्शयति-'इह' अस्मिन्संसारे एकेषां'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org