SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः - १, अध्ययनं-१, उद्देशकः - ४ -अध्ययनं-१ उद्देशक:-४:उक्तस्तृतीयोद्देशकः, अधुनाचतुर्थसमारभ्यते, अस्य चायमभिसंबन्धः-अनन्तरोद्देशके ऽध्ययनार्थत्वात्स्वपरसमयवक्तव्यतोक्तेहापि सैवाभिधीयते, अथवाऽनन्तरोद्देशकेतीर्थिकानां कुत्सिताचारत्वमुक्तमिहापि तदेवाभिधीयते, तदनेन सम्बन्धेनाऽऽयातस्यास्योद्देशकस्योपक्रमादीनि चत्वार्यनुयोगद्वाराण्यभिधाय सूत्रानुगमे सूत्रमुच्चारणीयं, तच्चेदम्मू. (७६) एते जिया भो! न सरणं, बाला पंडियमानिनो। हिच्चा णं पुव्वसंजोगं, सिया किच्चोवएसगा। वृ. अस्य चानन्तरसूत्रेण सहायं सम्बन्धस्तद्यथा, अनन्तरसूत्रेऽभिहितं-'तीर्थका असुरस्थानेषु किल्बिषा जायन्त' इति, किमिति ? यत एते जिताः परीषहोपसर्गे, परम्परसूत्रसंबन्धस्त्वयम्-आदाविदमभिहितं 'बुध्येतत्रोटयेच्च' ततश्चैतदपिबुध्येत-यथैते पञ्चभूतादिवादिनो गोशालकमतानुसारिणश्च जिताः परीषहोपसर्गे कामक्रोधलोभमानमोहमदाख्येनारिषड्वर्गेण चेति, एवमन्यैरपि सूत्रैः संबन्ध उत्प्रेक्ष्यः । तदेवं कृतसम्बन्धस्यास्य सूत्रस्येदानीं व्याख्या प्रतन्यते “एत' इति पञ्चभूतैकात्मतज्जीवतच्छरीरादिवादिनः कृतवादिनश्च गोशालकमतानुसारिणस्त्रैराशिकाश्च 'जिता' अभिभूता रागद्वेषादिभिः शब्दादिविषयैश्च तथा प्रबलमहामोहोत्थाज्ञानेन च ‘भो' इति विनेयामन्त्रणम् एवं त्वं गृहाणयथैते तीर्थका असम्यगुपदेशप्रवृत्तत्वान्न कस्यचिच्छरणं भवितुमर्हन्तिन किच्चित्रातुंसमर्था इत्यर्थ, किमित्येवं?,यतस्तेबालाइव बालाः, यथाशिशवः सदसद्विवेकवैकल्पाद्यत्किञ्चनकारिणोभाषिणश्च, तथैतेऽपिस्वयमज्ञाःसन्तः परानपि मोहयन्ति, एवम्भूता अपि च सन्तः पण्डितमानिन इति, कचित्पाठो 'जत्थ बालेऽवसीयइत्ति 'यत्र' अज्ञाने 'बालः' अज्ञो लग्नः सन्नवसीदति, तत्रते व्यवस्थिताः यतस्तेन कस्यचित्राणायेति। यच्च तैर्विरूपमाचरितं तदुत्तरार्द्धन दर्शयति __ हित्वा' त्यक्त्वा, णमिति वाक्यालङ्कारे, पूर्वसंयोगो-धनधान्यस्वजनादिभिसंयोगस्तंत्यक्त्वा किल वयं निसङ्गाः प्रव्रजिता इत्युत्थाय पुनः सिताःबद्धाः परिग्रहारम्भेष्वासक्तास्ते गृहस्थाः तेषां कृत्यं करणीयं पचनपाचनकण्डनपेषणादिको भूतोपमर्दकारी व्यापारस्तस्योपदेशस्तंगच्छन्तीति कृत्योपदेशगाः कृत्योपदेशका वा, यदिवा-'सिया' इति आर्षत्वाद्बहुवचनेन व्याख्यायते 'स्यु' भवेयुः कृत्यं कर्तव्यंसावद्यानुष्ठानंतप्रधानाः कृत्या-गृहस्थास्तेषामुपदेशः-संरम्भसमारम्भारम्भरूपः स विद्यते येषां ते कृत्योपदेशिकाः, प्रव्रजिता अपि सन्तः कर्तव्यैर्गृहस्थेभ्यो न भिद्यन्ते, गृहस्था इव तेऽपि सर्वावस्थाः पञ्चसूनाव्यापारोपेता इत्यथःमू. (७७) तंच भिक्खू परिन्नाय, वियं तेसु न मुच्छए। ___ अनुक्कस्से अप्पलीणे, मज्झेण मुनि जावए । वृ. एवम्भूतेषु च तीर्थिकेषु सत्सु भिक्षुणा यत्कर्तव्यं तद्दर्शयितुमाह-'तं' पाखण्डिकलोकमसदुपदेशदानाभिरतं परिज्ञाय' सम्यवगम्य यथैते मिथ्यात्वोपहतान्तरात्मानः सद्विवेकशून्या नात्मने हितायालं नान्यस्मै इत्येवंपर्यालोच्यभावभिक्षु संयतो विद्वान्' विदितवेद्यः ते नमूर्छयेत्' न गायं विदध्यात्, न तैः सह संपर्कमपि कुर्यादित्यर्थः । किं पुनः कर्तव्यमिति पश्चार्द्धन दर्शयति-'अनुत्कर्षवानिति' अष्टमदस्थाना- नामन्य For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy