________________
सूत्रकृताङ्ग सूत्रम् १/१/३/७३
प्रागपि यावदद्यापि सिद्धिप्राप्तिर्न भवति तावदिहैव जन्मन्यस्मदीयदर्शनोक्तानुष्ठानानुभावादष्टगुणैश्यसद्भावो भवतीति दर्शयति-आत्मवशे वर्तितुंशीलमस्येति वशवर्तीवशेन्द्रिय इत्युक्तं भवति, न ह्यसौ सांसारिकैः स्वभवैरभिम्यते, सर्वे कामा-अभिलाषा अर्पिताःसंपन्ना यस्य स सर्वाकामसमर्पितो, यान् यान् कामान् कामयते ते तेऽस्य सर्वे सिध्यन्तीतियात्, तथाहि-सिद्धेरारादष्टगुणैश्वर्यलक्षणा सिद्धिर्भवति तद्यथा-अणिमालघिमामहिमाप्राकाम्यमीशित्वं वशित्वंप्रतिघातित्वंयत्र कामावसायित्वमिति। तदेवमिहैवास्मदुक्तानुष्ठायिनोऽष्टगुणैश्वर्यलक्षणा सिद्धिर्भवत्यमुत्र चावशेषद्वन्द्वोपरम-लक्षणा सिद्धिर्भवतीति दर्शयितुमाहमू. (७४) सिद्धा य ते अरोगा य, इहमेगेसिमाहियं ।
सिद्धिमेव पुरो काउं, सासए गढिआ नरा ॥ वृ.येह्यस्मदुक्तमनुष्ठानं सम्यगनुतिष्ठन्ति तेऽस्मिन् जन्मन्यष्टगुणैश्वर्यरूपांसिद्धिमासाद्य पुनर्विशिष्टसमाधियोगेन शरीरत्यागंकृत्वा सिद्धाश्च' अशेषद्वन्द्वरहिताअरोगाभवन्ति, अरोगग्रहणं चोपलक्षणम्, अनेकशारीरमानसद्वन्द्वैर्न स्पृश्यन्ते, शरीरमनसोरभावादिति, एवम् ‘इह' अस्मिन् लोके सिद्धिविचारे वा ‘एकेषां' शैवादीनामिदम् ‘आख्यातं' भाषितं, ते च शैवादयः 'सिद्धिमेवपुरस्कृत्य' मुक्तिमेवाङ्गीकृत्य ‘स्वकीये आशये' स्वदर्शनाभ्युपगमे 'ग्रथिताः' संबद्धा अध्युपपन्नास्तदनुकूलायुक्तीः प्रतिपादयन्ति, नराइव नराः-प्राकृतपुरुषाःशास्त्रावबोधविकलाः स्वाभिप्रेतार्थसाधनाय युक्ति प्रतिपादयन्ति, एवं तेऽपि पण्डितंमन्याः परमार्थमजानानाः स्वाग्रहप्रसाधिका युक्तिरुद्घोषयन्तीति, तथा चोक्तम् - ॥१॥ आग्रही बत निनीषति युक्ति, तत्र यत्र मतिरस्य निविष्टा ।
___ पक्षपातरहितस्य तु युक्तिर्यत्र तत्र मतिरेति निवेशम् ॥ मू. (७५) असंवुडा आदीयं, भमिहिंति पुणो पुणो।
कप्पकालमुवजंति, ठाणा आसुरकिब्बिसिया।। तिबेमि।वृ. साम्प्रतमेतेषामनर्थप्रदर्शनपुरःसरं दूषणाभिधित्सयाऽऽह ते हि पाखण्डिका मोक्षाभिसन्धिनासमुत्थिता अपि असंवृता' इन्द्रियनोइन्द्रियैरसंयताः, इहाप्पस्माकंलाभइन्द्रिया०नुरोधेन सर्वविष-योपभोगादू, अमुत्रमुक्त्यवाप्तेः, तदेवं मुग्धजनं प्रतारयन्तोऽनादिसंसारकान्तारं 'भ्रमिष्यन्ति' पर्यटिष्यन्ति स्वदुश्चरितोपात्तकर्मपाशावशापि ताः पौनःपुन्येन नरकादियातनास्थानेषूत्पद्यन्ते, तथाहि -
नेन्द्रियैरनियमितैरशेषद्वन्द्वप्रच्युतिलक्षणासिद्धिरवाप्यते, याऽप्यणिमाद्यष्टगुणलक्षणैहिकी सिद्धिरभिधीयतेसाऽपि मुग्धजनप्रतारणाय दम्भकल्पैवेति, ताऽपिचतेषांबालतपोऽनुष्ठानादिना स्वर्गावाप्ति साऽप्येवंप्राया भवतीति दर्शयति-'कल्पकालं' प्रभूतकालम् ‘उत्पद्यन्ते' संभवन्ति आसुराः- असुरस्थानोत्पन्ना नागकुमारादयः, तत्रापि न प्रधानाः, किं तर्हि ? - ‘किल्बिषिकाः' अधमाः प्रेष्यभूता अल्पर्धयोऽल्पभोगाः स्वल्पायुःसामर्थ्याधुपेताश्च भवन्तीति । इति उद्देशकपरिसमाप्तयर्थे, ब्रवीमीति पूर्ववत् ।
अध्ययनं-१ उद्देशकः-३ समाप्तः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org