________________
श्रुतस्कन्धः - १, अध्ययनं - १, उद्देशकः - ३
मू. (७१)
५५
इह संवुडे मुनी जाए, पच्छा होइ अपावए । वियडंबु जहा भुज्जो, नीरयं सरयं तहा ।।
वृ. किंच- 'इह' अस्मिन् मनुष्यभवे प्राप्तः सन् प्रव्रज्यामभ्युपेत्य संवृतात्मा-यमनियमरतो जातः सन् पश्चादपापो भवति- अपगताशेषकर्मकलङ्को भवतीति भावः, ततः स्वशासनं प्रज्वाल्य मुक्त्वस्थो भवति, पुनरपि स्वशासनपूजादर्शनान्निकारोपलब्धेश्च रागद्वेषोदयात्कलुषितान्तरात्मा विकटाम्बुवद् उदकवन्नीरजस्कं सद्वातोद्धतरेणुनिवहसंपृक्तं सरजस्कं मलिनं भूयो यथा भवति तथाऽयमप्यात्माऽनन्तेन कालेन संसारोद्वेगाच्छुद्धाचारावस्थो भूत्वा ततो मोक्षावाप्तौ सत्यामकर्मावस्थो भवति, पुनः शासनपूजानिकारदर्शनाद्रागद्वेषोदयात्सकर्मा भवतीति, एवं त्रैराशिकानां राशित्रयावस्थो भवत्यात्मेत्याख्यातम्, उक्तं च
-
“दग्धेन्धनः पुनरुपैति भवं प्रमथ्य, निर्वाणमप्यनवधारितभीरुनिष्ठम् । मुक्तः स्वयं कृतभवश्च परार्थशूरस्वत्वच्छासनप्रतिहतेष्विह मोहराज्यम् इति -अधुनैतद्दूषयितुमाह
मू. (७२)
एतानुवीति मेघावी, बंभचेरेण ते वसे ।
पुढो पावाउया सव्वे, अक्खायारो सयं सयं ॥
वृ. 'एतान् ' पूर्वोक्तान् वादिनोऽनुचिन्त्य 'मेघावी' प्रज्ञावान् मर्यादाव्यवस्थितो वा एतदवधारयेत् यथा-नैते राशित्रयवादिनो देवोप्तादिलोकवादिनश्च 'ब्रह्मचर्ये' तदुपलक्षिते वा संयमानुष्ठाने ‘वसेयुः’ अवतिष्ठेरन्निति, तथाहि तेषामयमभ्युपगमो यथा स्वदर्शनपूजानिकारदर्शनात्कर्मबन्धो भवति, एवं चावश्यं तद्दर्शनस्य पूजया तिरस्कारेण वोभयेन वा भाव्यं, तत्संभवाच्च कर्मोपचयस्तदुपचयाच्च शुद्धयभावः शुद्धयभावाच्च मोक्षाभावः, न च मुक्तानामपगताशेषकर्मकलङ्कानां कृतकृत्यानामपगताशेषयथावस्थितवस्तुतत्त्वानां समस्तुतिनिन्दानामपगतात्मात्मीयपरिग्रहाणां रागद्वेषानुषङ्गः, तदभावाच्च कुतः पुनः कर्मबन्धः । तद्वशाच्च संसारावतरणमित्यर्थ, अतस्ते यद्यपि कथञ्चिद् द्रव्यब्रह्मचर्ये व्यवस्थितास्तथापि सम्यगज्ञानाभावान्न ते सम्यगनुष्ठानभाज इति स्थितम् । अपिच-सर्वेऽप्येते प्रावादुकाः 'स्वकं स्वकम्' आत्मीयमात्मीयं दर्शनं स्वदर्शनानुरावादाख्यातारः-शोभनत्वेन प्रख्यापयितार इति, न च तत्र विदितवेद्येनास्था विधेयेति ॥
मू. (७३)
सएसए उवट्ठाणे, सिद्धिमेव न अन्नहा । अहो इहेव वसवत्ती, सव्वकामसमप्पिए ।
वृ. पुनरन्यथा कृतवादिमतमुपदर्शयितुमाह-ते कृतवादिनः शैवेकदण्डिप्रभृतयः स्वकीये स्वकीये उपतिष्ठन्त्यस्मिन्नित्युपस्थानं स्वीयमनुष्ठानं दीक्षागुरुचरणशुश्रूषादि तस्मिन्नेव 'सिद्धिम्' अशेषसांसारिकप्रपञ्चरहितस्वभावामभिहितवन्तो 'नान्यथा' नान्येन प्रकारेण सिद्धिरवाप्यत इति, तथाहि - शैव दीक्षात एव मोक्ष इत्येवं व्यवस्थिताः, एकदण्डिकास्तु पञ्चविंशतितत्त्वपरिज्ञानान्मुक्तिरित्यभिहितवन्तः, तथाऽन्येऽपि वेदन्तिका ध्यानाध्ययनसमाधिमार्गानुष्ठानात्सिद्धिमुक्तवन्त इत्येवमन्येऽपि यथास्वं दर्शनान्मोक्षमार्ग प्रतिपादयन्तीति, अशेषद्वन्दोपरम्लक्षणायाः सिद्धिप्राप्तेरधस्तात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org