________________
५४
सूत्रकृताङ्ग सूत्रम् १/१/३/६८
एकस्मान्मुखादुत्पत्तेः, एवं चोपनयनादिसद्भावो न भवेद्, भावे वा स्वादिग्रहणापत्ति स्याद्, एवमाद्यनेकदोषदुष्टत्वादेवं लोकोत्पत्ति भ्युपगन्तव्या।
ततश्च स्थितमेतत्-त एवंवादिनोलोकस्यानाद्यपर्यवसितस्योर्ध्वाधश्व तुर्दशरज्जुप्रमाणस्य वैशाखस्थानस्थकटिन्यस्तकरयुग्मपुरुषाकृतेरधोमुखमल्लकाकारसप्तपृथिव्यात्मकाघोलोकस्य स्थालाकारसंख्यद्वीपसमुद्राधारमध्यलोकस्य मल्लकसमुद्रकारारोव॑लोकस्य धर्माधर्माकाशपुद्गलजी-वात्मकस्य द्रव्यार्थतया नित्यस्य पर्यायापेक्षया क्षणक्षयिण उत्पादव्ययध्रौव्यापादितद्रव्यसतत्व- स्यानादिजीवकर्मसम्बन्धापादितानेकभवप्रपञ्चस्याष्टविधकर्मविप्रमुक्ताऽऽत्मलोकान्तोपलक्षितस्य तत्त्वमजानानाः सन्तोमृषा वदन्तीतिइदानीमेतेषामेव देवोप्तादिवादिनामज्ञानित्वं प्रसाध्य तत्फलदिदर्शयित्वाऽऽहमू. (६९) अमणुनसमुप्पायं, दुक्खमेव विजाणिया।
समुप्पायमजाणंता, कहं नायंति संवरं ।। वृ. मनोऽनुकूलं मनोज्ञं-शोभनमनुष्ठानं मनोज्ञममनोज्ञम्-असदनुष्ठानं तस्मादुत्पादःप्रादुर्भावो यस्य दुःखस्य तदमनोज्ञसमुत्पादम्, एवकारोऽवधारणे, स चैवं संबन्धीयःअमनोज्ञसमुत्पादमेव दुःखमित्येवं 'विजानीयात्' अवगच्छेत्याज्ञः, एतदुक्तं भवतिस्वकृतासदनुष्ठानादेव दुःखस्योदभवो भवति नान्यस्मादिति, एवं व्यवस्थितेऽपि सति अनन्तरोक्तवादिनोऽसदनुष्ठानोद्भवस्य दुःखस्य समुत्पादमजानानाः सन्तोऽन्यतईश्वरादेईखस्योत्पादमिच्छन्ति, ते चैवमिच्छन्तः ‘कथं' केन प्रकारेण दुःखस्य संवरं
दुःखप्रतिधातहेतु ज्ञास्यन्ति, निदानोच्छेदेन हि निदानिन उच्छेदोभवति, तेच निदानमेव नजानन्ति, तच्चाजानानाः कथं दुःखोच्छेदाय यतिष्यन्ते?, यत्नवन्तोऽपिच नैवदुःखोच्छेदनमवाप्स्यन्ति, अपितु संसार एव जन्मजरामरणेष्टवियोगाद्यनेकदुःखबाताध्राता भूयो भूयोऽरहट्टघटीन्यायेनानन्तमपि कालं संस्थास्यन्ति साम्प्रतं प्रकारान्तरेण कृतवादिमतमेवोपन्यस्यन्नाहमू. (७०) सुद्धे अपावए आया, इहमेगेसिमाहिये।
पुणो किड्डापदोसेणं, सो तत्थ अवरज्झई। वृ. 'इह' अस्मिन् कृतवादिप्रस्तावे त्रैराशिका गोशालकमतानुसारिणो येषामेकविंशतिसूत्राणिपूर्वगतत्रैराशिकसूत्रपरिपाट्या व्यवस्थितानितेएवंवदन्ति-यथाऽयमात्मा 'शुद्धो' मनुष्यभव एव शुद्धाचारो भूत्वा अपगताशेषमलकलको मोक्षे अपापको भवतिअपगताशेषकर्मा भवतीत्यर्थ, इदम् ‘एकेषां' गोशालकमतानुसारिणामाख्यातं, पुनरसावात्मा शुद्धत्वाकर्मकत्वराशिद्वयावस्थो भूत्वा क्रीडया प्रद्वेषेण वा स तत्र मोक्षस्थ एव 'अपराध्यति' रजसा श्लिष्यते, इदमुक्तं भवति
तस्यहि स्वशासनपूजामुपलभ्यान्यशासनपराभवंचोपलभ्य क्रीडोत्पद्यते-प्रमोदः संजायते, स्वशासनन्यक्कारदर्शनाच्च द्वेषः ततोऽसौक्रीडाद्वेषाभ्यामनुगतान्तरात्मा शनैः शनैर्निर्मलपटवदुपभुज्यमानोरजसा मलिनीक्रियते, मलीमसश्च कर्मगौरवाद्भूयः संसारेऽवतरति, अस्यांचावस्थायां सकर्मकत्वात्तु तीयराश्यवस्थो भवति ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org