________________
श्रुतस्कन्धः - १, अध्ययनं - १, उद्देशकः - ३
५३
विशिष्टः कर्तोपलक्ष्यते नेश्वरः, यदि पुनरीश्वरः स्यात् किं कुम्भकारेणेति ?, नैतदास्ति, तत्रापीश्वर एव सर्वव्यापितया निमित्तकारणत्वेन व्याप्रियते, नन्वेवं दृष्टहानिर ध्ष्टकल्पना स्यात्, तथा चोक्तम् " शस्त्रौषधादिसंबन्धाच्चैत्रस्य व्रणरोहणे । असंबद्धस्य किं स्थाणोः, कारणत्वं न कल्प्यते ? ॥
119 11
तदेवं दृष्टकारणपरित्यागेनादृष्टपरिकल्पना न न्याय्येति, अपिच - देवकुलावटादीनां यः कर्ता स सावयवोऽव्याप्यनित्यो दृष्टः, तदृष्टान्तरसाधितश्चेश्वर एवंभूत एव प्राप्नोति, अन्यथाभूतस्य च दृष्टान्ताभावाद्वयाप्तयसिधेर्नानुमानमिति, अनयैव दिशा स्थित्वाप्रवृत्त्यादिकमिपि साधनमसाधनमायोज्यं, तुल्ययोगक्षेमत्वादिति । यदपि चोक्तं 'प्रधानादिकृतोऽयं लोक' इति, तदप्यसंगतं, यतस्तत्प्रधानं किं मूर्तममूतं वा ?, यद्यमूर्तं न ततो मकराकरादेर्मूर्तस्योद्भवो घटते, न ह्याकाशात्कि ञ्चिदुत्पद्यमानमालक्ष्यते, मूर्ताभूर्तयोः कार्यकारमविरोधादिति, अथ मूर्तं तत्कुतः समुत्पन्नं ? न तावत्स्वतो लोकस्यापि तथोत्पत्ति प्रसङ्गात्, नाप्यन्यतोऽनवस्थापत्तेरिति, यथाऽनुत्पन्नमेव प्रधानाद्यनादिभावेनाऽऽस्ते तद्वल्लोकोऽपि किं नेष्यते ?, अपिच सत्त्वरजस्तमसां साम्यावस्था प्रधानमित्युच्यते, न चाविकृताव्याधानान्महदादेरुत्पत्तिरिष्यते भवद्भिः, न च विकृतं प्रधानव्यपदेशमास्कन्दतीत्यतो न प्रधानन्महदादेरुत्पत्तिरिति, अपिच
-
अचेतनायाः प्रकृतेः कथं पुरुषार्थं प्रति प्रवृत्ति ? येनाऽऽत्मनो भोगोपपत्त्या सृष्टिस्यादिति, प्रकृतेरयं स्वभाव इति चेदेवं तर्हि स्वभाव एव बलीयान् यस्तामपि प्रकृतिं नियमयति, तत एव च लोकोऽप्यस्तु किमध्ष्टप्रधानादिकल्पनयेति ? अथादिग्रहणात्स्वभावस्यापि कारणत्वं कैश्चिदिष्यत इति चेदस्तु, न हि स्वभावोऽभ्युपगम्यमानो नः क्षतिमातनोति, तथाहि - स्वो भवः स्वभावःस्वकीयोत्पत्ति, सा च पदार्थानामिष्यत एवेति । तथा यदुक्तं 'नियतिकृतोऽयं लोक' इति, तत्रापि नियमनं नियतिर्यद्यथाभवनं नियतिरित्युच्यते, सा चाऽऽलोच्यमाना न स्वभावादतिरिच्यते, यच्चाभ्यधायि-‘स्वयम्भुवोत्पादितो लोक' इति, तदप्यसुन्दरमेव, यतः स्वयम्भूरिति किमुक्त भवति ?, किं यदाऽसौ भवति तदा स्वतन्त्रोऽन्यनिरपेक्ष एव भवति अथानादिभवनात्स्वयम्भूरिति व्यपदिश्यते ?, तद्यदि स्वतन्त्र भवनाभ्युपगमस्तद्वल्लोकस्यापि भवनं किं नाभ्युपेयते ?, किं स्वयम्भुवा?, अथानादिस्ततस्तस्यानादित्वे नित्यत्वं, नित्यस्य चैकरूपत्वात्कर्तृत्वानुपपत्ति, तथा वीतरागत्वात्तस्य संसारवैचित्र्यानुपपत्ति, अथ सरागोऽसौ ततोऽस्मदाद्यव्यतिरेकात्सुतरां विश्वस्याकर्ता, मूर्तामूर्तादिविकल्पाश्च प्राग्वदायोज्या इति ।
यदपि चात्राभिहितं-‘तेन मारः समुत्पादि, स च लोकं व्यापादयति', तदप्यकर्तृत्वस्याभिहितत्वात्प्रलापमात्रमिति । तथा यदुक्तम् 'अण्डादिक्रमजोऽयं लोक' इति, तदप्यसमीचीनं, यतो यास्वप्सु तदण्डं निसृष्टं ता यथाऽण्डमन्तरेषाभूवन् तथा लोकोऽपि भूत इत्यभ्युपगमे न काचिद्बाधा श्यते, तथाऽसौ ब्रह्मा यावदण्ड सृजति तावल्लोकमेव कस्मान्नोत्पादयति ?, किमनया कष्टया युक्त्यसंगतया चाण्डपरिकल्पनया ?, एवमस्त्विति चेत् तथा केचिदभिहितवन्तो यथा ब्रह्मणो मुखाद्ब्राह्मणाः समजायन्त बाहुभ्यां क्षत्रिया ऊरुभ्यां वैश्याः पद्भ्यां शूद्रा इति, एतदप्ययुक्तिसंगतमेव, यतो न मुरवादेः कस्यचिदुत्पत्तिर्भवन्त्युपलक्ष्यते, अथापि स्यात्तथा सति वर्णानामभेदःस्याद्, एकस्मादुत्पत्तेः, तथा ब्राह्मणानां कठतैत्तिरुयककलापादिकश्च भेदो न स्याद्,
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International