SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्ग सूत्रम् १/१/३/६७ अन्यथा च स्थितंतत्त्वमन्यथाप्रतिपादयन्तीत्यर्थ अधुनैतेषां देवोप्तादिजगद्वादिनामुत्तरदानायाहमू. (६८) सएहिं परियाएहिं, लोयं बूया कडेति य । तत्तं ते न विजाणंति, न विनासी कयाइवि।। वृ. 'स्वकैः' स्वकीयैः ‘पर्यायैः' अभिप्रायैर्युक्तिविशेषैःअयंलोकः कृत इत्येवम् ‘अब्रूवन्' अभिहितवन्तः तद्यथा-देवोप्तो ब्रह्मोप्त ईश्वरकृतः प्रधानादिनिष्पादितः स्वयम्भुवा व्यधायि तन्निष्पादितमायया म्रियते तथाऽण्डजश्चायं लोक इत्यादि, स्वकीयाभिरुपत्तिभिप्रतिपादयन्तियथाऽस्मदुक्तमेव सत्यं नान्यदिति, तेचैवंवादिनो वादिनः सर्वेऽपि 'तत्त्वं' परमार्थं यथावस्थितलोकस्वभावं नाभि जानन्ति' न सम्यक् विवेचयन्ति, यथाऽयं लोको द्रव्यार्थतयान विनाशीतिनिर्मूलतः कदाचन, नचायमादितआरभ्य केनचित् क्रियते, अपित्वयंलोकोऽभूभवति भविष्यति च, तथाहि-यत्तावदुक्तं यथा 'देवोप्तोऽयं लोक' इति, तदसंगतम्, यतो देवोप्तत्वे लोकस्य न किञ्चित्तथाविधं प्रमाणमस्ति, न चाप्रमाणकमुच्यमानं विद्वज्जनमनांसि प्रीणयति, अपि च - किमसौ देव उत्पन्नोऽनुत्पन्नो वा लोकं सृजेत् ?, न तावदनुत्पन्नस्तस्य खरविषाणस्येवासत्त्वात्करणाभावः, अथोत्पन्नः सृजेत्तत्किं स्वतऽन्यतो वा?, यदि स्वत एवोत्पन्नस्तथा सति तल्लोकस्यापि स्वत एवोत्पत्ति किं नेष्यते?, अथान्यतउत्पन्नःसन्लोककरणाय, सोऽप्यन्योऽन्यतः सोऽप्यन्योऽन्यत इत्येवमनवस्थालता नभोमण्डलव्यापिन्यनिवारितप्रसरा प्रसर्पतीति, अथासौ देवोऽनादित्वानोत्पन्नइत्युच्यते, इत्येवंसति लोकोऽप्यनादिरेवास्तु, कोदोषः?, किंच-असावनादि सन्नित्योऽनित्योवास्यात्?, यदि नित्यस्तदा तस्य क्रमयोगपद्याभ्यामर्थक्रियाविरोधान्न कर्तृत्वम्, अथानित्यस्था सति स्वत एवोत्पत्त्यनन्तरं विनाशित्वादात्मनोऽपि न त्राणाय, कुतोऽन्यत्करणं प्रति तस्य व्यापारचिन्तेति?, तथा किममूर्तो मूर्तिमान् वा?, यद्यमूर्तस्तदाऽऽकाशवदकर्तेव, अथ मूर्तिमान् तथा सति प्राकृतपुरुषस्येवोपकरणसव्यपेक्षस्य स्पष्टमेव सर्वजगदकर्तृत्वमिति । देवगुप्तदेवपुत्रपक्षौ त्वतिफल्गुत्वादपकर्णयितव्याविति, एतदेव दूषणं ब्रह्मोप्तपक्षेऽपि द्रष्टव्यं, तुल्ययोगक्षेमत्वादिति।तथा यदुक्तम्_ 'तनुभुवनकरणादिकं विमत्यधिकरणभावापन्नं विशिष्टबुद्धिमत्कारणपूर्वकं, कार्यत्वाद्, घटादिवदिति' तदयुक्तं, तथाविधविशिष्टकारणपूर्वकत्वेन व्याप्तयसिद्धेः, कारणपूर्वकत्वमात्रेण तुकार्यव्याप्तं, कार्यविशेषोपलब्धौ कारणविशेषप्रतिपत्तिर्गृहीतप्रतिबन्धस्यैव भवति, नचात्यन्तादृष्टे तथा प्रतीतिर्भवति, घटे तत्पूर्वकत्वंप्रतिपन्नमिति चेत्युक्तं तत्र घटस्य कार्यविशेषत्वप्रतिपत्तेः, नत्वेवंसरित्समुद्रपर्वतादौबुद्धिमत्कारणपूर्वकत्वेन सम्बन्धोगृहीतइति, नन्वत एवघटादिसंस्थानविशेषदर्शनवत्पर्वतादावपिविशिष्टसंस्थानदर्शनाद्बुद्धिमत्कारणपूर्वकत्वस्यसाधनं क्रियते, नैतदेवं युक्तं, यतो न हि संस्थानशब्दप्रवृत्तिमात्रेण सर्वस्य बुद्धिमत्कारणपूर्वकत्वावगतिर्भवति, यदि तु स्यात् मृद्विकारत्वाद्वल्मीकस्यापि घटवत्कुम्भकाराकृति स्यात्, तथा चोक्तम् - ॥१॥ “अन्यथा कुम्भकारेण मृद्विकारस्य कस्यचित् । घटादेः करणात्सिद्धयेद्वल्मीकस्यापि तत्कृति॥ इति, तदेवं यस्यैवसंस्थानविशेषस्य बुद्धिमत्कारणपूर्वकत्वेन सम्बन्धो गृहीतस्तद्दर्शनमेव तथाविधकारणानुमापकं भवति न संस्थानमात्रमिति, अपिच-घटादिसंस्थानानां कुम्भकार एव Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy