SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः-१, अध्ययनं-१, उद्देशकः - ३ ५५ साध्यो धर्मः, संस्थानविशेषवत्त्वादिति हेतुः, यथा घटादिरिति दृष्टान्तोऽयं, यद्यत्संस्थानविशेषवत्तत्तबुद्धिमत्कारणपूर्वकं दृष्टं, यथा देवकुलकूपादीनि, संस्थानविशेषवच्च मकराकरनदीधरा-धरधराशरीरकरणादिकं विवादगोचरापन्नमिति, तस्माद्बुद्धिमत्कारणपूर्वकं, यश्च समस्तस्यास्य जगतः कर्ता स सामान्यपुरुषो न भवतीत्यसावीश्वर इति, तथा सर्वमिदं तनुभुवनकरणादिकंधर्मित्वेनोपादीयते, बुद्धिमत्कारणपूर्वकमिति साध्योधर्म,कार्यत्वादघटादिवत्, तथा स्थित्वा प्रवृत्तेर्वा, वास्यादिवदिति । ___ तथाऽपरे प्रतिपन्ना यथा-प्रधानादिकृतो लोकः, सत्त्वरजस्तमसां साम्यावस्था प्रकृति, सा च पुरुषार्थं प्रति प्रवर्तते, आदिग्रहणाच्च 'प्रकृतेर्महान् ततोऽहङ्कारः तस्माच्च गणः षोडशकः तस्मादपिषोडशकात्पञ्चभ्यः पञ्च भूतानी'त्यादिकयाप्रक्रियया सृष्टिर्भवतीति, यदिवा-आदिग्रहणास्वभावादिकं गृह्यते, ततश्चायमर्थस्वभावेन कृतो लोकः, कण्टकादितैक्ष्ण्यवत्, तथाऽन्ये नियतिकृतोलोको मयूराङ्गरुहवदित्यादिभिकारणैः कृतोऽयंलोको 'जीवाजीवसमायुक्तो' जीवैःउपयोगलक्षणैः तथा अजीवैः-धर्माधर्माकाशपुद्गलादिकैः समन्वितः समुद्रधराधरादिक इति, पुनरपिलोकंविशेषयितुमाह-'सुखम् आनन्दरूपं 'दुःखम्' असातोदयरूपमिति, ताभ्यांसमन्वितोयुक्त इति मू. (६६) सयंभुणा कडे लोए, इति वुत्तं महेसिणा। मारेण संथुया माया, तेण लोए असासए । वृ.किंच-‘सयंभुणा' इत्यादि, स्वयं भवतीति स्वयम्भूः-विष्णुरन्यवा, सचैकएवादावभूत, तत्रैकाकी रमते, द्वितीयमिष्टवान्, तच्चिन्तानन्तरमेव द्वितीया शक्तिः समुत्पन्ना, तदनन्तरमेव जगत्सृष्टिरभूदु ‘इति' एवं महर्षिणा ‘उक्तम्' अभिहितम्, एवंवादिनोलोकस्यकर्तारमभ्युपगतवन्तः अपि च 'तेन' स्वयंभुवा लोकं निष्पाद्यातिभारभयाद्यमाख्यो मारयीति मारो व्यधायि, तेन मारेण 'संस्तुता' कृता प्रसाधिता माया, तया च मायया लोका म्रियन्ते, न च परमार्थतो जीवस्योपयोगलक्षणस्य व्यापत्तिरस्ति, अतोमायैषा यथाऽयंमृतः, तथा चायं लोकः 'अशाश्वतः' अनित्यो विनाशीति गम्यते अपिचमू. (६७) माहणा समणा एगे, आह अंडकडे जगे। असो तत्तमकासी य, अयाणंता मुसंवदे॥ वृ. 'ब्राह्मणा' धिगजातयः ‘श्रमणाः' त्रिदण्डिप्रभृतयः “एके' केचन पौराणिका न सर्वे, एवम् 'आहुः उक्तवन्तो, वदन्तिच यथा-जगदेतच्चराचरमण्डेन कृतमण्डकृतंअण्डाज्जातमित्यर्थ, तथाहि तेवदन्ति-यदा न किञ्चिदपि वस्त्वासीत्-पदार्थशून्योऽयंसंसारः तदा ब्रह्माऽस्वण्डमसृजत्, तस्माच्च क्रमेण वृद्धात्पश्चाविधाभावमुपगतादूर्वाधोविभागोऽभूत्, तन्मध्ये च सर्वा प्रकृतयोऽभूवन्, एवं पृथिव्यप्तेजोवाय्वाकाशसमुद्रसरित्पर्वमकराकरनिवेशादिसंस्थितिरभूदिति, तथा चोक्तम् "आसीदिदं तमोभूतमप्रज्ञातमलक्षणम् । अप्रतय॑मविज्ञेयं, प्रसुप्तमिव सर्वतः॥ एवंभूते चास्मिन् जगति ‘असौ' ब्रह्मा, तस्य भावस्तत्वं-पदार्थजातं तदण्डादिप्रक्रमेण 'अकार्षीत्' कृतवानिति । ते च ब्राह्मणादयः परमार्थमजानानाः सन्तो मृषा वदन्त एवं वदन्ति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy