SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः - १, अध्ययनं १, उद्देशकः - २ - चतुर्विधकर्मचयानभ्युपगमेनानिपुणत्वाच्छासनस्य 'संसारमेव' चतुर्गतिसंसरणरूपम् 'अनुपर्यटन्ति' भूयोभूयस्तत्रैव जन्मजरामरणदौर्गत्यादिक्लेशमनुभवन्तोऽनन्तमपि कालमासते, न विवक्षितमोक्षसुखमाप्नुवन्ति, इति ब्रवीमीति पूर्ववदिति । अध्ययनं -१ उद्देशकः-२ समाप्तः ४९ -: अध्ययनं-१ उद्देशकः-३ : द्वितीयोद्देशकानन्तरं तृतीयः समारभ्यते, अस्य चायमभिसंबन्धः - अध्ययनार्थाधिकारः स्वसमयपरसमयप्ररूपणेति, तत्रोद्देशकद्वयेन स्वपरसमयप्ररूपणा कृता अत्रापि सैव क्रियते, अथवाऽऽद्ययोरुद्देशकयोः कुद्दष्टयः प्रतिपादितास्तद्दोषाश्च तदिहापि तेषामाचारदोषः प्रदर्श्यत इत्यनेन संबन्धेनायातस्यास्योद्देशकस्य चत्वार्यनुयोगद्वाराणि व्यावर्ण्यासरखलितादिगुणोपेतं सूत्रमुच्चारणीयं तच्चेदम्मू. (६०) जं किंचि उ पूइकडं, सड्ढीमागंतुमीहियं । सहस्संतरियं भुंजे, दुपक्खं चेव सेवइ ।। वृ. अस्य चानन्तरसूत्रेण सहायं संबन्ध - इहानन्तरोद्देशकपर्यन्तसूत्रेऽभिहितम्, 'एवं तु श्रमणा एके' इत्यादि, तदिहापि संबध्यते, एके श्रमणा यत्किञ्चित्पूतिकृतं भुञ्जानाः संसारं पर्यटन्तीति, परम्परसूत्रे त्वभिहितं 'बुज्झिज्ज' इत्यादि, यत्किञ्चित्सूतिकृतं तदुध्येतेति, एवमन्यैरपि सूत्रैरुठप्रेक्ष्य संबन्धो योज्यः । अधुना सूत्रार्थ प्रतीयते-'यत्किञ्चि' दिति आहारजातं स्तोकमपि, आस्तां तावप्रभूतं, तदपि ‘पूतिकृतम्' आधाकर्मादिसिक्थेनाप्युपसृष्टम्, आस्तां तावदाधाकर्म, तदपि न स्वयंकृतम्, अपि तु 'श्रद्धावता' अन्येन भक्तिमताऽपरान् आगन्तुकानुद्दिश्य 'ईहितं' चेष्टितं निष्पादितं, तच्च सहान्तरितमपि यो भूज्जीत' अभ्यवहरेदसौ 'द्विपक्षं' गृहस्थपक्षं प्रव्रजितपक्षं चाऽऽ सेवते, एतदुक्तं भवति - एवंभूतमपि परकृतमपरागन्तुकयत्यर्थ निष्पादितं यदाधाकर्मादि तस्य सहान्तरितस्यापि योऽवयवस्तेनाप्युपसृष्टमाहारजातं भुञ्जानस्य द्विपक्षसेवनमापद्येति, किं पुनः य एते शाक्यादयः स्वयमेव सकलमाहारजातं निष्पाद्य स्वयमेव चोपभुञ्चते ?, ते च सुतरां द्विपक्षसेविनो भवन्तीत्यर्थ, यदिवा- 'द्विपक्ष' मिति ईर्यापथः सांपरायिकं च, अथवा । पूर्वबद्धा निकाचिताद्यवस्थाः कर्मप्रकृतीर्नयत्यपूर्वाश्चादत्ते, तथा चागमः “आहाकम्मंणं भुञ्जमाणे समणे कइ कम्मपयडीओ बंधइ ?, गोयमा ! अट्टकम्मपयडीओ बंधइ, सिढिलबंधबद्धाओ घणियबंधणबद्धाओ करे, चियाओ करेइ, उवचियाओ करेइ, ह्रस्सठिइयाओ दीहठिइयाओ करेइ' इत्यादि । ततश्चैवं शाक्यादयः परतीर्थिकाः स्वयूथ्या वा आधाकर्म भुञ्जाना द्विपक्षमेवाऽऽ सेवन्त इति सूत्रार्थः । पू. (६१) तमेव अवियाणंता, विसमंसि अकोविया । मच्छा वेसालिया चेव, उदगस्सऽभियागमे ॥ वृ. इदानीमेतेषां सुखैषिणामाधाकर्मभोजिनां कटुकविपाकाविर्भावनाय श्लोकद्वयेन दृष्टान्तमाह–‘तमेव’ आधाकर्मोपभोगदोषम् ' अजानाना' विषमः - अष्टप्रकारकर्मबन्धो भव 24 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy