SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ ४८ सूत्रकृताङ्ग सूत्रम् १/१/२/५६ ॥१॥ “उच्चालियंमि पाए इरियासमियस्स संकमट्ठाए। वावज्जेज कुलिंगी मरेज्जतं जोगमासज्ज ।। ॥२॥ ने य तस्स तन्निमित्तो बन्धो सुहुमोऽविदेसिओ समए। अणवज्जो उपयोगेण सव्वभावेण सोजम्हा॥ वृ. स्वप्नान्तिकऽप्यशुद्धचित्तसद्भावादीषद्बन्धो भवत्येव, स च भवताऽप्यभ्युपगत एव अव्यक्तंतत्सावद्य'मित्यनेनेति। तदेवं मनसोऽपिक्लिष्टस्यैकस्यैव व्यापारे बन्धसद्भावात् यदुक्तं भवता 'प्राणी प्राणिज्ञान मित्यादि तत्सर्वं प्लवत इति, यदप्युक्तं-पुत्रं पिता समारभ्ये' त्यादि तदप्यनालोचिताभिधानं, यतो मारयामीत्येवं यावन्न चित्तपरिणामोऽभूत्तावन्न कश्चिद्वया पादयति, एवंभूतचित्तपरिणतेश्च कथमसंक्लिष्टता ?, चित्तसंक्लेशे चावश्यंभावी कर्मबन्ध इत्युभयोस्संवादोऽत्रेति । यदपिचतैःक्वचिदुच्यते-यथा परव्यापादितपिशितभक्षणे परहस्ताऽऽकृष्टाङ्गारदाहाभाववन्न दोष' इति, तदपि उन्मत्तप्रलपितवदनाकर्णनीयं, यतः परव्यापादिते पिशितभक्षणेऽनुमतिरप्रतिहता, तस्याश्च कर्मबन्ध इति, तथा चान्यैरप्यभिहितम् । ॥१॥ “अनुमन्ता विशसिता, संहर्ता क्रयविक्रयी। संस्कर्ता चोपभोक्ता च, घातकश्चाष्ट घातकाः॥ यच्च कृतकारितानुमतिरूपमादानत्रयंतैरभिहितं तज्जैनेन्द्रमतलवास्वादनमे तैरकारिति। तदेवं कर्मचतुष्टयं नोपचयं यातीत्येवंतदभिदधानाः कर्मचिन्तातो नष्टा इतिसुप्रतिष्ठितमिदमिति मू. (५७) इच्चेयाहि य दिहिहिं, सातागारवणिस्सिया। सरणंति मन्नमाणा, सेवंती पावगंजणा ॥ वृ. अधुनैतेषां क्रियावादिनामनर्थपरम्परांदर्शयितुमाह-'इत्येताभि' पूर्वोक्ताभिश्चतुर्विधं कर्म नोपचयं यातीति 'दृष्टिभिः' अभ्युपगमैस्ते वादिनः 'सातगौरवनिःश्रिताः' सुखशीलतायामासक्ता यत्किञ्चनकारिणो यथालब्धभोजिनश्च संसारोद्धरणसमर्थ 'शरणम्' इदमस्मदीयं दर्शनम् इति एवंमन्यमाना विपरीतानुष्ठानतया सेवन्ते' कुर्वते 'पापम् अवद्यम्, एवं व्रतिनोऽपि सन्तोजना इव जनाः प्राकृतपुरुषसध्शा इत्यर्थः। मू. (५८) जहा अस्साविणिं नावं, जाइअंधो दुरुहिया। इच्छई पारमागंतुं, अंता य विसीयई॥ वृ.अस्यैवार्थस्योपदर्शकं दृष्टान्तमाह-आ-समन्तात्वतितच्छीला वाआविणी सच्छिद्रेत्यर्थः, तां तथाभूतां नावं यथा जात्यन्धः समारुह्य ‘पारं' तटम् ‘आगन्तुं' प्राप्नुमिच्छत्यसौ, तस्याश्चानाविणीत्वेनोदकप्लुतत्वात् ‘अन्तराले जलमद्य एव 'विषीदति' वारिणि निमज्जतितत्रैव च पञ्चत्वमुपयातीति। मू. (५९) एवं तु समणा एगे, मिच्छदिट्ठी अणारिया। संसारपारकंखी ते, संसारं अणुपरियट्टति त्तिबेमि ॥ वृ. साम्प्रतं दार्शन्तिकयोजनार्थमाह-एव'मिति यथाऽन्धः सच्छिद्रां नावं समारूढः पारगमनाय नालं तथा श्रमणा एके शाक्यादयो मिथ्या-विपरीता दृष्टिर्येषां ते मिथ्यादृष्टयः तथा पिशिताशनानुमतेरनार्या स्वदर्शनानुरागेण ‘संसारपारकाङ्क्षिणों मोक्षाभिलाषुका अपि सन्तस्ते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy