SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः- १, अध्ययनं-१, उद्देशकः - २ ४७ मू. (५४) एते उतउ आयाणा, जेहिं कीरइ पावगं। एवं भावविसोहीए, निव्वाणमभिगच्छइ ।। वृ.तुरवधारणे, ‘एतान्येव' पूर्वोक्तानि त्रीणि व्यस्तानिसमस्तानिवाआदानानियैर्दुष्टाध्यवसायसव्यपेक्षैः पापकं कर्मोपचीयत इति, एवं चस्थिते यत्र कृतकारितानुमतयः प्राणिव्यपरोपणं प्रति न विद्यन्तेतथा 'भावविशुद्धया' अरक्तद्विष्टबुध्ध्याप्रवर्तमानस्यसत्यपि प्राणातिपाते केवलेन मनसा कायेन वा मनोऽभिसंधिरहितेनोभयेन वा विशुद्धबुद्धेर्न कर्मोपचयः । तदभावाञ्च निर्वाणं' सर्वद्वन्द्वोपरतिस्वभावम् अभिगच्छति' आभिमुख्येन प्राप्नोतीति भावशुद्धया प्रवर्तमानस्य कर्मबन्धो न भवतीत्यत्रार्थे दृष्टान्तमाहमू. (५५) पुत्तं पिया समारब्भ, आहारेज्ज असंजए। भुंजमाणो य मेहावी, कम्मणा नोवल्लिप्पइ॥ वृ. 'पुत्रम्' अपत्यं 'पिता' जनकः “समारभ्य' व्यापाद्य आहारार्थ कस्याञ्चित्तथाविधायामापदि तदुद्धरणार्थमरक्तद्विष्टः 'असंयतो' गृहस्थस्तत्पिशितंभुञ्चानोऽपिचशब्दस्यापिशब्दार्थत्वादिति, तथा ‘मेघाव्यपि' संयतोऽपीत्यर्थ, तदेवं गृहस्थो भिक्षुर्वा शुद्धाशयः पिशिताश्यपि 'कर्मणा' पापेन 'नोपलिप्यते' नाश्लिष्यत इति। ___ यथा चात्र पितुः पुत्रं व्यापादयतस्तत्रारक्तद्विष्टमनसः कर्मबन्धो न भवति तथाऽन्यस्याप्यरक्तद्विष्टान्तःकरणस्य प्राणिवधे सत्यपि न कर्मबन्धो भवतीति साम्प्रमेतद्दूषणायाहमू. (५६) मनसा जे पउस्संति, चित्तं तेसिं न विज्जइ। अणवज्जमतहं तेसिं, न ते संवुडचारिणो।। वृ. ये हि कुतश्चिन्निमित्तात् ‘मनसा' अन्तःकरणेन 'प्रादुष्यन्ति' प्रद्वेषमुपयान्ति 'तेषां' वधपरिणतानां शुद्धं चित्तं न विद्यते, तदेवं यत्तैरभिहितं-यथा केवलमनःप्रद्वेषेऽपि 'अनवद्यं' कर्मोपचयाभाव इति, तत् तेषाम् ‘अतथ्यम्' असदर्थाभिधायित्वं, यतो न ते संवृतचारिणो, मनसोऽशुद्धत्वात्, तथाहि-कर्मोपचयेकर्तव्येमन एव प्रधानं कारणं, यतस्तैरपिमनोरहितकेवलकायव्यापारे कर्मोपचयभावोऽभिहितः, ततश्च यत् यस्मिन् सति भवत्यसतितुन भवति तत्तस्य प्रधानं कारणमिति, ननु तस्यापिकायचेष्टारहितस्याकारणत्वमुक्तं, सत्यमुक्तम्, अयुक्तं तूक्तं, यतो भवतैव ‘एवं भावशुद्धया निर्वाणमभिगच्छती'तिभणतामनस एवैकस्य प्राधान्यमभ्यधायि, तथाऽन्यदप्यभिहितं। ॥१॥ “चित्तमेव हि संसारो, रागादिक्लेशवासितम्। तदेव तैर्विनिर्मुक्तं, भवान्त इति कथ्यते ।। -तथाऽन्यैरप्यभिहितं॥१॥"मतिविभव! नमस्ते यत्समत्वेऽपिपुंसां, परिणमसि शुभांशैः कल्मषांशैस्त्वमेव। नरकनगर वर्त्म प्रस्थिताः कष्टमेके, उपचितशुभशकत्या सूर्यसंभेदिनोऽन्ये । तदेवं भवदभ्युपगमेनैव क्लिष्टमनोव्यापारः कर्मबन्धायेत्युक्तं भवति, तथैर्यापथेऽपि यद्यनुपयुक्तो याति ततोऽनुपयुक्ततैव क्लिष्टचित्ततेति कर्मबन्धो भवत्येव, अथोपयुक्तो याति ततोऽप्रमत्तत्वादबन्धक एव, तथा चोक्तम् - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy