________________
४५८
सूत्रकृताङ्ग सूत्रम् २/७/-1८०४ आयाणसो जाव तेसु पञ्चायंति, जेहिं समणोवासगस्स सुपच्चक्यायं भवइ, ते पाणावि जाव अयंपि भेदे से०।
वृ. पुनरपि गौतमस्वाम्युदकं प्रतीदमाह-तद्यथा-बहुभि प्रकारैस्त्रससद्भावः संभाव्यते, ततश्चाशूयन्यस्तैः संसारः, तदशून्यत्वे न निर्विषयं श्रावकस्य त्रसवधनिवृत्तिरूपं प्रत्याख्यानं । तदधुनाबहुप्रकारत्रससंभूत्याऽशून्यतांसंसारस्य दर्शयति-भगवानाह सन्ति विद्यन्तेशान्तिप्रधाना वा एके केचन श्रमणोपासका भवन्ति, तेषां चेदमुक्तपूर्वं भवति-संभाव्यते च श्रावकाणामेवं भूतस्य वचसः संभव इति, तद्यथा-न खलु वयं शक्नुमः प्रव्रज्यां ग्रहीतुं, किंतु? वयं णमिति वाक्यालङ्कारेचतुर्दश्यष्टमीपौर्णमासीषुसंपूर्णपौषधमाहारशरीरसत्कारब्रह्मचर्याव्यापाररूपंपौषधं सम्यगनुपालयन्तो विहरिष्यामः, तथा स्थूलप्राणातिपातमृषावादादत्तादानमैथुनपरिग्रहं प्रत्याख्यास्यामो द्विविध मिति कृतकारितप्रकारद्वयेन अनुमतेःश्रावकस्याप्रतिषिद्धत्वात् तथा त्रिविधेने त्ति मनसा वाचा कायेन च, तथा 'मा' इति निषेधे 'खलु' इति वाक्यालङ्कारे मदर्थ पचनपाचनादिकं पौषधस्थस्य मम कृते मा कार्ट, तथा परेण मा कारयत, तत्राप्यनुमतावपि सर्वथा यदसंभवि तत्प्रत्याख्यास्यामः, ते एवंभूतकृतप्रतिज्ञाः सन्तः श्रावकाः अभुक्त्वाऽपीत्वाऽस्नात्वा च पौषधोपेतत्वादासन्दीपीठिकातः प्रत्यारुह्य अवतीर्य सम्यक् पौषधं गृहीत्वा कालं कृतवन्तः, ते तथाप्रकारेण कृतकालाः सन्तः किं सम्यकृतकाला उतासम्यगिति?'
कथं वक्तव्यं स्यादिति?,एवं पृष्टैर्निर्ग्रन्थैरवश्यमेवं वक्तव्यं स्यात्-सम्यक्कालगता इति, एवंच कालगतानामवश्यंभावी तेषांदेवलोकेषूत्पादः, तदुत्पनश्चत्रस एव, ततश्च कथं निर्विषयता प्रत्याख्यानस्योपासकस्येति पुनरन्यथा श्रावकोद्देशेनैव प्रत्याख्यानस्य विषयं प्रदर्शयितमाहगौतमस्वाम्येवाह-तद्यथा 'सन्ति' विद्यन्ते एके केचन श्रमणोपासकाः, तेषां चैतदुक्तपूर्वं भवति, तद्यथा-खलु न शक्नुमो वयं प्रव्रज्यां ग्रहीतुं, नापि चतुर्दश्यादिषु सम्यक् पौषधं पालयितुं वयं चापश्चिमयासंलेखनक्षपणयाक्षपितकायायदिवासंलेखनाजोषणया-सेवनयाजोषिताः-सेविता उत्तमार्थगुणैरित्येवंभूताः सन्तो भक्तपानं प्रत्याख्याय 'कालं' दीर्धकाल मनवकाङ्क्षमाणा विहरिष्यामः, इदमुक्तं भवति-न वयं दीर्घकाल पौषधादिकं व्रतं पालयितुं समर्थाः, किंतु वयं सर्वमपिप्राणातिपातादिकंप्रत्याख्याय संलेखनयासंलिखितकायाश्चतुर्विधाहारपरित्यागेन जीवितं परित्यक्तुमलमिति।
एतत्सूत्रेणैव दर्शयति-'सव्वं पाणाइवाय'मित्यादि, सुगमं, यावत्ते तथा कालगताः किं वक्तव्यमेतस्यात्-सम्यक् ते कालगता इति?, एवं पृटा निर्ग्रन्था एतदुचुः, यथा-ते सन्मनसःशोभनमनसस्ते कालगता इति, तेच सम्यक्सलेखनया यदाकालं कुर्वन्ति तदाऽवश्यमन्यतमेषु देवलोकेषूत्पद्यन्ते, तत्र चोत्पन्ना यद्यपि ते व्यापादयितुं न शक्यन्ते तथापि त्रसत्वात्ते श्रावकस्य त्रसवधनिवृत्तस्य विषयतां प्रतिपद्यन्ते ॥ पुनरप्यन्यथा प्रत्याख्यानस्य विषयमुपदर्शयितुमाहभगवानाह-एके केचन मनुष्या एवंभूता भवन्ति, तद्यथा-महेच्छा महारम्भा महापरिग्रहा इत्यादि सुगम,यावधैर्येषुव श्रमणोपासकस्यादीयतइत्यादान-प्रथमव्रतग्रहणं, ततआरभ्याऽऽरणान्ताद्दण्डो निक्षिप्तः-परित्यक्तो भवति, तेचताग्विधास्तस्माद्भवात्कान्तत्यतेस्वायुषं विजहन्ति, त्यक्त्वा त्रसजीवितं ते भूयः पुनः स्वकर्म-स्वकृतं किल्विषमादाय-गृहीत्वा दुर्गतिगामिनो भवन्ति ।
एतदुक्तं भवति-महारम्भपरिग्हत्वात्ते मृताः पुनरन्यतरपृथिव्यां नारकत्रसत्वेनोत्पद्यन्ते, तेच सामान्यसंज्ञयाप्राणिनो विशेषसंज्ञासा महाकायाः चिरस्थितका इत्यादि पूर्ववद्यावत् 'नो
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org