________________
श्रुतस्कन्धः-२, अध्ययनं-७,
४५९ नेयाउए'त्तिपुनरप्यन्येनप्रकारेण प्रत्याख्यानस्य विषयं दर्शयितुमाह 'भगवंचणं उदाहुरित्यादि, पूर्वोक्तभ्योमहारम्भपरिग्रहवदादिभ्यो विपर्यस्ताः सुशीलाः सुव्रताः सुप्रत्यानन्दाःसाधव इत्यादि सुगमयावत् 'नो नेयाउए भवइत्ति, एतेच सामान्यश्रावकाः, तेऽपित्रसेष्येवान्यतरेषु देवेषूत्पद्यन्ते, ततोऽपि न निर्विषयं प्रत्याख्यानमिति ।
कञ्चान्यत्-‘भगवं च णं उदाहु'रित्यादि सुगमं यावत् नो नेयाउए भवइ त्ति एते चाल्पेच्छादिविशेषणविशिष्टाअवश्यं प्रकृतिभद्रकतया सद्गतिगामित्वेन त्रसकायेषूत्पद्यन्त इति द्रष्टव्यं । किञ्चान्यत् भगवंचणंउदाहु रित्यादि-गौतमस्वाम्येव प्रत्याख्यानस्य विषयं दर्शयितुमाह एके केचन मनुष्या एवंभूता भवन्ति, तद्यथा-अरण्ये भवा आरण्यकाः-तीर्थिकविशेषाः तथा आवसथिकाः-तीर्थिकविशेषाएव,तथा ग्राम निमन्त्रिकाः तथा 'कण्हुईरहस्सिय'त्ति क्वचित्कार्ये रहस्यकाः क्वचिद्रहस्यकाः, एवेसर्वेऽपितीर्थिकविशेषाः, तेचनोबहुसंयता हस्तपादादिक्रियासु, तथा ज्ञानात्रणीयावृतत्वातून बहुविरताःसर्वप्राणभूतजीवसत्वेभ्यस्तत्स्वरूपापरिज्ञानात्तद्वादविरता इत्यर्थः। तेतीर्थिकविशेषा बह्वसंयताः चतोऽविरताआत्मना सत्यामृषाणि वाक्यानि एव मिति वक्ष्यमाणनीत्यावियुञ्जन्ति, एवं विप्पडिवेदेति क्वचित्पाठोऽस्यामर्थः-एवंविधप्रकारेण परेषां प्रतिवेदयन्ति-ज्ञापयन्ति, तानि पुनरेवं भूतानि वाक्यानि दर्शयति, तद्यथा।
अहं हन्तव्योऽन्ये पनुर्हन्तव्याः तथाऽहं नाज्ञापयितव्योऽन्ये पुनराज्ञापयितव्या इत्यादीन्युपदेशवाक्यानि ददति, ते चैवमेवोपदेशदायिनः स्त्रीकामेषुमूर्छिता गृद्धाअध्युपपन्ना यावद्वर्षाणि चतुःपञ्चमानि वा षड्दशमानि वा अतोऽप्यल्पतरं वा प्रभूततरंवा कालं भुक्त्वा उत्कटा भोगा भोगभोगास्तान् ते तथाभूताः किञ्चिदज्ञानतपः कारिणः कालमासे कालं कृत्वाऽन्यतरेष्वासुरीयेषु स्थानेषु किल्बिषेष्वसुन्देवाधमेषु स्थानेषूपपत्तारो भवन्ति, यदिवा प्राण्युपघातोपदेशदायिनो भोगाभिलाषुका असूर्येषु नित्यान्धकारेषुकिल्बिषप्रधानेषु नरकस्थानेषु ते समुत्पद्यन्ते, ते च देवा नारका वा त्रसत्वं न व्यभिचर्ति, तेषु च यद्यपि द्रव्यप्राणातिपातो न संभवतितथापितेभावतोयः प्राणातिपातस्तद्विरतेविषयतांप्रतिपद्यन्तेततोऽपिचदेवलोकाच्युता नरकोद्धृ ताः क्लिष्टपञ्चेन्द्रियतिर्यक्षु तथाविधमनुष्येषु चैडमूकतया समुत्पद्यन्ते, तथा 'तमोरूवत्ताएत्तिअन्धवधिरतयाप्रत्यान्ति, ते चोभयोरप्यवस्थयोस्त्रसत्वंनव्यभिचरन्तिइत्यतो न निर्विषयं प्रत्याख्यानम्, एतेषुच द्रव्योऽपि प्राणातिपातः संभवतीति।
साम्प्रतंप्रत्यक्षसिद्धमेव विरतेर्विषयंदयितुमाह-'भगवंचणंउदाहुरित्यादि, भगवानाहयोहि प्रत्याख्यानं गृह्णाति तस्माद्दीर्घायुष्काः प्राणाः' प्राणिनः,तेच नारकमनुष्यदेवा द्वित्रिचतुःपञ्चेन्द्रियतिर्यञ्चश्च संभवन्ति, ततः कथं निर्विषयं प्रत्याख्यानमिति?, शेषं सुगम, यावत् 'नो नेयाउए भवइ ॥एवमुत्तरसूत्रमपितुल्यायुष्कविषयं समानयोगक्षेमत्वाद्वयाख्येयं तथाऽल्पायुष्कसूत्रमप्यतिस्पष्टत्वात्सूत्रसिद्धमेव, इयांस्तु विशेषो-यावत्ते न म्रियन्ते तावत्प्रत्याख्यानस्य विषयस्त्रसेषुवासमुत्पन्नाः सन्तो, विषयतांप्रतिपद्यन्तइति ।पुनरपि श्रावकाणामेव दिग्व्रतसमाश्रयणतःप्रत्याख्यानस्यविषयं दर्शयितुमाह-'भगवंचन मित्यादिसुगमंयावत् 'वयंणंसामाइयं देसावकासियं"ति देशेऽवकाशोदेशावकाशः तत्रभवंदेशावकाशिकं, इदमुक्तंभवति-पूर्वगृहीतस्य दिग्रवतस्य योजनशतादिकस्ययप्रतिदिनं संक्षिप्ततरंयोजनगव्यतिप्तनगृहमर्यादादिकंपरिमाणं विधत्ते तद्देशावकाशिकमित्युच्यते।
तदेव दर्शयति-'पुरत्था पायीण मित्यादि, 'पुरस्थि' त्ति प्रातरेव प्रत्याख्यानावसरे
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org