________________
४५२
सूत्रकृताङ्ग सूत्रम् २/७/-/८०१ थावराविधुचंति थावरा थावरसंभारकडेणंकम्मुणा नामंचणंअब्भुवगयंभवइ, थावराउयं चणं पलिक्खीणंभवइ, थावरकायट्टिइया तेतओआउयं विष्पजहंतितओआउयं विप्पजहित्ता भुजो परलोइयत्ताए पञ्चायति ते पाणावि वुश्चंति, ते तसावि वुच्चंति, ते महाकाया ते चिरट्ठिइया
वृ.'त्रसाअपि द्वीन्द्रियादयोऽपित्रसाइत्युच्यन्तेचत्रसाःत्रससंभारकृतेन कर्मणाभवन्ति, संभारो नामावश्यंतया कर्मणो विपाकानुभवेन वेदनं, तच्चेह त्रसनाम प्रत्येकनामेत्यादिकं नामकर्माभ्युपगतंभवति, त्रसत्वेन यत्परिबद्धमायुष्कं तद्यदोदयप्राप्तंभवति, तदात्रससंभारकृतेन कर्मणा वसा इति व्यपदिश्यन्ते, न तदा कथञ्चित्स्थावरत्वव्यपदेश यदा च तदायुः परिक्षीणं भवति, णमिति वाक्यालङ्कारे, त्रसकायस्थितिकंचकर्मयदा परिक्षीणंभवति, तच्च जघन्यतोऽन्तमुहूर्तमुत्कृष्टतःसातिरेकसहस्रद्वयसागरो पमपरिमाणं, तदा ततस्त्रसकायस्थितेरभावात्तदायुष्कं ते परित्यजन्ति, अपराण्यपि तत्सहचरितानि कर्माणि परित्यज्य स्थावरत्वेन प्रत्यायान्ति, स्थावरा अपिस्थावरसंभारकृतेन कर्मणातत्रोत्पद्यन्ते,स्थावरादिनामचतत्राभ्युपगतं भवति, अपराण्यपि तत्सहचरितानि सर्वात्मना त्रसत्वंपरित्यज्य स्थावरत्वेनोदयं यान्ति, इति, एवंच व्यवस्थिते कथं स्थावरकायं व्यापादयतो गृहीतत्रसकायप्राणातिपातनिवृत्तेः श्रावकस्य व्रतभङ्ग इति? ।
किंचान्यत्-'थावराउयं च ण'मित्यादि, यदा तदपि स्थावरायुष्कं परिक्षीणं भवति तथा स्थावरकायस्थितिश्च, सा जघन्यतोऽन्तर्मुहूर्तमुत्कृष्टतोऽनन्तकालमसंख्येयाः पुद्गलपरावर्ता इति, ततस्तत्कायस्थितेरभावात्तदायुष्कंपरित्यज्य 'भूयः' पुनरपिपारलौकिकत्वेन स्थावरकायस्थितेरभावात्त्रसत्वेनसामा प्रत्यायान्ति, तेषांच सानामन्वर्थिकान्यभिधानान्यभिधित्सुराह'तपाणावी' त्यादि, तेत्रससंभारकृतेन कर्मणा समुत्पन्नाःसन्तः सामान्यसंज्ञयाप्राणाअप्युच्यन्ते, तथा विशेषतः 'त्रसभयचलनयो'रितिधात्वर्थानुगमाद्भयचलनाभ्यामुपपेतास्त्रसा अप्युच्यन्ते, तथा महान् कायो येषां ते महाकायाः योजनलक्षप्रमाणशरीरविकुर्वणात्, तथा चिरस्थितिका अप्युच्यन्ते, भवस्थित्यपेक्षया त्रयस्त्रिंशत्सागरोपमायुष्कसद्भावात्, ततस्त्रसपर्यायव्यवस्थितानामेव प्रत्याख्यानं तेन गृहीतं, न तु स्थावरकायत्वेन व्यवस्थितनामपीति।
यस्तु नागरकदृष्टान्तो भवतोपन्यस्तः असावपि दृष्टान्तदान्तिकयोरसाम्यात्केवलं भवतोऽनुपासितगुरुकुलवासित्वमाविष्करोति, तथाहि-नगरधर्मैयुक्तो नागरिकः स च मया न हन्तव्य इति प्रतिज्ञां गृहीत्वा यदा तमेव व्यापादयति बहिःस्थितं पर्यायापन्नं तदा तस्य किल व्रतभङ्ग इति भवतः पक्ष इति, स च न घटते, यतो यो हि नगरधर्मरुपेतः स बहिःस्थोऽपि नागरिकएव, अतःपर्यायापन इत्येतद्विशेषणंनोपपद्यते, अथ सामस्त्येन परित्यज्यनगरधर्मानसी वर्ततेअतस्तमेवेत्येतद्विशेषणंनोपपद्यते, तदेवमत्र त्रसःसर्वात्मना त्रसत्वपरित्यज्य यदास्थावरः समुत्पद्यते तदा पूर्वपर्यायपरित्यागादपरपर्यायापत्नत्वात्रस एवासौ न भवति, तद्यथा-नागरिकः पल्ल्यां प्रविष्टस्तद्धर्मोपेतत्वात्पूर्वधर्मपरित्यागाच्च नागरिक एवासौ न भवतीति ।
पुनरप्यन्यथोदकः पूर्वपक्षमारचयितुमाह
मू. (८०२) सवायं उदए पेढालपुत्ते भयवंगोयमंएवं वयासी-आउसंतो गोयमा! नत्थि णं से केइ परियाए जण्णं समणोवासगस्स एगपाणातिवायविरएवि दंडे निक्खित्ते, कस्स णं तं हेउं ?, संसारिया खलु पाणा, थावरावि पाणा तसत्ताए पञ्चायंति, तसावि पाणा थावरत्ताए पञ्चायंति, थावरकायाओविप्पमुच्चमाणा सव्वेतसकायंसिउववजंति, तसकायाओविप्पमुचमाणा सब्वे थावरकार्यसि उववजंति, तेसिं च णं थावरकायंसि उववन्नाणं ठाणमेयं धत्तं।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org