________________
श्रुतस्कन्धः -२, अध्ययनं-७,
४५१
प्रवृत्ते यः कश्चित्पुरुषः समुपलभ्यतेनगरमध्ये तस्याविज्ञप्तिकः शरीरनिग्रहः क्रियत इति, एवंच व्यवस्थितेसत्येकस्य वणिजःषट्पुत्राः,तेचकौमुदीदिनेक्रयविक्रयसंव्यवहारव्यग्रतयातावस्थिता यावत्सविताऽस्तमुपगतः।
तदनन्तरमेव स्थगितानिचनगरद्वाराणि, तेषांच तत्कालात्ययान्न निर्गमनमभूत्, ततस्ते भयसंभ्रान्ता नगरमध्य एवात्मानंगोपयित्वा स्थिताः, ततो निष्क्रान्ते कौमुदीप्रचारे राज्ञाऽऽरक्षिकाः समाहूयादिष्टाः-यथा सम्यक् निरुपयत यूयं नात्र नगरे कौमुदीचारे कश्चित्पुरुषो व्यवस्थित ? इति, तैरप्यारक्षिकैः सम्यग् निरुपयद्भिरुपलभ्य षट्वणिकपुत्रवृत्तान्तो यथावस्थित एव राज्ञे निवेदितः, राज्ञाऽप्याज्ञाभङ्गकुपितेन तेषांषण्णामपि वधः समादिष्टः, ततस्तत्पितापुत्रवधसमाकर्णनगुरुशोकविह्वलोऽकाण्डापतितकुलक्षयोदभ्रान्तलोचनः किंकर्तव्यतामूढतया गणितविधेयाविधेयविशेषो राजानमुपस्थितोऽवादीच्च गद्गदया गिरा-यथा मा कृथा देवास्माकं कुलक्षयं, गृह्यतामिदमस्मदीयं कुलक्रमायातं स्वभुजोपार्जितं प्रभूतं द्रविणजातं, मुच्यतां मुच्यताममी षट् पुत्राः, क्रियतामयमस्माकमनुग्रह इति । ___एवमभिहितो राजा तद्वचनमनाकर्ण्य पुनरपि सविशेषमादिदेश, असावपिवणिक्सर्ववधाशङ्की सर्वमोचनानमिप्रायं राजानमवेत्यपञ्चानांमोचनंयाचितवान्, तानप्यसौ राजानमोक्तुमना इत्येवमभिगम्य चतुर्मोचनकृते सादरं विज्ञप्तवान् तं, तथापि राजा तमनाईत्य कुपितवदन एव स्थितः, ततस्त्रयाणां विमोचने कृतादरस्तत्पिताऽभूत्,तानप्यमुञ्चन्तं राजानं ज्ञात्वा गणितस्वापराधो द्वयोर्मोचनं पार्थितवान्, तत्राप्यवज्ञाप्रधानं नृपतिमवगम्य ततः पौरमहत्तमसमेतो राजानमेवं विज्ञप्तवान्, तद्यथादेवाकाण्ड एवास्माकंकुलक्षयः समुपस्थितःस तस्माच्च भवन्तएवत्राणायलम्, अतः क्रियतामेकमपुत्रविमोचने नप्रसाद इति भणित्वा पादयोः सपौरमहत्तमः पतितो, राज्ञापि संजातानुकम्पेन मुक्तस्तदेको ज्येष्ठपुत्र इति । तदेवमस्य दृष्टान्स्य दार्टान्तिकयोजनेयं, तद्यथा
साधुनाऽभ्युपगतसम्यग्दर्शनमवगम्य श्रावकमखिलप्राणातिपातविरतिग्रहणं प्रति चोदितोऽप्यशक्तितयायदान सर्वप्राणातिपातविरतिंप्रतिपद्यते, यथाऽसौ राजा वणिजाऽत्यर्थं विज्ञापितोऽपि न षडपि पुत्रान् मुमुक्षति, नापि पञ्चचतुस्त्रिद्विसंख्यान पुत्रानिति, तत एकविमोक्षणेनात्मानं कुतार्थमिव मन्यमानः स्थितोऽसौ, एवं साधोरपि श्रावकस्य यथाशक्ति व्रतं गृह्णतस्तदनुरूपमेवाणुव्रतदानमविरुद्धमिति, यथाचतस्य वणिजोनशेषपुत्रवधानुमतिशोऽप्यस्ति, एवं साधोरपि न शेषप्राणिवधानुमतिप्रत्ययजनितः कर्मबन्धो भवति, किं तर्हि ?, यदेव व्रतं गृहीत्वा यानेव सत्त्वान् बादरान् संकल्पजप्राणिवधनिवृत्त्या रक्षति तन्निमित्तः कुशलानुबन्ध एवेत्येत्सूत्रेणैव दर्शयितुमाह
तसेहि मित्यादि, त्रस्यन्तीति त्रसाः-द्वीन्द्रियादयस्तेभ्यः सकाशानिधाय निहाय वा परित्यज्येतियावत्कं ?-दण्डयतीति दण्डस्तंपरित्यज्य,त्रसेषुप्राणातिपातविरतिंगृहीत्वेत्यर्थः, 'तदपि च' त्रसप्राणातिपातविरमणव्रतं 'तेषां' दशविरतनां कुशलहेतुत्वात्कुशलमेव भवति ॥ यच्च प्रागभिहितं, तद्यथा-तमेवत्रसंस्थावरपर्यायापन्नं नागरकमिव बहिस्थं व्यापादयतोवश्यंभावी व्रतभङ्ग इत्येतत् परिहर्तुकाम आह
मू. (८०१) तसावि वुच्चंतितसा तससंभारकडेणं कम्मुणा नामंचणंअब्भुवगयं भवइ, तसाउयं च णं पलिक्खीणं भवइ, तसकायद्विइया ते तओ आउयं विप्पजहंति, ते तओ आउयं विप्पजहित्ता थावरत्तए पञ्चायति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org