________________
श्रुतस्कन्धः - १, अध्ययनं १, उद्देशक :- २
-
४१
वा बन्धनं बन्धकत्वाद्बन्धमित्युच्यते, तदेवंभूतं कूटपाशादिकं बन्धनं यद्यसावुपरि प्लवेत् तदधस्तादतिक्रम्योपरि गच्छेत्, तस्य वध्यार्देर्बन्धनस्याधी (वा) गच्छेत्, तत एवं क्रियमाणेऽसौ मृगः पदे पाशः पदपाशी वागुरादिबन्धनं तस्मान्मुच्येत । यदिवा पदं कूटं पाशः प्रतीतस्ताभ्यां मुच्येत, कचित्पदापाशादीति पठ्यते, आदिग्रहणाद्वधताडनमारणादिकाः क्रिया गृह्यन्ते, एवं सन्तमपि तमनर्थपरिहरणोपायं 'मन्दो' जडोऽज्ञानावृतो न 'देहती'ति न पश्यतीति ।। कूटपाशादिकं चापश्यन् यामवस्थामवाप्नोति तां दर्शयितुमाह
पू. (३६)
अहिअप्पाऽहियपन्नाणे, विसमंतेनुवागते । स बद्धे पयपासेणं, तत्थ घायं नियच्छइ ॥
वृ. स मृगोऽहितात्मा तथाऽहितं प्रज्ञानं बोधो यस्य सोऽहितप्रज्ञानः, स चाहितप्रज्ञानः सन् 'विषमान्तेन' कूटपाशादियुक्तेन प्रदेशेनोपागतः, यदिवा-विषमान्ते- कूटपाशादिके आत्मानमनुपातयेत्, तत्र चासौ पतितो बद्धश्च तेन कूटादिना पदपाशादीननर्थबहुलानवस्थाविशेषान् प्राप्तः 'तत्र' बन्धने 'घातं ' विनाशं नियच्छति' प्राप्नोतीति एवं दृष्टान्तं प्रदर्श्य सूत्रकार एव दाष्टन्तिकमज्ञानविपाकं दर्शयितुमाह
मू. (३७)
एवं तु समणा एगे, मिच्छदिट्ठी अनारिआ । असंकिआई संकंति, संकिआई असंकिणो ।।
वृ. एवमिति यथा मृगा अज्ञानावृता अनर्थमनेकशः प्राप्नुवन्ति, तुरवधारणे, एवमेव ‘श्रमणाः’ केचित् पाखण्डविशेषाश्रिताः एकेन सर्वे, किंभूतास्ते इति दर्शयति-मिथ्या-विपरीता ष्टिर्येषामज्ञान- वादिनां नियतिवादिनां वा ते मिथ्यादृष्टयः, तथा 'अनार्या' आराद्याताः सर्वहेयधर्मेभ्य इति आर्या न आर्या अनार्या अज्ञानवृतत्वादसदनुष्ठायिन इतियावत् ।
अज्ञानावृतत्वं च दर्शयति-‘अशङ्कितानि' अशङ्कनीयानि सुधर्मानुष्ठानादीनि शङ्कमानाः, तथा 'शङ्कनीयानि' अपायबहुलानि एकान्तपक्षसमाश्रयणानि, अशङ्किनो मृगा इव मूढचेतसस्तत्तदाऽऽरभन्ते तद्यदनर्थाय संपद्यन्त इति शङ्कनीयाशङ्कनीयविपर्यासमाह
मू. (३८)
धम्मपन्नवणा जा सा, तं तु संकंति मूढगा ।
आरंभाई न संकति, अविअत्ता अकोविआ ।।
वृ. धर्मस्य-क्षान्त्यादिदशलक्षणोपेतस्य या प्रज्ञापना-प्ररूपणा, 'तां तु' इति तामेव 'शङ्कन्ते' असद्धर्मप्ररूपणेयमित्येवमध्यवस्यन्ति, ये पुनः पापोपादानभूताः समारम्भास्तान्नाशङ्कन्ते, किमिति ? यतः ‘अव्यक्ता' मुग्धाः- सहजसद्विवेकविकलाः, तथा 'अकोविदा' अपण्डिताःसच्छास्त्र्ना-वबोधरहिता इति । ते च अज्ञानावृता यन्नाप्नुवन्ति तदर्शनायाहसव्वप्पगं विउक्कस्सं, सव्वं नूमं विहूणिआ ।
मू. (३९)
अप्पत्तिअं अकम्पंसे, एयमट्टं मिगे चुए ।।
वृ. सर्वत्राप्यात्मा यस्यासौ सर्वात्मको-लोभस्तं विधूयेति सम्बन्धः, तथा विविध उत्कर्षो गर्वो व्युत्कर्षो-मान इत्यर्थ, तथा 'नूमं' ति माया तां विधूय, तथा 'अप्पत्तियं' ति क्रोधं विधूय, कषायविधून- नेन च मोहनीयविधूननभावेदितं भवति, तदपगमाच्चाशेषकर्माभावः प्रतिपादितो भवतीत्याह ।
'अकर्माश' इति न विद्यते कर्माशोऽस्येत्यकर्मांशः, स चाकर्माशो विशिष्टज्ञानाद्भवति
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International