________________
सूत्रकृताङ्ग सूत्रम् १/१/२/३९
नाज्ञानादित्येव दर्शयति- 'एनमर्थं' कर्माभावलक्षणं मृग इव मृगः - अज्ञानी 'चुए 'त्ति त्यजेत्, विभक्तिपरिणामेन वा अस्मादेवंभूतादर्थात् च्यवेत् भ्रश्येदिति भूयोऽप्यज्ञानवादिनां दोषाभिधित्सयाऽऽह
मू. (४०)
४२
जे एयं नाभिजाणंति, मिच्छदिट्ठी अनारिया । मिगा वा पासबद्धा ते, घायमेसंति नंतसो ॥
वृ. 'ये' अज्ञानपक्षं समाश्रिता 'एनं' कर्मक्षपणोपायं न जानन्ति' आत्मीयासद्ग्रहग्रहग्रस्ता मिथ्यादृष्टयोऽनार्यास्ते मृगा इव पाश बद्धा "घातं विनाशम् 'एष्यन्ति' यास्यन्त्यन्वेषयन्ति वा, तद्योग्गक्रियानुष्ठानात्, 'अनंतशः' अविच्छेदेनेत्यज्ञान्वादिनो गताः इतानीमज्ञानवादिनां दूषणोद्विभावविषया स्ववाग्यन्त्रिता वादिनो न चलिष्यन्तीति तन्मताविष्करणायाहमाहणा समणा एगे, सव्वे नाणं सयं वए । सव्वलोगेऽवि जे पाणा, न ते जाणंति किंचण ।
मू. (४१)
वृ. एके केचन ब्राह्मणविशेषाः तथा 'श्रमणाः' परिव्राजकविशेषाः सर्वेऽप्येते ज्ञायतेऽनेनेति ज्ञानं हेयोपादेयार्थाऽऽविर्भावकं परस्परविरोधेन व्यवस्थितं 'स्वकम्' आत्मीयं वदन्ति, न च तानि ज्ञानानि परस्परविरोधेन प्रवृत्तत्वात्सत्यानि, तस्मादज्ञानमेव श्रेयः, किं ज्ञानपरिकल्पनयेति, एतदेव दर्शयति । सर्वस्मिन्नपि लोके ये 'प्राणाः' प्राणिनो न ते किञ्चिनापि सम्यगपेतवाचंच्यं 'जानन्ती’ति विदन्तीति ।। यदपि तेषां गुरुपारम्पर्येण ज्ञानमायातं तदपि छिन्नमूलत्वादवितथं न भवतीति ध्ष्टान्तद्वारेण दर्शयितुमाह
मू. (४२)
मिलक्खू अमिलक्खुस्स, जहा वृत्ताणुभासए । न हेउं से विजाणाइ, भासिअं तऽनुभासए ॥
वृ. यथा ' म्लेच्छ' आर्यभाषानभिज्ञः 'अम्लेच्छस्य' आर्यस्य ग्लेच्छभाषानभिज्ञस्य यद्भाषितं तद् 'अनुभाषते' अनुवदति केवलं, न सम्यक् तदभिप्रायं वेत्ति, यथाऽनया विवक्षयाऽनेन भाषितमिति, नच 'हेतुं' निमित्तं निश्चयेनासौ म्लेच्छस्तद्भाषितस्य जानाति, केवलं परमार्थशून्यं तद्भाषितमेवानुभाषत इति ॥ एवं दृष्टान्तं प्रदर्श्य दान्तिकं योजयितुमाहएवमन्नाणिया नाणं, वयंतावि सयं सयं ।
मू. (४३)
निच्छयत्थं न याणंति, मिलक्खुव्व अबोहिया ॥
वृ. यथा म्लेच्छः अम्लेच्छस्य परमार्थमजानानः केवलं तद्भाषितमनुभाषते, तथा ‘अज्ञानिकाः’ सम्यग्ज्ञानरहिताः श्रमणा ब्राह्मणा वदन्तोऽपि स्वीयं स्वीयं ज्ञानं प्रमाणत्वेन परस्परविरुद्धार्थभाषणात् निश्चयार्थ न जानन्ति, तथाहि ते स्वकीयं तीर्थकरं सर्वज्ञत्वेन निर्द्धार्य तदुपदेशेन क्रियासु प्रवर्तेरन्, न च सर्वज्ञविवक्षा अर्वाग्दर्शिना ग्रहीतुं शक्यते, 'नासर्वज्ञ सर्वज्ञं जानातीति न्यायात्, तथा चोक्तम्
119 11
“सर्वज्ञोऽसाविति ह्येतत्तत्कालेऽपि बुभुत्सुभिः । तज्ज्ञानज्ञेयविज्ञानरहितैर्गभ्यते कथम् ? ॥”
एवं परचेतोवृत्तीनां दुरन्वयत्वादुपदेष्टुरपि यथावस्थितविवक्षया ग्रहणासंभवान्निश्चयार्थमजानाना म्लेच्छवदपरोक्तमनुभाषन्त एव, 'अबोधिका' बोधरहिताः केवलमिति, अतोऽज्ञानमेव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org