SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्ग सूत्रम् १/१/२/३२ पुनस्ते इति दर्शयति-युक्तिकदम्बकाबहिस्तिष्ठन्तीति पार्श्वस्थाःपरलोकक्रियापार्श्वस्था वा, नियतिपक्षसमाश्रयणात्परलोकक्रियावैयर्थ्य, यदिवा-पाश इव पाशः कर्मबन्धनं, तच्चेह युक्तिविकलनियतिवादप्ररूपणं तत्र स्थिताः पार्श्वस्थाः, अन्येऽप्येकान्तवादिनः कालेश्वरादिकारणिकाः पार्श्वस्याः पाशस्था वा द्रष्टव्या इत्यादि । 'ते' पुनर्नियतिवादमाश्रित्यापि, भूयो विविधं विशेषेण वा 'प्रगल्भिता' धाष्टोपगताः परलोकसाधकासु क्रियासु प्रवर्तते, धाष्टर्याश्रयणं तु तेषां नियतिवादाश्रयणे सत्येव पुनरपि तत्प्रतिपन्थिनीषु क्रियासुप्रवर्तनादिति, ते पुनः ‘एवमप्युपस्थिताः' परलोकसाधकासु क्रियासु प्रवृत्ता अपि सन्तो ‘नात्मदुःखविमोक्षकाः' असभ्यकप्रवृत्तत्वान्नात्मानं दुःखाद्विमोचयन्ति ।गता नियतिवादिनः साम्प्रतमज्ञानिमतं दूषयितुं दृष्टान्तमाह-- मू. (३३) जविणो मिगा जहा संता, पिरताणेण वजिआ। असंकियाइं संकंति, संकिआइं असंकिणो॥ वृ.यथा-'जविनो'वेगवन्तः सन्तो ‘मृगा' आरण्याः पशवः परि-समन्तात्त्रायते-रक्षतीति परित्राणं तेन वर्जिता-रहिताः, परित्राणविकला इत्यर्थः । यदिवा-परितानं-वागुरादिबन्धनं तेन तर्जिता-भयंग्राहिताः सन्तो भयोद्धान्तलोचनाः सभाकुलीभूतान्तःकरणाः सम्यगविवेकविकला 'शङ्काहा॑णि' शंका संजातायेषुयोग्यत्वात्तानि शङ्कितानि-शङ्कायोग्यानि-वागुरादीनितान्यशङ्किनः तेषु शङ्गामकुर्वाणाः, “तत्र तत्र' पाशादिके संपर्ययन्त इत्युत्तरेण सम्बन्धः पुनरप्येतदेवातिमोहाविष्करणायाहमू. (३४) परियाणिआणि संकेता, पासिताणि असंकिणो । अन्नाणभयसंविग्गा, संपलिंति तहिं तहिं । वृ. परित्रायते इति परित्राणं तज्जातं येषु तानि तथा, परित्राणयुक्तान्येव शङ्कमाना अतिमूढत्वाद्विपर्यस्तबुद्धयः, त्रातर्यपि भयमुप्रेक्षमाणाः, तथा 'पाशितानि' पाशोपेतानि-अनर्थापादकानि 'अशङ्कःन' तेषु शङ्कामकुर्वाणाः सन्तः अज्ञानेन भयेन च ‘संविग्ग'त्ति सम्यगव्याप्तावशीकृताः, शङ्कनीयमशङ्कनीयवातथा परित्राणोपेतंपाशाद्यनर्थोपितंवा सम्यग्विवेकेनाजानानाः 'तत्र तत्र' अनर्थबहुले पाशवागुरादिके बन्धने। ___ 'संपर्ययन्ते' सम्-एकीभावेन परि-समन्तादयन्ते यान्तिवा,गच्छन्तीत्युक्तं भवति, तदेवं दृष्टान्तंप्रसाध्य नियतिवादाद्येकान्ताज्ञानवादिनो दार्शन्तिकत्वेनाऽऽयोज्याः, यतस्तेऽप्येकान्तवादिनोऽज्ञानिकाः त्राणभूतानेकान्तवादवर्जिताः सर्वदोषविनिर्मुक्तं कालेश्वरादिकारणवादाभ्युपगमेनानाशङ्कनीयमनेकान्तवादिनोऽज्ञानिकाः त्राणभूतानेकान्तवादवर्जिताः सर्वदोषविनिर्मुक्तं कालेश्वरादिकारणवादाभ्युपगमेनानाशङ्कनीयमनेकान्तवादमाशङ्कन्ते शङ्कनीयं च नियत्यज्ञानवादमेकान्तं न शङ्कन्ते, 'ते' एवंभूताः परित्राणाहेऽप्यनेकान्तवादे शङ्कां कुर्वाणा युक्त्याऽघटमानकमनर्थबहुलमेकान्तवादमशङ्कनीयत्वेन् गृहन्तोऽज्ञानावृतास्तेषु तेषु कर्मबन्धस्थानेषु सपर्ययन्तइति पूर्वदोषैरतुष्यन्नाचार्यो दोषान्तरदित्सया पुनरपि प्राक्तनदृष्टान्तमधिकृत्याऽऽहमू. (३५) अहतं पवेज्ज बज्झं, अहे बन्झस्स वा वए। . मुच्चेज पयपासाओ, तंतु मंदे ण देहए। वृ. 'अथ' अनन्तरमसौ मृगस्तत् ‘बज्झमिति' बद्ध-बन्धनाकारेण व्यवस्थितं वागुरादिकं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy