________________
श्रुतस्कन्धः - २, अध्ययनं - ६,
४२३
यच्चतत्रावलितेन तन्तुना बद्धस्य मम प्रतिमोचनमिति । स्नेहतन्तवो हि जन्तूनां दुरुच्छेदा भवन्तीति भावः । गतमार्द्रककथानकम्, नामनिष्पन्ननिक्षेपश्च । तदनन्तरं सूत्रानुगमेऽ स्खलितादिगुणोपेतं सूत्रमुच्चारयितव्यं तच्चेदम्
मू. (७३८)
पुराकडं अद्द ! इमं सुणेह, मेगंतयारी समणे पुरासी । से भिक्खुणो उवणेत्ता अनेगे, आइक्खतिहि पुढो वित्थरे । वृ. यथा गोशालकेन सार्द्धं वादोऽभूदार्द्रककुमारस्य तथाऽनेनाध्ययनेनोपदिश्यते, तं च राजपुत्रकमार्द्रककुमारं प्रत्येकबुद्धं भगवत्समीपमागच्छन्तं गोशालकोऽब्रवीत्-यथा हे आर्द्रक ! यदहं ब्रवीमि तच्छृणु - 'पुरा' पूर्वं यदनेन भवत्तीर्थकृता कृतं, तच्चेदमिति दर्शयति-एकान्तेजनरहितेप्रदेशे चरितुं शीलमस्येत्येकान्तचारी, तथा श्राम्यतीति श्रमणः पुराऽऽसीत्तपश्चरणोद्युक्तः, साम्प्रतं तूग्रैस्तपश्चरणविशेषैर्निर्भर्त्वितो मां विहाय देवादिमध्यगतोऽसौ धर्मं किल कथयति, तथा 'बहून्' भिक्षून् 'उपनीय' प्रभूतशिष्यपरिकरं कृत्वा भवद्विधानां च मुग्धजनानामिदानीं पृथक् पृथग्विस्तरेणाचष्टे धर्ममिति शेषः ।
मू. (७३९) साऽऽजीविया पट्ठविताऽथिरेणं, सभागओ गणओ भिक्खुमज्झे आइक्खमाणो बहुजन्नमत्थं, न संधयाती अवरेण पुव्वं ।
बृ. पुनरपि गोशालक एव 'साजीविए' त्याद्याह, येयं बहुजनमध्यगतेन धर्मदेशना युष्मद्गुरुणाऽऽरब्धाऽऽजीविका प्रकर्षेण स्थापिता प्रस्थापिता, एकाकी विहरंल्लोकिकैः परिभूयत इतिमत्वा लोकपङ्किनिमित्तं महान् परिकरः कृतः, तथा चोच्यते ।
119 11
“छत्रं छात्रं पात्रं वस्त्रं यष्टिं च चर्चयति भिक्षुः । वेषेण परिकरेण च कियताऽपि विना न भिक्षापि ॥
तदनेन दम्भप्रधानेन जीविकार्थमिदरभारब्धं । किंभूतेन ? - अस्थिरेण, पूर्वं ह्ययं मया सार्द्धमेकाक्यन्तप्रान्ताशनेन शून्यारामदेवकुलादी वृत्तिं कल्पितवात् न च तथाभूतमनुष्ठानं सिकताकवलवन्निरास्वादं यावज्जीवं कर्तुमलम् अतो मां विहायायं बहून् शिष्यान् प्रतार्यैवंभूतेन स्फटाटोपेन विहरतीत्यतः कर्तव्ये 'अस्थिरः' चपलः, पूर्वचर्यापरित्यागेनापरकल्पसमाश्रयात्, एतदेव दर्शयति ।
'सभायां गतः' सदेवमनुजपर्षदि व्यवस्थितो 'गणओ'त्ति गणशो बहुशोऽनेकश इतियावत् भिक्षूणां मध्ये 'गतो' व्यवस्थित आचक्षाणो बहुजनेभ्यो हितः अर्थो बहुजन्योऽर्थस्तमर्थं बहुजनहितं कथयन् विहरति, एतच्चास्यानुष्ठानं पूर्वापरेण न संधत्ते, तथाहि यदि साम्प्रतीयं वृत्तं प्राकारत्रयसिंहासनाशोकवृक्षभामण्डलचामरादिकं मोक्षाङ्गमभविष्यत्ततो या प्राक्तन्येकचर्या क्लेशबहुला - नेन कृता सा क्लेशाय केवलमस्येति, यदि सा कर्मनिर्जरणहेतुका परमार्थभूता ततः साम्प्रतावस्था परप्रतारकत्वाद्दम्भकल्पेत्यतः पूर्वोत्तरयोरनुष्ठानयोः -मौनव्रतिकधर्मदेशनारूपयोः परस्परतो विरोध इति । मू. (७४०) पुव्विं च इण्हि च अनागतं वा एगंतमेव पडिसंधयाति । एतमेवं अदुवा विइण्हि, दोऽवण्णमन्नं न समेति जम्हा ।
वृ. अपिच यद्येकान्तचारित्वमेव शोभनं पूर्वमाश्रितत्वात् ततः सर्वदाऽन्यनिरपेक्षैस्तदेव कर्तव्यम्, अथा चेदं साम्प्रतं महापरिवारवृतं साधुं मन्यसे ततस्तदेवादावप्याचरणीयमासीद्, अपिच द्वे अप्येते छायातपवदत्यन्तविरोधिनी वृत्ते नैकत्र समवायं गच्छतः, तथा यदि मौनेन
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International