________________
सूत्रकृताङ्ग सूत्रम् २/६/-/ ७३८ / नि. [२०० ]
रक्षयितुमारेभे, आर्द्रककुमारोऽप्यश्ववाहनिकया विनिर्गतः प्रधानाश्वेन प्रपलायितः ।
ततश्च प्रव्रज्या गृह्णन् देवतया सोपसर्गं भवतोऽद्यापीति भणित्वा निवारितोऽप्यसावार्द्रको राज्यं तावन्न करोति कोऽन्यो मां विहाय प्रव्रज्यां ग्रहीष्यतीत्यभिसंधाय तां देवतामवगणय्य प्रव्रजितः। विहरन्नन्यदाऽन्यतरप्रतिमाप्रतिपन्नः कायोत्सर्गव्यवस्थितो वसन्तपुरे तया देवलोकच्युतया श्रेष्ठिदुहित्राऽपरदारिकामध्यगतया रमन्त्यै मम भर्तेत्येवमुक्ते सत्यनन्तरमेव तत्सन्निहितदेवतयाऽर्द्धत्रयोदशकोटिपरिमाणा शोभनं वृतमनयेति भणित्वा हिरण्यवृष्टिर्मुक्ता, तांच हिरण्यवृष्टिं राजा गृह्णन् देवतया सर्पाद्युत्थानतो विधृतोऽभिहितं च तया यथा- एतद्धिरण्यजातमस्या दारिकायाः नान्यस्य कस्यचिदित्यतस्तत्पित्रा सर्वं संगोपितम् ।
आर्द्रककुमारोऽप्यनुकूलोपसर्ग इतिमत्वाऽऽश्वेवान्यत्र गतः, गच्छति च काले दारिकाया वरकाः समागच्छन्ति, पृष्टौ च पितरौ तया - किमेषामागमनप्रयोजनं ?, कथितं च ताभ्यां यथैते तव वरका इति, ततस्तयोक्तं तात ! सकृत्कन्याः प्रदीयन्ते नानेकशः, दत्ता चाहं तस्मै यत्सम्बन्धि हिरण्यजातं भवद्भिर्गृहीतं, ततः सा पित्राऽभाणि किं त्वं तं जानीषे ?
तयोक्तं- तत्पादगताभिज्ञानदर्शनतो जानामीति, तदेवमसौ तत्परिज्ञानार्थं सर्वस्य भिक्षार्थिनो भिक्षां दापयितुं निरूपिता, ततोद्वादशभिर्वषैर्गतैः कदाचिच्चासौ भवितव्यतानियोगेन तत्रैव विहरन् समायातः, प्रत्यभिज्ञानतश्च तया तत्पादचिह्नदर्शनतः, ततोऽसौ दारिका सपरिवारा तत्पृष्ठतो जगाम, आर्द्रककुमारोऽपि देवतावचनं स्मरंस्तथाविधकर्मोदयाच्चावश्यंभाविभवितव्यतानियोगेन च प्रतिभग्नस्तया सार्द्धं भुनक्ति भोगान्, पुत्रश्चोत्पन्नः ।
पुनरार्द्रककुमारेणासावभिहिता-साम्प्रतं ते पुत्रो द्वितीयः अहं च स्वकार्यमनुतिष्ठामि, तया सुतव्युत्पादनार्थं कर्पासकर्त्तनमारब्धं, पृष्टा चासौ बालकेन किमम्बैतद्भवत्या प्रारब्धमितरजनाचरितं ?, ततोऽसाववोचद-यथा तव पिता प्रव्रजितुकामः त्वं चाद्यापि शिशुरसमर्थोऽर्थार्जने ततोऽहमनाथास्त्रीजनोचितेनानिन्येन विधिनाऽऽत्मानं भवन्तं च किल पालयिष्यामीत्येतदालोच्येदमा-रब्धमिति ।
तेनापि बालकेनोत्पन्नप्रतिभया तत्कर्त्तितसूत्रेणैव कार्य मद्बद्धो यास्यतीति मन्मनभाषणोपविष्ट एवासौ पिता परिवेष्टितः तेनापि चिन्तितं यावन्तोऽमी बालककुतवेष्टनतन्तवस्तावन्त्येव वर्षाणि मया गृहे स्थातव्यमिति, निरूपिताश्च तन्तवो यावद् द्वादश तावन्त्येव वर्षाण्यसौ गृहवासे व्यवस्थितः, पूर्णेषु च द्वादशसु संवत्सरेषु गृहान्निर्गतः प्रव्रजितश्चेति । ततोऽसौ सूत्रार्थनिष्प न्नएकाकिविहारेण विहरन् राजगृहाभिमुखं प्रस्थितः, तदन्तराले च तद्रक्षणार्थं यानि प्राकृपित्रा निरूपितानी पञ्च राजपुत्रशतानि तस्मिन्श्वेन नष्टे राजभयाद्वैलक्ष्याच्च न राजान्तिकं जग्मुः तत्राटवीदुर्गे चीर्येण वृत्तिं कल्पितवन्तः, तैश्चासौ दृष्टः प्रत्यभिज्ञातश्च, ते च तेन पृष्टाः किमिति भवद्भिरेवंभूतं कर्माश्रितं ?, तैश्च सर्वं राजभयादिकं कथितम्, आर्द्रककुमारवचनाच्च संबुद्धाः प्रव्रजिताश्च । तथा राजगृहनगरप्रवेशे गोशालको हस्तितापसा ब्राह्मणाश्च वादे पराजिताः ।
४२२
तथाऽऽर्द्रककुमारदर्शनादेव हस्ती बन्धनाद्विमुक्तः, ते च हस्तितापसादय आर्द्रककुमारधर्मकथाक्षिप्ता जिनवीरसमवसरणे निष्क्रान्ताः । राज्ञा च विदितवृत्तान्तेन महाकुतूहलापूरितहृदयेन पृष्टो - भगवन् ! कथं त्वद्दर्शनतो हस्ती निरर्गलः संवृत्त इति ?, महान् भगवतः प्रभाव इत्येवमभिहितः सन्नार्द्रककुमारोऽब्रवीत् नवमगाथयोत्तरं ।
न दुष्करमेतद्यन्नरपाशैर्बद्धमत्तवारणस्य विमोचनं वने राजन् ! एतत्तु मे प्रतिभाति दुष्करं
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International