________________
४२४
सूत्रकृताङ्ग सूत्रम् २/६/-/७४० धर्मस्ततः किमियं महता प्रबन्धेन धर्मदेशना?, अथानयैव धर्मस्ततः किमिति पूर्वं मौनव्रतमनेनाललम्बे?, यस्मादेवंतस्मात्पूर्वोत्तरव्याहतिः। तदेवं गोशालकेन पर्यनुयुक्त आर्द्रककुमारः श्लोकपश्चार्द्धनोत्तरदानायाह -
___ 'पूर्वं पूर्वस्मिन्काले यन्मौनव्रतिकत्वंयाचैकचर्यातच्छद्मस्थत्वादघातिकर्मचतुष्टयक्षयार्थ, साम्प्रतं यन्महाजनपरिवृतस्य धर्मदेशनाविधानं तवाग्बद्धभवोपग्राहिकर्मचतुष्टयक्षपणोद्यतस्य विशेषतस्तीर्थकरनाम्नो वेदनार्थं अपरासांचौच्चैर्गोत्रशुभायु मादीनां शुभप्रकृतीनामिति।यदिवा पूर्वं साम्प्रतमनागते च काले रागद्वेषरहितत्वादेकत्वभावनानतिक्रमणाच्चैकत्वमेवानुपचरितं भगवानशेषजनहितं धर्म कथयन् प्रतिसंदधाति, न तस्य पूर्वोत्तरयोरवस्थयोराशंसारहितत्वाइँदोस्ति, अतो यदुच्यते भवता-पूर्वोत्तरयोरवस्थयोरसाङ्गत्यं तत प्लवत इति । मू. (७४१) समिच्च लोगं तसथावराणं, खेमंकरे समणे माहणे वा।
आइक्खमाणोवि सहस्समऽज्झे, एगंतयंसारयती तहच्चे। वृ. स्यादेतद्-धर्मदेशनया प्राणिनां कश्चिदुपकारो भवत्युत नेति?, भवतीत्याह-समिच्च लोय' मित्यादि, सम्यगयथावस्थितं 'लोकं षड्द्रव्यात्मकं मत्वा' अवगम्य केवलालोकेन परिच्छिद्य त्रस्यन्तीति त्रसाः-त्रसनामकर्मोदयाद्वीन्द्रियादयः, तथा तिष्ठन्तीतिस्थावराः-स्थावरनामकर्मोदयास्थावराः पृथिव्यादयस्तेषामुभयेषामपि जन्तूनां 'क्षेमं' शान्तिः रक्षा तत्करणशीलः क्षेमंकरः श्राम्यतीति श्रमणो-द्वादशप्रकारतपोनिष्टप्तदेहः, तथा मा हणत्तिप्रवृत्तिर्यस्यासौ माहनोब्राह्मणो वा स एवंभूतो निर्ममो' रागद्वेषरहितः प्राणिहितार्थं न लाभपूजाख्यात्यर्थं धर्ममाचक्षाणोऽपि प्राग्वत् छद्मस्थाव-स्थायां मौनव्रतिक इव वाक्संयत एव, उत्पन्नदिव्यज्ञानत्वाद्भाषागुणदोषविवेकज्ञतया भाषणेनैव गुणावाप्तेः, अनुत्पन्नदिव्यज्ञानस्य तुमौनव्रतिकत्वेनेति, तथा देवासुरनरतिर्यक्सहस्रमध्येऽपि व्यवस्थितः पङ्काधारपङ्कजवत्तद्दोषव्यासङ्गाभावान्ममत्वविरहादाशंसादोषविकलत्वादेकान्तमेवासौ 'सारयति' प्रख्यातिं नयति साधयतीतियावत्।
ननुचैकाकिपरिकरोपेतावस्थयोरस्ति विशेषः, प्रत्यक्षेणैवोपलभ्यमानत्वात्, सत्यम्, अस्ति विशेषो बाह्यतो न त्वान्तरतोऽपि, दर्शयति-तथा प्राग्वदर्चा-लेश्या शुक्लध्यानाख्या यस्य स तथार्चः, यदिवा अर्चा-शरीरंतच्च प्राग्वद्यस्यसतथार्चः, तथाहि-असावशोकाद्यपातिहापितोऽपि नोत्सेकंच्चयाति, नापिशरीरंसंस्कारायत्तंविदघाति, सहि भगवानात्यन्तिकरागद्वेषप्रहाणादेकाक्यपि जनपरिवृतोऽप्येकाकी, न तस्य तयोरवस्थयोः कश्चिद्विशेषोऽस्ति, तथा चोक्तम् -
“रागद्वेषौ विनिर्जित्य, किमरण्ये करिष्यसि? ।
अथ नो निर्जितावेतौ, किमरण्येकरिष्यसि?॥ इत्यतो बाह्यमनङ्गमान्तरमेव कषायजयादिकं प्रधानं कारणमिति स्थितम् । मू. (७४२) धम्मं कहतस्स उ नत्थि दोसो, खंतस्स दंतस्स जितिंदियस्स।
भासाय दोसे य वियज्जगस्स, गुणेय भासाय निसेगवस्स ।। वृ.अपगतरागद्वेषस्यप्रभाषमाणस्यापि दोषाभावंदर्शयितुमाह-तस्य भगवतोऽपगतघनघातिकलङ्कस्योत्पन्नसकलपदार्थावि विज्ञानस्य जगदभ्युद्धरणप्रवृत्तस्यैकान्तपरहितप्रवृत्तस्य स्वकार्यनिरपेक्षस्य धर्मं कथयतोऽपि तुशब्दस्यापिशब्दार्थत्वात् नास्ति कश्चिद्दोषः ।
किंभूतस्येत्याह-क्षान्तस्य शान्तिसंपन्नस्यानेन क्रोधनिरासमाह, तथा 'दान्तस्य'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org