SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः - २, अध्ययनं - ४, ३९७ तदेवं प्रतिज्ञाहेतुष्टान्तोपनयप्रतिपादकानि यथाविधि सूत्राणि विभागतः प्रदर्श्याधुना प्रतिज्ञाहेत्वोः पुनर्वचनं निगमनमित्येतत्प्रतिपादयितुमाह- 'जहा से वहए तस्स वा गाहावइस्स इत्यादि यावन्निच्चं पसढविउवायचित्तदंडे' त्ति, एतानि च प्रतिज्ञाहेतुदृष्टान्तोपनयनिगमनान्यर्थतः सूत्रः प्रदर्शितानि, प्रयोगस्त्वेवं द्रष्टव्यः- तत्ताप्रतिहतप्रत्याख्यातक्रिय आत्मा पानानुबन्धीति प्रतिज्ञा, सदा षड्जीवनिकायेषु प्रशठव्यतिपातचित्तदण्डत्वादिति हेतुः स्वपरावसरापेक्षितया कदाचिदव्यापादयन्नपि राजादिवधकवदिति दृष्टान्तः, यथाऽसौ वधपरिणामादनिवृत्तत्वा द्वध्यस्यामित्रभूतस्तथाऽऽत्माऽपि विरतेरभावात्सर्वेष्वपि सत्त्वेषु नित्यं प्रशठव्यतिपातचित्तदण्ड इत्युपनयः, यत एवं तस्मात्पापानुबन्धीति निगमनम् । एवं मृषावादादिष्वपि पञ्चावयवत्वं योजनीयमिति, केवलं मृषावादादिशब्दोच्चारणं विधेयं, तच्चानेन विधिना नित्यं प्रशठमिथ्यावादचित्तदण्डत्वात् तथा नित्यं प्रशठदत्तादानचित्तदण्डत्वादित्यादि । तदेवं सर्वात्मना षट्स्वपि जीवनिकायेषु प्रत्येकममित्रभूततया पापानुबन्धित्वे प्रतिपादिते परो व्यभिचारं दर्शयन्नाह मू. (७०२) नो इणट्टे समट्ठे इह खलु बहवे पाणा० जे इमेणं सरीरसमुस्सएणं नो दिट्ठा वा सुया वा नाभिमया वा विन्नाया वा जेसिं नो पत्तेयं पत्तेयं चित्तसमायाए दिया वा राओ वा सुत्ते वा जागरमाणे वा अमित्तभूते मिच्छासंठिते निच्चं पसढविउवायचित्तदंडे तं० पाणातिवाए जाव मिच्छादंसणसल्ले । वृ. नायमर्थ समर्थः इति प्रतिपत्तुं योग्यः, तद्यथा सर्वे प्राणिनः सर्वेषामपि सत्त्वानां प्रत्येकममित्रभूता इति, तत्र परः स्वपक्षसिद्धये सर्वेषां प्रत्येकममित्राभावं दर्शयितुंकारणमाह- 'इह ' अस्मिंश्चतुर्दशरज्यात्मके लोके बहवोऽनन्ताः प्राणिनः सूक्ष्मबादरपर्याप्तकापर्याप्तकादिभेदभिन्नाः सन्ति, यद्येवं ततः किमित्याह ते च देशकालस्वभावविप्रकृष्टास्तथाभूता बहवः सन्ति ये प्राणिनः सूक्ष्मविप्रकृष्टाद्यवस्थाः 'अमुना शरीरसमुच्छ्रयेणे' त्यनेनेदमाह । प्रत्यक्षासन्नवाचित्वादिदमोऽनेनार्वाग्दर्शिज्ञानसमन्वितसमुच्छ्रयेण न कदाचिद्दृष्टाश्चक्षुषा न श्रुताः श्रवणेन्द्रियेण विशेषतो नाभिमता- इष्टा न च विज्ञाताः प्रातिभेन स्वयमेवेत्यतः कथं तद्विषयस्तस्यामित्रभावः स्यात् ?, अतस्तेषां कदाचिदप्यविज्ञातानां कथं प्रत्येकं वधं प्रति चित्तसमादानं भवति, न चासौ तान् प्रति नित्यं प्रशठव्यतिपातचित्तदण्डो भवतीति, शेषं सुगमम्, एवं व्यवस्थिते न सर्वविषयं प्रत्याख्यानं युज्यते । मू. (७०३) आचार्य आह-तत्थ खलु भगवया दुवे दिट्टंता पन्नत्ता, तं०-सन्निदिट्टंते य असन्निदिट्ठते य, से किं तं सन्निदिट्टंते ?, जे इमे सन्निपंचिंदिया पज्जत्तगा एतेसि णं छजीवनिकाए पडुच्च तं०- पुढवीकायं जाव तसकायं, से एगइओ पुढवीकाएणं किच्चं करेइवि कारवेइवि, तस्स णं एवं भवइ । एवं खलु अहं पुढवीकारणं किच्चं करेमिवि कारवेमिवि, नो चेव णं से एवं भवइ इमेण वा इमेण वा, से एतेणं पुढवीकाएणं किच्चं करेइवि कारवेइवि से णं तातो पुढवीकायाओ असंजयअविरयअप्पडिहयपञ्चक्खायपावकम्मे यावि भवइ, एवं जाव तसकाएत्ति भाणियव्वं, से एगइओ छजीवनिकाएहिं किच्चं करेइवि कारवेइवि, तस्स णं एवं भवइ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy