SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ ३९६ सूत्रकृताङ्ग सूत्रम् २/४/-७०१ द्योग्यतयासर्वेषांप्राणिनाव्यापादको भवति यावन्मिथ्यादर्शनशल्योपेतो भवति, इदमुक्तं भवतियद्यप्युत्थानादिकंविनयंकुतश्चिन्निमित्तादसौ विधत्तेतथाऽप्युदायिनृपव्यापादकवदन्तर्दुष्ट एवेति, नित्यंप्रशठव्यतिपातचित्तदण्डश्च यथापरशुरामः कृतवीर्यं व्यापाद्यापितदुत्तरकालंसप्तवारंनिःक्षत्रां पृथिवीं चकार, आह हि॥१॥ "अपकारसमेन कर्मणा न नरस्तुष्टिमुपैति शक्तिमान् । अधिकां कुरुतेऽरियातनां द्विषतां मूलमसेषमुद्धरेत् ॥ __इत्येवमसावमित्रभूतो मिथ्याविनीतश्च भवतीति । साम्प्रतमुपसंहरन् प्राक् प्रतिपादितमर्थमनुवदन्नाह-एवं खलु भगवया' इत्यादि, यथाऽसौ वधकः स्वपरावसरापेक्षी सन्न तावद् घातयत्यथ चानिवृत्तत्वाद्दोषदुष्ट एव, एवमसावप्येकेन्द्रियादिकोऽस्पष्टविज्ञानोऽपि तथाभूत एवाविरताप्रतिहतप्रत्याख्यातासक्रियादिदोषदुष्ट इति, शेषं सुगमं यावत्पापं कर्म क्रियत इति॥ तदेवं दृष्टान्तदार्शन्तिकप्रदर्शनेन पूर्वप्रतिपादितार्थस्य निगमनं कृत्वाऽधुना सर्वेषामेव प्रत्येक प्राणिनांदुष्ट आत्मा भवति इत्येतत्प्रतिपादयितुकाम आह-यथाऽसौ वधकः परात्मनोरवसरापेक्षी तस्य गृहपतेस्तत्पुत्रस्य वाऽभ्यर्हितस्य वा राजादेस्तत्पुत्रस्य वैकमेक-पृथक्पृथक् सर्वेष्वपि वध्येषु घातकचित्तं समादाय प्राप्तावसरोऽहमेनं वैरिणं मदाधिविधायिनं घातयिष्यामीत्येवं प्रतिज्ञाय दिवा वा रात्री वा सुप्तो वा जाग्रद्वा सर्वास्ववस्थासु सर्वेषामेव वध्यानां प्रत्येकममित्रभूतोऽवसरापेक्षितयाऽनन्नपिमिथ्यासंस्थितोनित्यं प्रशठव्यतिपातचित्तदण्डोभवति, एवंरागद्वेषाकुलितो बालवद्वालो ज्ञानावृत एकेन्द्रियादिरपिसर्वेषामेव प्राणिनां विरतेरभावात्तद्योग्यतया प्रत्येकंवध्ये, घातकचित्तं समादाय नित्यं प्रशठव्यतिपातचित्तदण्डो भवतीति, इदमुक्तं भवति। ___ यथाऽसौ तस्माद्गृहपतिराजादिघातादनुपशान्तवैरः कालावसरापेक्षितया वधमकुवणिोऽप्यविरतिसद्भावाद्वैरान्न निवर्त्तते तत्प्रत्ययिकेन च कर्मणा बध्यते एवं तेऽपि एकेन्द्रियविकलेन्द्रियादयस्तप्रत्ययिकेन कर्मणा बध्यन्ते, एवं मृषावादादत्तादानमैथुनपरिग्रहेष्वपि प्रतिज्ञाहेतष्टान्तोपनयनिगमनार्थविधानेन पञ्चावयवत्वं वाच्यमिति, इहैवं पञ्चावयवस्य वाक्यस्य सूत्राणां विभागो द्रष्टव्यः, तद्यथा-'आया अपञ्चखाणी यावि भवतीत्यतआरभ्य यावत्पावेयसे कम्मे कजईत्तिइतीयं प्रतिज्ञा, तत्र परः प्रतिज्ञामात्रेणोक्तमनुक्तसममितिकृत्वाचोदयति, तद्यथा'तत्य चोयए पन्नवगं एवं वयासीत्यत आरभ्य यावज्जे ते एवमाहंसुमिच्छं ते एवमाहंसुत्ति तत्र प्रज्ञापकश्चोदकं प्रत्येवं वदेत्, तद्यथा-यन्मया पूर्व प्रतिज्ञातं तत्सम्यक्, कस्य हेतोः केन हेतुनेति चेत्, तत्र हेतुमाह-'तत्थ खलु भगवयाछजीवनिकाया हेऊ पन्नत्ता इत्यत आरभ्य यावत् मिच्छादंसणसल्ले’इत्ययं हेतुः, तदस्य हेतोरनैकान्तिकत्वव्युदासार्थं स्वपक्षे सिद्धिं दर्शयितुं दृष्टान्तमाह, तद्यथा-'तत्थ खलु भगवया वहए दिटुंते पन्नत्ते इत्यत आरभ्य यावत् खणं लद्धणं वहिस्सामीति पहारेमाणे'त्ति, तदेवं दृष्टान्तंप्रदर्यतत्रचहेतोःसत्तांस्वाभिप्रेतां परेणभाणयितुमाह'से किं नु हुनाम से वहए इत्यादेरारभ्य यावद्धन्ता भवति' तदेवं हेतोईष्टान्ते सत्त्वं प्रसाध्य हेतोः पक्षधर्मत्वं दर्शयितुमुपनयार्थं ष्टान्तधर्मिणि हेतोः सत्ता परेणाभ्युपगतामनुवदति-'जहा से वहए इत्यतआरभ्य यावन्निचंपसढविउवायचित्तदंडे'त्ति, साम्प्रतं हेतोः पक्षधर्मत्वमाह-एवमेव बाले अवीत्यादीत्यत आरभ्य यावत्पावे य से कम्मे कजईत्ति। www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy