________________
श्रुतस्कन्धः-२, अध्ययनं-३,
३९१ सतच्छरीराहारको भवति आहारागुप्तश्चकर्मादत्तेकर्मणाच नानाविधासुयोनिषुअरहट्टघटीन्यायेन पौनःपुन्येन पर्यटतीत्येवमाजानीत यूयं, एतद्विपर्यासे दुःखमुपगच्छन्तीति । एतत्परिज्ञाय च सदसद्विवेक्याहारगुप्तः पञ्चमिः समितिभिः- समितो यदिवा सम्यग्ज्ञानादिके मार्गे इतोगतः समितःतथा सह हितेन वर्ततेसहितःसन्सदा-सर्वकालंयावदुच्छ्वासं तावद्यतेत-सत्संयमानुष्ठाने प्रयलवान् भवेदिति।इति परिसमाप्तयर्थे, ब्रवीमीतिपूर्ववत् । गतोऽनुगमः ।साम्प्रतं नयाः, तेच प्राग्वद् द्रष्टव्यः।
अध्ययनं-३ समाप्तम् मुनि दीपरलसागरेण संशोधिता सम्पादिता शीलाझाचार्यविरचिता द्वीतीय श्रुतस्कन्धस्य तृतीयअध्ययनटीका परिसमाप्ता।
(अध्ययनं-४- "प्रत्याख्यान क्रिया") वृ. तृतीयाध्ययनानन्तरं चतुर्थमारभ्यते, अस्य चायमभिसंबन्धः-इहानन्तराध्ययने आहारागुप्तस्य कर्मबन्धोऽभिहितोऽतोऽत्रतत्प्रत्याख्यानं प्रतिपाद्यते, यदिवोत्तरगुणसंपादनार्थ शुद्धतराहारविवेकार्थमाहरपरिज्ञोक्ता, सा चोत्तरगुणरूपाप्रत्याख्यानक्रियासमन्वितस्य भवतीत्यत आहारपरिज्ञानन्तरं प्रत्याख्यानक्रियाध्ययनमारभ्यत इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्योक्रमादीनि चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमान्तर्गतोऽर्थाधिकारोऽयम्, तद्यथा-इह कर्मोपादान भूतस्याशुभस्य प्रत्याख्यानं प्रतिपाद्यति इति ।
साम्प्रतं निक्षेपः, तत्राप्योघनिष्पन्नेऽध्ययनं नामनिष्पन्ने प्रत्याख्यानक्रियेति द्विपदं नाम, तत्र प्रत्याख्यानपदनिक्षेपार्थं
नियुक्तिकृदाहनि. [१७९] नामंठवणादविए अइच्छ पडिसेहए य भावे य।
एसो पच्चक्खाणस्स छविहो होइ निक्खेवो॥ वृ.नामस्थापनाद्रव्यादित्साप्रतिषेधभावरूपःप्रत्याख्यानस्यायंषोढा निक्षेपः, तत्रापिनामस्थापने सुगमे, द्रव्यप्रत्याख्यानं तु द्रव्यस्य द्रव्येण द्रव्याद् द्रव्ये द्रव्यभूतस्य वा प्रत्याख्यानं द्रव्यप्रत्याख्यानं, तत्र सचित्ताचित्तमिश्रभेदस्य द्रव्यस्य प्रत्याख्यानं द्रव्यप्रत्याख्यानं, द्रव्यनिमित्तं वाप्रत्याख्यानं यथाधम्मिल्लस्य, एवमपराण्यपिकारकाणिस्वधिया योजनीयानि, तथा दातुमिच्छा दित्सान दित्साअदित्सा तयाप्रत्याख्या-नमदित्साप्रत्याख्यानं-सत्यपिदेयेसतिच संप्रदानकारके केवलं दातुर्दातुमिच्छा नास्तीत्यतोऽ- दित्साप्रत्याख्यानं, तथा प्रतिषेधप्रत्याख्यानमिदं।
तद्यथा-विवक्षितद्रव्याभावाद्विशिष्टसंप्रदानकारकाभावाद्वा सत्यामपि दित्सायां यः प्रतिषेधस्त प्रतिषेधप्रत्याख्यानं, भावप्रत्याख्यानंतुद्विधा-अन्तःकरणशुद्धस्य साधोः श्रावकस्य वा मूलगुणप्रत्याख्यानमुत्तरगुणप्रत्याख्यानं चेति, चशब्दादेतद् द्विविधमपि नोआगमतो भावप्रत्याख्यानंद्रष्टव्यं, नान्यदिति।साम्प्रतं क्रियापदं निक्षेप्तव्यंतच्च क्रियास्थानाध्ययनेनिक्षिप्तमिति न पुनर्निक्षिप्यते । इह पुनर्भावप्रत्याख्यानैनाधिकार इति दर्शयितुमाहनि. [१८०] मूलगुणेसु य पगयं पञ्चक्खाणे इहं अधीगारो।
होज हु तप्पच्चइया अप्पच्चक्खाणकिरिया उ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org