________________
सूत्रकृताङ्ग सूत्रम् २/४/-/ ६९९/नि. [१८० ]
वृ. मूलगुणाः-प्राणातिपातविरमणादयस्तेषु प्रकृतम्-अधिकारः प्राणातिपातादेः प्रत्याख्यानं कर्तव्यमितियावत् 'इह' प्रत्याख्यानक्रियाध्ययनेऽर्थाधिकारो, यदि मूलगुणप्रत्याख्यानं न क्रियते ततोऽपायं दर्शयितुमाह-प्रत्याख्यानाभावेऽ नियतत्वाद्यत्किञ्चनकारितया तत्प्रत्ययिका- तन्निमित्ता भवेद्-उत्पद्येत अप्रत्याख्यानक्रिया-सावद्यानुष्ठानक्रिया तव्प्रत्ययिकश्च कर्मबन्धः तन्निमित्तश्च संसार इत्यतः प्रत्याख्यानक्रिया मुमुक्षुणा विधेयेति । गतो नामनिष्पन्नो निक्षेपः, अधुना सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारयितव्यं, तचेदम्
३९२
मू. (७००) सुयं मे आउसंतेगं भगवया एवमक्खायं-इह खलु पच्चक्खाणकिरियाणामज्झयणे, तस्स णं अयमट्टे पन्नत्ते - आया अपञ्चक्खाणी यावि भवति आया अकिरियाकुसले यावि भवति आया मिच्छासंठिए यावि भवति आया एगंतदंडे यावि भवति आया एगंतबाले यावि भवति आया एगंतसुत्ते यावि भवति आया अवियारमणवयणकायवक्के यावि भवति आया अप्पडिहयअपञ्चक्खायपावकम्मे याविभवति, एस खलु भगवता अक्खाए असंजते अविरते अप्पडिहयपञ्चक्खायपावकम्मे सकिरिए असंवुडे एगंतदंडे एगंतबाले एगंतसुत्ते, से बाले अवियारमणवयणकायवक्के सुविणमवि न पस्सति, पावे य स कम्मे कज्जइ ।
वृ. अस्य चानन्तरपरम्परसूत्रैः सह संबन्धो वक्तव्यः, स चायम्-इहानन्तराध्ययनपरिसमाप्ताविदं सूत्रम्- 'आहारगुप्तः समितः सहितः सदा यतेते' ति एतन्मया श्रुतमायुष्मता भगवतेदमाख्यातम्, एवमनया दिशा परम्परसूत्रैरपि संबन्धोऽभ्युह्यः, 'इह' अस्मिन् प्रवचने सूत्रकृताङ्गेवा 'स्वल्वि'ति वाक्यालङ्कारे प्रत्याख्यानक्रियानामाध्ययनं तस्यायमर्थो वक्ष्यमाणलक्षणः, अततीत्यात्मा जीवः प्राणी, सचानादिमिथ्यात्वाविरतिप्रमादकषाययोगानुगततया स्वभावत एवाप्रत्याख्यान्यपि भवति, अपिशब्दात्स एव कुतश्चिन्निमित्ताप्रत्याख्यान्यपि, तत्रात्मग्रहणमपरदर्शनव्युदासार्थं, तथाहि - साङ्ख्त्यानामप्रच्युतानुत्पन्नस्थिरैकस्वभाव आत्मा, सच तृणकुब्जी- करणेऽप्यसमर्थतयाऽकिञ्चित्करत्वान्न प्रत्याख्यानक्रियायां भवितुमर्हति, बौद्धानामप्यात्म- नोऽभावात् ज्ञानस्य च क्षणिकतया स्थितेरभावात् कुतः प्रत्याख्यानक्रियेति, एवमन्यत्रापि प्रत्याख्यानक्रियाया अभावो वाच्यः, तथा सदनुष्ठानं क्रिया तस्यां कुशलः क्रियाकुशलस्त- प्रतिषेधादक्रियाकुशलोऽप्यात्मा भवति, तथाऽऽत्मा मिध्यात्वोदयसंस्थितोऽपि भवति, तथैकान्तेनापरान् -
-
प्राणिनो दण्डयतीति दंडस्तदेवंभूतश्चात्मा भवति, तथाऽसारतापादनाद्रागद्वेषाकुलितत्वाद्धालवद्बाल आत्मा भवति, तथा सुप्तवत्सुप्तः, यथा हि द्रव्यसुप्तः शब्दादीन् विषयान् न जानाति हिताहितप्राप्तिपरिहारविकलश्च तथा भावसुप्तोऽप्यात्मैवंभूत एव भवतीति, एवमविचारणीयानिअशोभनतयाऽनिरूपणीयान्यपर्यालोचनीयानि मनोवाक्कायवाक्यानि यस्य स तथा, तत्र मनःअन्तःकरणं वागू-वाणी कायो- देहः अर्थप्रतिपादकं पदसमूहात्मकं वाक्यमेकतिङ सुबन्तं वा, तत्र वाग्ग्रहणेनैव वाक्यस्य गतार्थत्वाद्यत्पुनर्वाक्यग्रहणं करोति तदेवं ज्ञातयति-इह वागव्यापारस्य प्रचुरतया प्राधान्यं प्रायशस्तत्प्रवृत्तयैव प्रतिषेधविधानयोरन्येषां प्रवर्त्तनं भवति, तदेवमप्रत्याख्यानाक्रियः सन् आत्माऽविचारितमनोवाक्कायवाक्यश्चापि भवतीति, तथा प्रतिहतंप्रतिस्खलितं प्रत्यारुपातं निराकृतं विरतिप्रतिपत्या पापकर्म-असदनुष्ठानं येन स प्रतिहतप्रत्याख्यातपापकर्मो तत्प्रतिषेधादसदनुष्ठानपरश्चात्मा भवतीति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org