SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ ३८९ श्रुतस्कन्धः-२, अध्ययनं-३, द्वातवशोत्पन्नत्रसस्थावरशरीराधारमुदकं योनि-उत्पत्तिस्थानं येषां ते तथा, तथोदकसंभवा यावत्कर्मनिदानेन तत्रोत्पित्सवस्त्रसस्थावरयोनिकेषूदकेष्वपरोदकतया विवर्तन्ते' समुत्पद्यन्ते, ते चोदकजीवास्तेषांत्रसस्थावरयोनिकानामुदकानांस्नेहमाहारयन्ति अन्यान्यपिपृथिव्यादिशरीराण्याहारयन्ति, तच्च पृथिव्यादिशरीरमाहारितं सत्सारूप्यमानीयात्मसात्मकुर्वन्त्यपराण्यपि तत्र त्रसस्थावरशरीराणि विवर्तन्ते, तेषां चोदकयोनिकानामुदकानांनानाविधानिशरीराणि विवर्तन्ते इत्येतदाख्यातम्। तदेवं त्रसस्थावरशरीरसंभवमुदकं योनित्वेन प्रदाधुना निर्विशेषणमप्कायसंभवमेवाप्कायं दर्शयितुमाह-अथापरमेतदाख्यातं 'इह' अस्मिन् जगत्युदकाधिकारे वा एके सत्त्वाः स्वकृतकर्मोदयादुदकयोनिषूदकेषुपद्यन्ते, ते च तेषामुदकसंभवानामुदकजीवानामासाधारभूतानां शरीरमाहारयन्ति, शेषं सुगमं यावदाख्यातमिति ॥ साम्प्रतमुदकाधारान् परान् पूतरकादिकांस्त्रसान्दयितुमाह-अथापरमेतदाख्यातमिहैकेसत्त्वा उदकेषुउदकयोनिषुचोदकेषु त्रसप्राणितया पूतरकादित्वेन विवर्तन्ते' समुत्पद्यन्ते, तेचोत्पद्यमानाःसमुत्पन्नाचतेषाम् उदकयोनिकानामुदकानां स्नेहमाहारयन्ति, शेषं सुगमं यावदाख्यातमिति । साम्प्रतं तेजःकायमुद्दिश्याह मू. (६९२) अहावरं पुरक्खायं इहेगतिया सत्ता नानाविहजोणिया जाव कम्मनियाणेणं तत्थवुकमा नानाविहाणं तसथावराणंपाणाणंसरीरेसुसचित्तेसुवा अचित्तेसुवाअगनिकायत्ताए विउद॒ति, ते जीवा तेसिं नानाविहाणं तसथावराणं पाणाणं सिणेहमाहारेति, ते जीवा आहारैति पुढविसरीरं जाव संतं, अवरेऽवियणंतेसिं तसथावरजोणियाणं अगणीणं सरीरा नानावण्णा जावमक्खायं, सेसा तिन्नि आलावगा जहा उदगाणं। ___ अहावरंपुरक्खायंइहेगतिया सत्ता नानाविहजोणियाणंजाव कम्मनियाणेणंतत्थ वुक्कमा नानाविहाणं तसथावराणं पाणाणं सरीरेसु सचित्तेसु वा अचित्तेसु वा वाउक्वायत्ताए विउटृति, जहा अगणीणं तहा भाणियव्वा, चत्तारि गमा। वृ.अथैतदपरमाख्यातं 'इह' अस्मिन् संसारे एके केचन सत्त्वाः' प्राणिनस्तथाविधकर्मोदयवर्त्तिनो नानाविधयोनयः प्राक् सन्तः पूर्वजन्मनि तथाविधं कर्मोपादाय तत्कर्मनिदानेन नानाविधानांत्रसस्थावराणां प्राणिनांशरीरेषुसचित्तेष्वचितेषु चाग्नित्वेन 'विवर्तन्ते' प्रादुर्भवन्ति, तथाहि पञ्चेन्द्रियतिरश्चांदन्तिमहिषादीनां परस्परंयुद्धावसरे विषाणसंघर्षे सति अग्निरुत्तिष्ठते, एवमचितेष्वपि तदस्थिसंघर्षादग्नेरुत्थानं, तथा द्वीन्द्रियादिशरीरेष्वपि यथासंभवमायोजनीयं, तथा स्थावरेष्वपि वनस्पत्युपलादिषु सचित्ताचित्तेष्वग्निजीवाः समुत्पद्यन्ते, ते चाग्निजीवास्तत्रोत्पन्नास्तेषां नानाविधानां त्रसस्थावराणां स्नेहमाहारयन्ति, शेषंसुगमंयावद्भवन्तीत्येवमाख्यातम् । अपरे त्रयोऽप्यालापकाः प्राग्वद्रष्टव्या इति। साम्प्रतंवायुकायमुद्दिश्याह-'अहावर' मित्यादि,अथापरमेतदाख्यातमित्याद्यग्निकायगमेन व्याख्येयम् ॥ साम्प्रतमशेषजीवाधारं पृथिवीकायमधिकृत्याह मू. (६९३) अहावरं पुरक्खायं इहेगतिया सत्ता नानाविहजोणिया जाव कम्मनियाणेणं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy