SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ ३७८ सूत्रकृताङ्ग सूत्रम् २/३/-/६७५ व्युक्रमाः समागताः सन्तो नानिविधयोनिकासुपृथिवीष्वित्यन्येषामपि षण्णां कायानामुत्पत्तिस्थानभूतासु सचित्ताचित्तमिश्रासु वा श्वेतकृष्णादिर्वणतिक्तादिरससुरभ्यादिगन्धमूदुककशादिस्पर्शादिकैर्विकल्पैर्बहुप्रकारासु भूमिषु वृक्षतया विविधं वर्तन्ते विवर्त्तन्तेते, ते च तत्रोत्पन्नास्तासां पृथिवीनां 'स्नेह' स्निग्धभावमाददते, स एव च तेषामाहार इति, न च ते पृथिवीशरीरमाहारयन्तः पृथिव्याः पीडामुत्पादयन्ति। एवमकायतेजोवायुवनस्पतीनामप्यायोज्यम्, अत्र पीडानुत्पादनेऽयं दृष्टान्तः, तद्यथा अण्डोद्भवाद्याजीवामातुरुष्मणा विवर्धमानागर्भस्थाएवोदरगतमाहारयन्तोनातीवपीडामुत्पा दयन्ति, एवमसावपि वनस्पतिकायिकः पृथिवीस्नेहमाहारयन्नातीव तस्याः पीडामुत्पादयति उत्पद्यमानः, समुत्पन्नश्च वृद्धिमुपगतोऽसद्दशवर्णरसाधुपेतत्वात् बाधां विदध्यादपीति। ___ एवमप्कायस्य भौमस्यान्तरिक्षस्य वा शरीरमाहारयन्ति, तथा तेजसो भस्मादिकं शरीरमाददति, एवं वाय्वादेरपीति द्रष्टव्यं, किंबहुनोक्तेन ?, नानाविधानां त्रसस्थावराणां प्राणिनां यच्छरीरंततेसमुत्पद्यमानाः 'अचित्त'मिति स्वकायेनावष्टभ्य प्रासुकीकुर्वन्ति, यदिवापरिविध्वस्तं पृथिवीकायादिशरीरं किञ्चित्प्रासुकं किञ्चित्परितापितं कुर्वन्ति, ते वनस्पतिजीवा एतेषां पृथिवीकायादीनांतच्छरीरं पूर्वमाहारित मितितैरेवपृथिवीकायादिभिरुत्पत्तिसमये आहारितमासीत्-स्वकायत्वेन परिणामितमासीत्तदधुनाऽपिवनस्पतिजीवस्तत्रोत्पद्यमान उत्पन्नोवा त्वचास्पर्शेनाहारयति, आहार्य च स्वकायत्वेन विपरिणायमति, विपरिणामितं च तच्छरीरं स्वकायेन सह स्वरूपतां नीतं सत्तन्मयतांप्रतिपद्यते, अपराण्यपिशरीराणि मूलशाखाप्रतिशाखापत्रपुष्पफलादीनितेषांपृथिवीयोनिकानांवृक्षाणां नानावर्णानि, तथाहि-स्कन्धस्यान्यथाभूतोवर्णो मूलस्य चान्याश इति, एवं यावन्नानाविधशरीरपुद्गलविकुर्वितास्ते भवन्तीति, तथाहि-नानारसवीर्यविपाका नानाविधपुद्गलोपचयात्सुरूपकुरूपसंस्थानाः तथा ढाल्पसंहननाः कृशस्थूलस्कन्धाश्च भवन्तीत्येवमादिकानि नानाविधस्वरूपाणि शरीराणि विकुर्वन्तीति स्थितं । केषांचिच्छाक्यादीनां वनस्पत्याद्याःस्थावराजीवाएवनभवन्तीत्यतस्तप्रतिषेधार्थमाह'तेजीवा' इत्यादि, 'ते' वनस्पतिषूत्पन्ना जीवा नाजीवाः, उपयोगलक्षणत्वाञ्जीवानां, तथाहितेषामप्याश्रयोत्सर्पणादिकया क्रिययोपयोगो लक्ष्यते, तथा विशिष्टाहारोपचयापचयाभ्यां शरीरोपचयापचयसद्भावादर्भकवत् जीवाःस्थावराः तथा छिन्नप्ररोहणात्स्वापात्सर्वत्वगपहरणे मरणादित्येवमादयोहेतवोऽत्रद्रष्टव्याः, यदत्रकैश्चित्स्पष्टेऽपिवनस्पतीनां चैतन्येऽसिद्धानैकान्तिकत्वादिकमुक्तं स्वदर्शनानुरागात् तदपकर्णनीयं, नहि सम्यगार्हतमताभिज्ञोऽसिद्धविरुद्धानैकान्तिकोपन्यासेन व्यामोह्यते, सर्वस्य कथञ्चिदभ्युपगतत्वाप्रतिषिद्धत्वाच्चेति । ते च जीवास्तत्र वनस्पतिषु तथाविधेन कर्मणा उपपन्नगाः, तच्चेदम्-एकेन्द्रियजातिस्थावरनाम व नस्पतियोग्यायुष्कादिकमिति, तत्कर्मोदयेन तत्रोत्पन्ना इत्युच्यन्ते न पुनः कालेश्वरादिना तत्रोत्पाद्यन्ते इत्येवमाख्यातं तीर्थकरादिभिरिति। एवं तावत्पृथिवीयोनिका वृक्षा अभिहिताः। मू. (६७६) अहावरं पुरस्खायं इहेगतिया सत्तारुक्खजोणिया रुक्खसंभवा रुक्खवुकमा तज्जोणियातस्संभवा तदुवकमा कम्मोवगा कम्मनियाणेणंतत्थवुक्कमा पुढवीजोणिएहिं रुक्खेहिं For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy