SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः-२, अध्ययनं-३, ३७७ तेजीवातेसिंनानाविहजोणियाणं पुढवीणं सिणेहमाहारेति, तेजीवा आहारेति पुढवीसरीरं आउसरीरंतेउसरीरं वाउसरीरंवणस्सइसरीरं। नानाविहाण तसथावराणं पाणाणंसरीरंअचित्तं कुव्वंति परिविद्धत्थं तं सरीरं पुव्वाहारियं तयाहारियं विपरिणयं सारूवियकडं संतं। अवरेऽवियणंतेसिं पुढविजोणियाणं रुक्खाणं सरीरा नानावण्णा नानागंधा नानारसा नानाफासा नानासंठाणसंठिया नानाविहसरीरपुग्गलविउविता ते जीवा कम्मोववन्नगा भवंतित्तिमक्खायं। वृ. सुधर्मस्वामी जम्बूस्वामिनमुद्दिश्येदमाह-तद्यथा-श्रुतं मयाऽऽयुष्मता तु भगवतेदमाख्यातं, तद्यथा-आहारपरिज्ञेदमध्ययनं, तस्य चायमर्थः-प्राच्यादिषु दिक्षु ‘सर्वत' इत्यूवधिो विदिक्षु च सव्वावंति'त्ति सर्वस्मिन्नपि लोके क्षेत्रे प्रज्ञापकभावदिगाधारभूतेऽस्मिन् लोके चत्वारो 'बीजकाया' बीजमेव कायो तेषांतेतथा, बीजं वक्ष्यमाणं, चत्वारो ‘बीजप्रकाराः समुत्पत्तिभेदा भवन्ति, तद्यथा-अग्रे बीजं येषामुत्पद्यते ते तलतालीसहकारादयः शाल्यादयो वा, यदिवाऽग्राण्येवोत्पत्तौ कारणतां प्रतिपद्यन्तेयेषांकोरण्टादीनांतेअग्रबीजाः, तथा मूलबीजाआर्द्रकादयः, पर्वबीजास्त्विक्ष्वादयः, स्कन्धबीजाः सल्लक्यादयः । नागार्जुनीयास्तु पठन्ति-“वणस्सइकाइयाणं पंचविहाबीजवक्कंती एवमाहिज्जइ-तंजहाअग्गमूलपोरुक्खंधबीयरुहा छट्ठावि एगेंदिया संमुच्छिमा बीया जायंते" यथा दग्धवनस्थलीषु नानाविधानि हरितान्युद्भवन्ति पद्मिन्यो वाऽभिनवतडागादाविति । तेषां च चतुर्विधानामपि वनस्पतिकायानां यद्यस्य बीजम्-उत्पत्तिकारणं तद्यथाबीजं तेन यथाबीजेनेति, इदमुक्तंभवतिशाल्यङ्कुरस्यशालिबीजमुत्पत्तिकारणम्, एवमन्यदपि द्रष्टव्यं । ___ 'यथावकाशेने ति यो यस्यावकाशः-यद्यस्योत्पत्तिस्थानमथवा भूम्यम्बुकालाकाशबीजसंयोगा यथावकाशे गृह्यन्ते तेनेति, तदेवं यथाबीजं यथावकाशेन च 'इह' अस्मिन् जगत्येके केचनसत्त्वा येतथाविधकर्मोदयाद्वनस्पतित्पित्सवः, तेहि वनस्पतावुत्पद्यमानाअपि पृथिवीयोनिका भवन्ति, यथा तेषां वनस्पतिबीजं कारणमेवमाधारमन्तरेणोत्पत्तेरभावात्पृथिव्यपि शैवालजम्बालादेरुदकवदिति, तथा पृथिव्यांसंभवः-सदाभवनंयेषांवनस्पतीनांतेतथा, इदमुक्तं भवति-न केवलं ते तद्योनिकाः तस्थिकाश्चेति, तथा पृथिव्यां संभवः-सदाभवनं येषांवनस्पतीनां तेतथा, इदमुक्तं भवति-न केवलं ने तद्योनिकाःतत्स्थितिकाश्चेति, तथापृथिव्यामेव विविधमुत्प्राबल्येन क्रमः-क्रमणं येषां ते पृथिव्युक्रमाः। इदमुक्तं भवति-पृथिव्यामेव तेषामूर्ध्वक्रमणलक्षणा वृद्धिर्भवति, एवंचतेतद्योनिकास्तसंभवास्तव्युक्रमा इत्येतदनुद्यापरं विधातुकाम आह-'कम्मोवगा' इत्यादि, ते हि तथाविधेन वनस्पति-कायसंभवेन कर्मणा प्रेर्यमाणास्तेष्वेव वनस्पतिषूप-सामीप्येन तस्यामेव च पृथिव्यां गच्छन्तीति, कर्मोपगा भण्यन्ते, ते हि कर्मवशगा वनस्पतिकायादागत्य तेष्वेव पुनरपि वनस्पतिषूत्पद्यन्ते, न चान्यत्रोप्ता अन्यत्र भविष्यन्तीति, उक्तंच॥१॥ "कुसुमपुरोप्ते बीजे मथुरायांनाङ्कुरः समुद्भवति । यत्रेव तस्य बीजं तत्रैवोत्पद्यतेप्रसवः ।। तथा ते जीवाः कर्मनिदानेन-कारणेन समाकृष्यमाणास्तत्र-पृथिव्यां वनस्पतिकाये वा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy