________________
३४
सूत्रकृताङ्ग सूत्रम् १/१/१/१८
सुखदुःखानुभवाभावः स्याद्, अस्तिच सुखदुःखानुभवो, अतोऽस्त्यात्मेति, अन्यथा पञ्चविषयानुभवोत्तरकालमिन्द्रियज्ञानानांस्वविषयादन्यत्राप्रवृत्तेःसंकलनाप्रत्ययोन स्यात्, आलयविज्ञानाभविष्यतीतिचेदात्मैवतर्हिसंज्ञान्तरेणाभ्युपगत इति।तथा बौद्धागमोऽप्यात्मप्रतिपादकोऽस्ति, स चायम्॥१॥ इत एकनवते कल्पे, शक्त्या मे पुरुषो हतः।
तेन कर्मविपाकेन, पादे विद्धोऽस्मि भिक्षवः ! ॥ (तथा) ॥१॥ “कृतानि कर्माण्यतिदारूणानि, तनूभवन्त्यात्मनि गर्हणेन ।
प्रकाशनात्संवरणाच्च तेषामत्यन्तमूलोद्धरणं वदामि॥ इत्येवमादि, तथा यदुक्तं क्षणिकत्वं साधयता यथा ‘पदार्थ' कारणेभ्य उत्पद्यमानोनित्यः समुत्पद्यतेऽनित्योवे'त्यादि, तत्र नित्येऽप्रच्युतानुत्पन्नस्थिरैकस्वभावेकारकाणांव्यापारभावादतिरिक्ता वाचोयुक्तिरिति नित्यत्वपक्षानुत्पत्तिरेव, यच्च नित्यपक्षे भवताऽभिहितं 'नित्यस्य न क्रमेणार्थक्रियाकारित्वं नापियोगपद्येनेति' तत्क्षणिकत्वेऽपिसमान, यतः क्षणिकोऽप्यर्थक्रियायां प्रवर्तमानःक्रमेण योगपद्येनवाऽवश्यंसहकारिकारणसव्यपेक्ष एव प्रवर्तते, यतः ‘सामग्रीजनिका, न ह्येकं किञ्चिदितितेन च सहकारिणा न तस्य कश्चिदतिशयः कर्तुपार्यते, क्षणस्याविवेकत्वेनानाधेयातिशयत्वात्, क्षणानांचपरस्परोपकारकोपकार्यत्वानुपपत्तेः सहकारित्वाभावः, सहकार्यनपेक्षायां च प्रतिविशिष्टकार्यानुपपत्तिरिति । तदेवनित्य एव कारणेभ्यः पदार्थ समुत्पद्यत इति द्वितीय पक्षसमाश्रयणमेव, तत्रापि चैतदालोचनीयं -
किंक्षणक्षयित्वेनानित्यत्वमाहोस्वित्परिणामानित्य तयेति ?, तत्र क्षणक्षयित्वे कारणकार्याभावात् कारकाणां व्यापार एवानुपपन्नः कुतः क्षणिकानित्यस्य कारणेभ्य उत्पाद इति ?, अथपूर्वक्षणादुत्तरक्षणोत्पादे सति कार्यकारणभावो भवतीत्युच्यते, तदयुक्तं, ततोऽसौपूर्वक्षणो विनष्टोवोत्तरक्षणंजनयेदविनष्टोवा?, नतावद्विनष्टः, तस्यासत्त्वाजनकत्वानुपपत्तेः, नाप्यविनष्टः, उत्तरक्षणकाले पूर्वक्षणव्यापारसमावेशात्क्षणभङ्गपत्तेः, पूर्वक्षणो विनश्यंस्तूत्तरक्षणमुत्पादयिष्यति तुलान्तयोनमिोन्नामवदिति चेत्, एवं तर्हि क्षणयोः स्पष्टैवैककालताऽऽश्रिता, तथाहि -
यौऽसौ विनश्यदवस्था साऽवस्थातुरभिन्ना उत्पादावस्थाऽप्युत्पित्सोः, ततश्चतयोर्विनाशोत्पादयोयोगपद्याभ्युपगमे तद्धर्मिणोरपि पूर्वोत्तरक्षणयोरेककालावस्थायित्वमिति, तद्धर्मताऽनभ्युपगमेचविनाशोत्पादयोरवस्तुत्वापत्तिरिति । यच्चोक्तम्-'जातिरेव हि भावानामि'त्यादि, तत्रेदमभिधीयते-यदि जातिरेव-उत्पत्तिरेव भावानां-पदार्थानामभावेहेतुः, ततोऽभावकारणस्य सन्निहितत्वेन विरोधेनाघ्रातत्वादुत्पत्त्यभावः, अथोत्पत्त्युत्तरकालंविनाशो भविष्यतीत्यभ्युपगम्यते, तथा सति उत्पत्तिक्रियाकाले तस्याभूतत्वात्पश्चाञ्च भवन्ननन्तर एव भवति न भूयसा कालेनेति किमत्र नियामकं ?, विनाशहेत्वभाव इति चेत्, यत उक्तं-'निर्हेतुत्वाद्विनाशस्य स्वभावादनुबन्धिते'ति, एतदप्ययुक्तं, यतो घटादीनां मुद्गरादिव्यापारानन्तरमेव विनाशो भवन् लक्ष्यते, ननु चोक्तमेवात्र तेन मुद्गरादिना घटादेः किं क्रियते? इत्यादि, सत्यमुक्तं इदमयुक्तं तूक्तं, तथाहि-अभाव इतिप्रसज्यपर्युदास विकल्पद्वयेनयोऽयंविकल्पितः पक्षद्वयेऽपिचदोषःप्रदर्शितः सोऽदोषएव, यतः पर्युदासपक्षे कपालाख्यभावान्तरकरणेघटस्यच परिणामानित्यतया तद्रूपतापत्तेः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org