SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः-१, अध्ययनं-१, उद्देशकः- १ ३३ पात भावान्तरे यदि मुद्गरादिव्यापारो न तर्हि तेन किञ्चिद्घटस्य कृतमिति, अथ प्रसज्यप्रतिषेधस्तदाऽयमों-विनाशहेतुरभावं करोति, किमुक्तं भवति?।। ____ भावंन करोतीति, ततश्च क्रियाप्रतिषेधएक कृतः स्यात्, नचघटादेः पदार्थस्य मुद्गरादिना करणं, तस्य स्वकारणैरेव कृतस्वात्, अथभावाभावोऽभावस्तंकरोतीति, तस्यतुच्छस्य नीरूपत्वात् कुतस्तत्र कारकाणां व्यापारः ?,अथ तत्रापि कारकव्यापारो भवेत् खरशृङ्गादावपि व्याप्रियेरन् कारकाणीति । तदेवं विनाशहेतोरकिञ्चित्करत्वात् स्वहेतुत एवानित्यताक्रोडीकृतानां पदार्थानामुत्पत्तेर्विघ्नहेतोश्चाभावात् क्षणिकत्वभवस्थितमिति । तुशब्दः पूर्ववादिभ्योऽस्य व्यतिरेकप्रदर्शकः, तमेव श्लोकपश्चार्धेन दर्शयति 'अन्नो अनन्नो' इति ते हि बौद्धा यथाऽऽत्मषष्ठवादिनः सांख्यादयो भूतव्यतिरिक्तमात्मानमभ्युपगतवन्तोयथाच चार्वाकाभूताव्यतिरिक्तंचैतन्याख्यमात्मानमिष्टवन्तस्तथा नैवाहुः' नैवोक्तवन्तः, तथा हेतुभ्यो जातो हेतुकः कायाकारपरिणतभूतनिष्पादितइतियावत् तथाऽहेतुकोऽनाद्यपर्यवसितत्वान्नित्य इत्येवं तमात्मानं ते बौद्धा नाभ्युपगतवन्त इति ।। तथाऽपरे बौद्धाश्चातुर्धातुकमिदं जगदाहुरित्येतद्दर्शयितुमाहमू. (१८) पुढवी आउ तेऊय, तहा वाऊ य एगओ। चत्तारि धाउणो रूवं, एवमाहंसु आवरे । वृ.पृथिवी धातुरापश्चधातुस्तथा तेजो वायुश्चेति, धारकत्वात्पोषकत्वाच्च धातुत्वमेषाम्, 'एगओत्ति' यदैते चत्वारोऽप्येकाकारपरिणतिं बिभ्रति कायाकारतयातदाजीवव्यपदेशमश्नुवते, तथा चोचुः-“चतुर्धातुकमिदं शरीरं, न तद्यतिरिक्त आत्माऽस्ती"ति, “एवमाहंसु यावरेत्ति' अपरेबौद्धविशेषा एवम् 'आहुः' अभिहितवन्त इति, क्वचिद् ‘जाणगा' इति पाठः, तत्राप्ययमों "जानका' ज्ञानिनोवयंकिलेत्यभिमानाद्गिदग्धाः सन्त एवमाहुरिति संबन्धनीयम्। अफलवादित्वं चैतेषां क्रियाक्षण एव कर्तु सर्वात्मना नष्टत्वात् क्रियाफलेन सबन्धाभावादवसेयं, सर्व एव वा पूर्ववादिनोऽफलवादिनोद्रष्टव्याः, कैश्चिदात्मनो नित्यस्याविकारिणोऽभ्युपगतत्वात् कैश्चित्त्वात्मन एवानभ्युपगमादिति । ___अत्रोत्तरदानार्थं प्राक्तन्येव नियुक्तिगाथा 'को वेए'ईत्यादि व्याख्यायते, यदि पञ्चस्कन्धव्यतिरिक्तः कश्चिदात्माख्यः पदार्थो न विद्यते ततस्तदभावात्सुखदुःखादिकं कोऽनुभवतीत्यादिगाथा प्राग्वद्वयाख्येयेति, तदेवमात्मनोऽभावाद्योऽयं स्वसंविदितः सुखदुःखानुभवाभावः, क्रियाफलवतोश्च क्षणयोरत्यन्तासंगतेः कृतनाशाकृताभ्यागमापत्तिरिति, ज्ञानसंतान एकोऽस्तीतिचेत् तस्यापिसंतानिव्यतिरिक्तस्याभावाद्यत्किञ्चिदेतत्, पूर्वक्षणएवउत्तरक्षणेवासना माधाय विनयतीति चेत्, तथा चोक्तम् - ॥१॥ “यस्मिन्नेव हि संताने, आहिता कर्मवासना । फलं तत्रैव संधत्ते, कापासे रक्तता यथा ॥ अत्रापीदं विकल्प्यते-सा वासना किं क्षणेभ्यो व्यतिरिक्ताऽव्यतिरिक्तावा ?, यदि व्यतिरिक्ता वासकत्वानुपपत्ति, अथाव्यतिरिक्ता क्षणवत् क्षणक्षयित्वं तस्याः, तदेवमात्माभावे 123 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy