SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्ग सूत्रम् १/१/१/१७ न चैतेभ्यो व्यतिरिक्तः कश्चिदात्माख्यः पदार्थोऽध्यक्षेणाध्यवसीयते, तदव्यभिचारिलिङ्गग्रहणाभावात्, नाप्यनुमानेन, न च प्रत्यक्षानुमानव्यतिरिक्तमर्थाविसंवादि प्रमाणान्तरमस्तीत्येवं बाला इव बाला यथाऽवस्थितार्थापरिज्ञानात् बौद्धाः प्रतिपादयन्ति, तथा ते स्कन्धाः 'क्षणयोगिनः' परमनिरूद्धः कालः क्षणः क्षणेन योगः-संबन्धः क्षणयोगः स विद्यते येषां ते क्षणयोगिनः, क्षणमात्रावस्थायिन इत्यर्थ, तथाचतेऽभिदधति-स्वकारणेभ्यः पदार्थ उत्पद्यमानः किं विनश्वरस्वभाव उत्पद्यतेऽविनश्वरस्वभावो वा? यद्यविनश्वरस्ततस्तद्वयापिन्याः क्रमयोगपद्याभ्यामर्थक्रियाया अभावात् पदार्थस्यापि व्याप्यस्याभावः प्रसजति, तथाहि-यदेवार्थक्रियाकारि तदेव परमार्थतः सदिति, स च नित्योऽर्थक्रियायांप्रवर्तमानः क्रमेणवाप्रवर्तेतयोगपद्येनवा?,नतावक्रमेण, यतो।कस्याअर्थक्रियायाः काले तस्यापरार्थक्रियाकरणस्वभावो विद्यते वा न वा?, यदि विद्यते किमिति क्रमकरणं?, सहकार्यपेक्षयेति चेत् तेन सहकारिणा तस्य कश्चिदतिशयः क्रियते न वा ?, यदि क्रियते किं पूर्वस्वभावपरित्यानापरित्यागेन वा यदि परित्यागेन ततोऽतादवस्थ्यापत्तेरनित्यत्वम्, अथ पूर्वस्वभावापरित्यागेन ततोऽतिशयाभावात्विं सहकार्यपेक्षया ?, सहकार्यपेक्षयेति चेत् तेन सहकारिणा तस्य कश्चिदतिशयः क्रियतेनवा?, यदि क्रियते किंपूर्वस्वभावपरित्यागेनापरित्यागेन वायदि परित्यागेन ततोऽतदवस्थ्यापत्तेरनित्यत्वम्, अथ पूर्वस्वभावापरित्यागेनततोऽतिशयाभावत्किं सहकार्यपेक्षया?, अथ अकिञ्चित्करोऽपि विशिष्टकार्यार्थमपेक्षते, तदयुक्तं, यतः॥१॥ 'अपेक्षेत परं कश्चिद्यदि कुर्वीत किञ्चन । यदकिञ्चित्करं वस्तु, किं केनचिदपेक्ष्यते॥ अथतस्यैकार्थक्रियाकरणकालेऽपरार्थक्रियाकरणस्वभावो न विद्यते, तथा चसति स्पष्टैव नित्यताहानि, अथासौ नित्यो यौगपद्येनार्थक्रियांकुर्यात् तथा सतिप्रथमक्षण एवाशेषार्थक्रियाणां करणा द्वितीयक्षणेऽकर्तृत्वमायातं, तथाच सैवानित्यता, अथ तस्य तत्स्वभावत्वात्ताएवार्थक्रिया भूयो भूयो द्वितीयादिक्षणेष्वपि कुर्यात्, तदासाम्प्रतं, कृतस्य करणाभावादिति, किंचद्वितीयादिक्षणसाध्या अप्यर्था प्रथमक्षण एव प्राप्नुवन्ति, तस्य तत्स्वभावत्वात्, अतत्स्वभावत्वे च तस्यानित्यत्वापत्तिरिति । तदेवं नित्यस्य क्रमयोगपद्याभ्यामर्थक्रियाविरहान्न स्वकारणेभ्यो नित्यस्योत्पाद इति । अथानित्यस्वभावः समुत्पद्यते, तथा च सति विघ्नाभावादायातमस्मदुक्तमशेषपदार्थजातस्य क्षणिकत्वं, तथा चोक्तम् - . ॥१॥ "जातिरेव हि भावानां, विनाशे हेतुरिष्यते। यो जातश्च नच ध्वस्तो, नश्येत्पश्चात्स केनच?,॥ ननु च सत्यप्यनित्यत्वे यस्य यदा विनाशहेतुसद्भावस्तस्य तदा विनाशः, तथा च स्वविनाशकारणापेक्षाणामनित्यानामपि पदार्थानां न क्षणिकत्वमिति, एतच्चानुपासितगुरोर्वचः, तथाहि-मुद्गरादिकेन विनाशहेतुना घटादेः किं क्रियते?, किमत्र प्रष्टव्यम् ? अभावः क्रियते, अत्र च प्रष्टव्यो देवानांप्रियः, अभाव इति किं पर्युदासप्रतिषेधोऽयमुत प्रसज्यप्रतिषेध इति?, तत्र यदि पर्युदासस्ततोऽयमर्थो-भावादन्योऽभावो भावान्तरं-घटात्पटादि सोऽभाव इति, तत्र Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy