SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः - १, अध्ययनं - १, उद्देशक :- १ ३५ कथं मुद्गरादेर्घटादीन् प्रत्यकिञ्चित्करत्वं ?, प्रसज्यप्रतिषेधस्तु भावं न करोतीति क्रिया प्रतिषेधात्मकोऽत्र नाश्रीयते, किं तर्हि ?, प्रागभावप्रध्वंसाभावेतरेतरात्यन्ताभावानां चतुर्णां मध्ये प्रध्वंसाभाव एवेहाश्रीयते, तत्र च कारकाणां व्यापारो भवत्येव, यतोऽसौ वस्तुतः पर्यायोऽवस्थाविशेषो नाभावमात्रं, तस्य चावस्थाविशेषस्य भावरूपत्वात्पूर्वोपमर्देन च प्रवृत्तत्वाद्य एव कपालादेरुत्पादः स एव घटादेर्विनाश इति विनाशस्य सहेतुकत्वमवस्थितम्, अपिच कादाचित्कत्वेन विनाशस्य सहेतुकत्वमवसेयमिति, पदार्थव्यवस्थार्थं चावश्यमभावचातुर्विध्यमाश्रयणीयं, तदुक्तम् - "कार्यद्रव्यमनादि स्यात्प्रागभावस्य निह्नवे । प्रध्वंसस्य चाभावस्य, प्रच्यवेऽनन्ततां व्रजेत् ॥ 119 11 सर्वात्मकं तदेकं स्यादन्यापोहव्यतिक्रमे इत्यादि । तदेवं क्षणिकस्य विचाराक्षमत्वात्परिणामानित्यपक्षएवज्यायानिति। एवञ्च सत्यात्मा परिणामी ज्ञानधारो भवान्तरयामी भूतेभ्यः कथञ्चिदन्य एव शरीरेण सहान्योऽन्यानुवेधादनन्योऽपि तथा सहेतुकोऽपि नारकतिर्यङमनुष्यामरभवोपादानकर्मणा तथा तथा विक्रियमाणत्वात पर्यायरूपतयेति, तथाऽऽत्मस्वरूपाप्रच्युतेर्नित्यत्वादहेतुकोऽपीति । आत्मनश्च शरीरव्यतिरिक्तस्य साधितत्वात् 'चतुर्द्धातुकमात्रं शरीरमेवेदमि'त्येतदुन्मत्तप्रलपितमपकर्णयितव्यमित्यलं प्रसङ्गेनेति साम्प्रतं पञ्चभूतात्माऽद्वैततज्जीवतच्छरीराकारकात्मषष्ठक्षणिकपञ्चस्कन्धवादिनामफलवादित्वं वक्तुकामः सूत्रकारस्तेषां स्वदर्शनफलाभ्युपगमं दर्शयितुमाहमू. (१९) अगारमावसंतावि, अरण्णा वावि पव्वया । इमं दरिसणमावण्णा, सव्वदुक्खा विमुच्चई । वृ. ‘अगारं' गृहं तद् ‘आवसन्तः ' तस्मिंस्तिष्ठन्तो गृहस्था इत्यर्थ, ‘आरण्यावा' तापसादयः, 'प्रव्रजिताश्च' शाक्यादयः, अपि संभावने, इदं ते संभावयन्ति यथा- 'इदम्' अस्मदीयं दर्शनम् ‘आपन्ना' आश्रिताः सर्वदुःखेभ्यो विमुच्यन्ते, आर्षत्वादेकवचनं सूत्रे कृतं, तथाहि पञ्चभूततज्ञ्जीवतच्छरीरवादिनामयमाशयः - यथेदमस्मदीयं दर्शनं ये समाश्रितास्ते गृहस्थाः सन्तः सर्वेभ्यः शिरस्तुण्डमुण्डनदण्डाजिनजटाकाषायचीवरधारणकेशोल्लुञ्चननाम्यतपश्चरणकायक्लेशरूपेभ्यो दुःखेभ्यो मुच्यन्ते, तथा चोचुः - 119 11 “तपांसि यातंनाश्चित्राः, संयमो भोगवञ्चनम् । अग्निहोत्रादिकं क्रम, बालक्रीडेव लक्ष्यत ॥" इति, सांख्यादयस्तु मोक्षवादिन एवं संभवायन्ति यथा येऽस्मदीयं दर्शनमकर्तृत्वात्माऽद्वैतपञ्चस्कन्धादिरतिपादकमापन्नाः प्रव्रजितास्ते सर्वेभ्यो जन्मजरामरणगर्भपरम्पराऽनेकशारीरमानसातितीव्रतरासातोदयरूपेभ्यो दुःखेभ्यो विमुच्यन्ते, सकलद्वन्द्वविनिर्मोक्षं मोक्षमास्कन्दन्तीत्युक्तं भवति इदानीं तेषामेवाफलवादित्वाविष्करणायाह मू. (२०) मू. (२१) Jain Education International ते नावि संधिं नच्चा णं, न ते धम्णविओ जणा । जे ते उ वाइणो एवं, न ते ओहंतराऽऽ हिया ।। ते नावि सिंधिं नञ्चा णं, न ते धम्मविओ जणा । जे ते उ वाइणो एवं, न ते संसारपारगा ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy