________________
३६५
श्रुतस्कन्धः -२, अध्ययनं-२, पत्तनं मुष्यते केनापि, नीयते सर्वसारमङ्गनाजनोऽपि, यस्तस्यानभिमतः सोऽत्र केवलमास्ते, तदेवं क्रियतां प्रसदस्तदन्वेषणेनेति ।
राज्ञाऽभिहितं-गच्छत यूयं विश्रब्धा भवत अवश्यमहं तं दुरात्मानं लप्स्ये, किंच-यदि पञ्चषैरहोभिर्न लभे चौरं विमर्शयुक्तोऽपि च त्यक्ष्याम्यात्मानमहं ज्वालामालाकुले वह्रो, तदेवं कृतप्रतिज्ञं राजानं प्रणम्य निर्गता नागरिकाः राज्ञाच सविशेषं नियुक्ताआरक्षकाः।आत्मनाऽप्येकाकी खगखेटकसमेतोऽन्वेष्टुमारब्धः, न चोपलभ्यतेचौरः, ततो राज्ञा निपुणतरमन्वेषयता पञ्चमेऽहनि भोजनताम्बूलगन्धमाल्यादिकं गृह्णन् रात्री स्वतो निर्गतेनोपलब्धः स परिव्राट्, तत्पृष्ठगामिना नगरोद्यानवृक्षकोटरप्रवेसेन गुहाभ्यन्तरं प्रविश्य व्यापादितः, तदनन्तरं समर्पित यद्यस्य सत्कमङ्गनाजनोऽपीति।तत्रचैकासीमन्तिनीअत्यन्तमौषधिभिर्भाविता नेच्छत्यात्मीयमपि भरि, ततस्तद्विद्भिरभिहितं-यथाऽस्याः परिव्राटसत्कान्यस्थीनिदुग्धेन सहसंघृष्य यदिदीयन्ते तदेयं तदाग्रहं मुञ्चति, ततस्तत्स्वजनैरेवमेव कृतं, यथा यथा चासौ तदस्थ्यभ्यवहारं विधत्ते तथा तथा तत्स्नेहानुबन्धोऽपैति, सर्वास्थिपाने चापगतःप्रेमानुबन्धः, तदनुरक्ता निजेभर्तरि । तदेवं यथाऽसावत्यन्तं भाविता तेन परिव्राजा नेच्छत्यपरम् एवं श्रावकजनोऽपि नितरां भावितात्मा मौनीन्द्रशासने नश्क्यते अन्यथाकर्तुम्, अत्यन्तंसम्यक्त्वौषधेन वासितत्वादिति पुनरपि श्रावकान् विशिनष्टि-'जाव उसियफलिहा' इत्याहि, उच्छ्रितानि स्फटिकानीव स्फटिकानि-अन्तःकरणानि येषां ते तथा, एतदुक्तंभवति
__ मौनीन्द्रदर्शनावाप्ती सत्यां परितुष्टमानसा इति, तथा अप्रावृतानि द्वाराणि यैस्ते तथा, उदेघाटितगृहद्वारास्तिष्ठन्ति अचियत्तः-अनभिमतोऽन्तःपुरप्रवेशवत्परगृहद्वारप्रवेशोऽन्यतीर्थिकप्रवेशो येषां ते तथा, अनवरतं श्रमणानुद्युक्तविहारिणो निर्ग्रन्थान् प्रासुकेनैषणीयेनाशनादिना तथा पीठफलकशय्यासंस्तारकादिना च प्रतिलाभयंतः तथा बहूनि वर्षाणि शीलव्रतगुणव्रतप्रत्याख्यानपौषधोपवासैरात्मानं भावयन्तस्तिष्ठन्ति ।। तदेवं ते परमश्रावकाः प्रभूतकालमणुव्रतगुणव्रतशिक्षाव्रतानुष्ठायिनः साधूनामौषधवपात्रादिनोपकारिणः सन्तोयथोक्तंयथाशक्ति सदनुष्ठानं विधायोत्पन्ने वाकारणेऽनुत्पन्ने वाभक्तंप्रत्याख्यायालोचितप्रतिक्रान्ताः समाधिप्राप्ताः सन्तः कालमासे कालं कृत्वाऽन्यतरेषु देवेषूत्पद्यन्त इति । एतानि चाभिगतजीवाजीवादिकानि पदानि हेतुहेतुमद्भावेन नेतव्यानि, तद्यथा
यस्मादभिगतजीवाजीवास्तस्मादुपलब्धपुण्यपापाः, यस्मादुपलब्धपुण्यपापास्तस्मादुच्छ्रितमनसः, एवमुत्तरत्रापिएकैकंपदं त्यजद्भिरेकैकंचोत्तरं गृह्णद्भिर्वाच्यं, तेचपरेण पृष्टाअपृष्टा वा एतदूचुः,तद्यथा-अयमेवमौनीन्द्रोक्तोमार्गःसदर्थः शेषस्त्वनर्थो, यस्मादेवंप्रतिपद्यन्ते तस्मात्तेसमुच्छ्रितमनसःसन्तः साधुधर्मं श्रावकधर्मंच प्रकाशयन्तो विशेषेणैकादशोपाकप्रतिमाः स्पृशन्तो विहरन्तोऽष्टमीचतुर्दश्यादिषुपौषधोपवासादौ साधून्प्रासुकेन्प्रतिलाभयन्ति, पाश्चात्ये च काले संलिखितकायाः संस्तारकश्रमणभावंप्रतिपद्य भक्तं प्रत्याख्यायायुषः क्षये देवेषूत्पद्यन्ते ततोऽपि च्युताः सुमानुषभावं प्रतिपद्य तेनैव भवेनोत्कृष्टतः सप्तस्वष्टसु वा भवेषु सिध्यन्तीति । तदेतत्स्थानंकल्याणपरम्परया सुखविपाकमितिकृत्वाऽऽर्यमिति ।अयं विभङ्गस्तृतीयस्य स्थानस्य मिश्रकाख्यस्याख्यात इति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org