________________
३६४
सूत्रकृताङ्ग सूत्रम् २/२/-/६७१
परमठ्ठे सेसे अणट्टे उसियफलिहा अवंगुयदुवारा अचियत्तंते उपरपरधरपवेसा चाउद्दस ट्ठमुद्दिद्वपुण्णिमासिणीसु पडिपुत्रं पोसहं सम्मं अनुपालेमाणा समणे निग्गंथे फासुएसणिज्जेणं असणपाणखाइमसाइमेणं वत्थपडिग्गहकंबलपायपुंछणेणं ओसहभेसङ्गेणं पीठफलगसेज्जासंथारएणं पडिला माणा बहूहिं सीलव्वयगुणवेरमणपञ्चटक्खाणपोसहोववासेहिं अहापरिग्गहिएहिं तवोकम्मेहिं अप्पाणं भावेमाणा विहरंति ।
ते णं एयारूवेणं विहारेणं विहरमाणा बहूइं वासाइं समणोवासगपरियागं पाउणंति पाउणित्ता आबाहंसि उप्पन्नंसि वा अनुप्पन्नंसि वा बहूई भत्ताइं पञ्चक्खायंति बहूई भत्ताइं पचखाएता बहूई भत्ताइं अणसणाए छेदेन्ति बहूई भत्ताइं अणसणाए छेइत्ता आलोइयपडिक्कंता समाहिपत्ता कालमासे कालं किच्चा अन्नयरेसु देवलोएसु देवत्ताए उववत्रो भवंति, तंजहा -
महड्डिए महज्जुइएसुजाव महासुक्खेसु सेसं तहेव जाव एस ठाणे आयरिए जाव एगंतसम्मे साहू । तच्चस्स ठाणस्स मिस्सगस्स विभंगे एवं आहिए। अविरइं पहुच बाले आहिज्जइ, विरइं पडुच पंडिए आहिज्जइ, विरयाविरइं पडुच्च बालपंडिए आहिज्जइ, तत्थ णं जा सा सव्वतो अविरई एस ठाणे आरंभट्ठाणे अणारिए जाव असव्वदुक्खप्पहीणमग्गे एगंतमिच्छे असाहू, तत्थ णं जा सासव्वतो विरई एस ठाणे अनारंभट्ठाणे आरिए जाव सव्यदुक्खप्पहीणमग्गे एगंतसम्मे साहू । तत्थ णं जा सा सव्वओ विरयाविरई एस ठाणे आरंभणो आरंभट्ठाणे एस ठाणे आरिए जाव सव्वदुक्खष्पहीणमग्गे एगंतसम्मे साहू ।
वृ. अथापरस्य तृतीयस्य स्थानस्य मिश्रकाख्यस्य विभङ्गः समाख्यायते एतच्च यद्यपि मिश्रत्वाद्धर्माधर्माभ्यामुपपेतं तथापि धर्मभूयिष्ठत्वाद्धार्मिकपक्ष एवावतरति, तद्यथा - बहुषु गुणेषु मध्यपतितो दोषो नात्मानं लभते, कलङ्कइव चन्द्रिकायाः, तथा बहूदकमध्यपतितो मृच्छकलावयवो नोदकं कलुषयितुमलम्, एवमधर्मोऽपि धर्ममिति स्थितं धार्मिकपक्ष एवायं । 'इह' अस्मिन् जगति प्राच्यादिषु दिक्षु एके केचन शुभकर्माणो मनुष्या भवन्तीति, तद्यथा - अल्पा- स्तोका परिग्रहारम्भेष्विच्छा- अन्तःकरणप्रवृत्तिर्येषां ते तथा एवंभूता धार्मिकवृत्तयः प्रायः सुशीलाः सुव्रताः सुप्रत्यानन्दाः साधवोभवन्तीति । तथैकस्मात्-स्थूलात्संकल्पकृतात् प्रतिनिवृत्ता एकस्माच्च सूक्ष्मादारम्भजादप्रतिनिवृत्ता एवं शेषाण्यपि व्रतानि संयोज्यानीति । एतस्मादपि सामान्येन निवृत्ता इत्यतिदिशन्नाह - 'जे यावण्णे' इत्यादि, ये चान्ये सावद्य नरकादिगमनहेतवः कर्मसमारम्भास्तेभ्य एकस्माद्यन्त्रपीडननिर्लाञ्छनकृषीवलादेर्निवृत्ता एकस्माच्च क्रयविक्रयादेरनिवृत्ता इति ।
तांश्च विशेषतो दर्शयितुमाह-विशिष्टोपदेशार्थं श्रमणानुपासते सेवन्त इति श्रमणोपासकाः, तेच श्रमणोपासनतोऽभिगतजीवाजीवस्वभावाः तथोपलब्धपुण्यपापाः । इह च प्रायः सूत्रादर्शेषु नानाविधानि सूत्राणि दृश्यन्ते न च टीकासंवाद्येकोऽप्यस्माभिरादर्शः समुपलब्धोऽत एकमादर्शमङ्गीकृत्यास्माभिर्विवरणं क्रियते इयेतदवगम्य सूत्रविसंवाददर्शनाच्चित्तव्यामोहो न विधेय इति । ते श्रावकाः परिज्ञातबन्धमोक्षस्वरूपाः सन्तो न धर्माच्याव्यन्ते मेरुरिव निष्प्रकम्पा ध्ढमार्हते दर्शनेऽनुरक्ताः । अत्र चार्थे सुखप्रतिपत्त्यर्थं ध्टान्तभूतं कथानकं, तच्चेदं तद्यथा - राजगृहे नगरे कश्चिदेकः परिव्राट् विद्यामन्त्रौपधिलब्धसामर्थं परिवसति, स च विद्यादिबलेन पत्तने पर्यटन् यां यामभिरूपतरामङ्गनां पश्यति तां तामपहरति, ततः सर्वनागरै राज्ञे निवेदितं यथा देव ! प्रत्यहं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org